81033: अङ्गाप्रातिलोम्ये¶
Padacheda: अङ्ग | S | 0 | 0 |
अप्रातिलोम्ये | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The finite verb retains its accent in connection with अङ्ग when used in a friendly assertion.
Vasu English Translation¶
The finite verb retains its accent in connection with अङ्ग when used in a friendly assertion. Anything done to injure another is prati-loma, opposite of this is apratiloma, or friendliness. In fact, it is equal to anuloma. Thus अङ्ग प꣡च ‘yes, you may cook’, Here anga has the force of friendly permission. So also अङ्ग प꣡ठ ॥ But when it has the force of pratiloma, we have:- अङ्ग कूजा꣡ ३ वृषल ॥ इदानीं ज्ञास्यसि जाल्म “Well, chuckle O sinner! soon wilt thou learn, O coward”. Here अङ्ग is used in the sense of censure, for chuckling is a thing not liked by the person: and is pratiloma action: for pluta-vowel see (8.2.96).
Kashika¶
अङ्ग इत्यनेन युक्तं तिङन्तमप्रातिलोम्ये गम्यमाने नानुदात्तं भवति। अङ्ग कु॒रु। अङ्ग पच॑। अङ्ग पठ॑। अप्रातिलोम्य इति किम् ? अङ्ग कू॒ज३ वृषल, इदानीं ज्ञास्यसि जाल्म। कूजनमनभिमतमसौ कुर्वन् प्रतिलोमो भवति॥
Siddhanta Kaumudi¶
अङ्गेत्यनेन युक्तं तिङन्तं नानुदात्तम् । अङ्ग कुरु । अप्रातिलोम्ये किम् । अङ्ग कूजसि वृषल । इदानीं ज्ञास्यसि जाल्म । अनभिप्रेतमसौ कुर्वन्प्रतिलोमो भवति ॥
Padamanjari¶
प्रातिलोम्यमुप्रतिकूलकारित्वम्, ततोऽन्यदभिमतकारित्वमप्रातिलोम्यम् । एवं चानुलोम्य इति वक्तव्यम् । अङ्गशब्द उदाहरणेऽनुज्ञायाम् । प्रत्युदाहरणे त्वमर्षे ॥
Nyaas¶
प्रातिलोभ्यम्=प्रातकूल्यम्, अनभिमतकारित्वमित्यर्थः। ततोऽन्यदप्रातिलोभ्यम्नुकूलत्वम्, अभिमतकारित्वमिति यावत्। तस्मिन्? गम्यमानेऽयं प्रतिषेधः। अङ्ग कुरु, ङ्ग पच इति। अङ्गशब्दोऽयं निपात इहानुज्ञायां वर्तमानोऽप्रातिलोभ्यं गमयति। करोतेर्लोटि सिप्, सेह्र्रपिच्च (3.4.87) , धातोर्गुणे कृते अत उत्सार्वधातुके (6.4.110) इत्युत्त्वम्, उत्तश्च प्रत्ययात् (6.4.1-6) इति हेर्लुक्। अत्रोकारः प्रत्ययस्वरेणोदात्तः। पच इति। अतो हेः (6.4.105) इति लुक्। धातुस्वरेणाद्युदात्तमेतत्। प्रत्युदाहरणेऽङ्ग शब्दोऽमर्धे वर्तते। आनुलभ्ये इति वक्तव्येऽप्रातिलोम्ये इति वचनं वैचित्र्यार्थम्॥
Prakriyasarvasvam¶
आनुकूल्येऽङ्गयुक्तस्तिङ् न निहन्यते । अङ्ग हरिं स्मर । प्रातिलोम्ये तु—अङ्ग प्रलपेदानीम् ज्ञास्यसि ।