81044: किं क्रियाप्रश्नेऽनुपसर्गमप्रतिषिद्धम्

Padacheda: किम् | S | 1 | 1 |

क्रियाप्रश्ने | S | 7 | 1 |

अनुपसर्गम् | S | 1 | 1 |

अप्रतिषिद्धम् | S | 1 | 1 |

Sutrartha


Vasu English Summary

The finite verb optionally retains its accent in connection with किम् when with this is asked a question relating to an action and when the verb is not preceded by a preposition or a negation.

Vasu English Translation

The finite verb optionally retains its accent in connection with किम् when with this is asked a question relating to an action and when the verb is not preceded by a preposition or a negation. Thus किं देवदत्तः प꣡चति, आहोस्विद् भुङ्क्ते ॥ किं देवदत्तः शेते꣡, आहोस्विदधीते꣡ ॥ Here some say, that the first verb (पचति or शेते) being directly joined with किं retains its accent, whilst the second verb (भुङ्क्ते or अधीते) not being joined with किं, loses its accent by the general rule (8.1.28). Others say, though the word किं is heard in connection with one verb only, yet as both verbs are objects of doubt, therefore, किं is logically connected with both of them, and so both verbs retain their accents. Thus भुङ्क्ते꣡ will retain its accent according to this view.

Why do we say when the question relates to a क्रिया or action? The rule will not apply, when the question relates to an object or साधन ॥ Thus किं देवदत्त ओदनं प॒च॒ति॒ आहोस्विच्छाकं ॥

Why do we say “when a question is asked”? Observe किमधीते देवदत्तः ॥ Here किं is used to express contempt, and not to ask a question.

Why do we say ‘not preceded by a Preposition’? Observe किं देवदत्तः प्रपचति आहोस्वित् प्रकरोति ॥

Why do we say “not preceded by a negative particle”. Observe किं देवदत्तो न पठति आहोस्वित् न करोति ॥

Kashika

किमित्येतत् क्रियाप्रश्ने यदा वर्तते तदानेन युक्तं तिङन्तमनुपसर्गमप्रतिषिद्धं नानुदात्तं भवति। किं देवदत्तः पच॑ति, आहोस्विद् भु॒ङ्क्ते। किं देवदत्तः, शेते॑, आहोस्विद॒धी॒ते। अत्र केचिदाहुः — पूर्वं किंयुक्तमिति तद् न निहन्यते, उत्तरं तु न किंयुक्तमिति तद् निहन्यत एवेति। अपरे त्वाहुः — यद्यप्येकस्याख्यातस्य समीपे किंशब्दः श्रूयते, तथापि सर्वस्य संशयविषयस्य तेन योग इत्युभयत्र प्रतिषेधेन भवितव्यमिति। क्रियाग्रहणं किम् ? साधनप्रश्ने मा भूत् — किं देवदत्त ओदनं प॒च॒ति॒ आहोस्विच्छाकमिति। प्रश्न इति किम् ? किमधी॒ते॒ देवदत्तः। क्षेपे किंशब्दोऽयम्, न प्रश्ने। अनुपसर्गमिति किम्? किं देवदत्तः प्रप॒च॒ति॒,आहोस्वित् प्रक॒रो॒ति॒। अप्रतिषिद्धमिति किम् ? किं देवदत्तो न प॒ठ॒ति॒ आहोस्विद् न क॒रो॒ति॒॥

Siddhanta Kaumudi

क्रियाप्रश्ने वर्तमानेन किंशब्देन युक्तं तिङन्तं नानुदात्तम् । किं द्विजः । पचत्याहोस्विद्गच्छति । क्रियेति किम् । साधनप्रश्ने मा भूत् । किं भक्तं पचत्यपूपान्वा । प्रश्ने किम् । किं पठति । क्षेपोऽयम् । अनुपसर्गं किम् । किं प्रपचति उत प्रकरोति । अप्रतिषिद्धं किम् । किं द्विजोन पचति ॥

Padamanjari

अप्रतिषिद्धमिति । अप्रतिषिद्धार्थमित्यर्थः । पूर्वं किंयुक्तमिति । तत्समीपे किमः श्रूयमाणत्वात् । उतरं तु न किंयुक्तमिति । विपर्ययात् । अपरे इत्यादि । न समीपे श्रूयमाणत्वं किंशब्देन सम्बन्धे हेतुः, किन्तु संशयविषयत्वम् । तच्च द्वितीयस्याप्यस्ति, अतस्तस्यापि तेन योग इत्युभयत्र प्रतिषेध इत्यर्थः । ये त्वाहुः - पूर्वं किंयुक्तमिति, ते मन्यन्ते - अस्तु द्वयोः संशयविषयत्वम्, किंशब्देन तु समीपे श्रुतक्रियाविषय एव प्रश्नो द्योत्यते, क्रियान्तरविषयस्तु प्रश्न आहोस्विदित्यनेन, क्रियाप्रश्न इति चोच्यते, तस्मातस्यैव निघातप्रतिषेध इति ॥

Nyaas

अप्रतिषिद्धम् इति। प्रतिषेधः प्रतिषिद्धम्। भावे निष्ठा। नास्य प्रतिषिद्धमस्तीत्यप्रतिषिद्धम्। अथ वा -कर्मणि निष्ठा, निविद्धं प्रतिषिद्धमप्रतिषिद्धम्। अर्थद्वारकञ्चैतत्? तिङो विशेषणम्। पूर्वं किंयुक्तम् इति। तत्समीपे किमः श्रूयमाणत्वादित्यभिप्रायः। उत्तरं तु न किंयुक्तम् इति। तस्यासमीपे श्रूयमाणत्वादिति भावः। अपरे त्वाहुः इत्यादि। न हि समीपे श्रुयमाणत्वं किंशब्दस्य शब्दान्तरेण सम्बन्धे हेतुः अपि तु संशयविषयत्वम्। यथा चात्र पूर्वस्याख्यातस्य, तथा तत्परस्यापीत्यस्ति तस्य योगः किंशब्देनेत्युभयत्र प्रतिषेधः॥