81026: सपूर्वायाः प्रथमाया विभाषा

Padacheda: सपूर्वायाः | S | 5 | 1 |

प्रथमायाः | S | 5 | 1 |

विभाषा | S | 1 | 1 |

Sutrartha


Vasu English Summary

When the सर्वनाम follows a Nominative 1st-Case, which itself is preceded by another word, then the above substitutions may take place optionally.

Vasu English Translation

When the सर्वनाम follows a Nominative 1st-Case, which itself is preceded by another word, then the above substitutions may take place optionally. Thus ग्रामे कम्बलस्ते स्वम् or ग्रामे कम्बलस्तवस्वम् ॥ ग्रामे कम्बलोमेस्वम् ॥ ग्रामेकम्बलोममस्वम् ॥ ग्रामकम्बलस्ते दीयते ॥ ग्रामे कम्बलस्तुभ्यं दीयते ॥ ग्रामे कम्बलो मे दीयते ॥ ग्रामे कम्बलो मह्यं दीयते ॥ ग्रामे छात्रास्त्वा पश्यन्ति ॥ ग्रामे छात्रास्त्वां पश्यन्ति ॥ ग्रामे छात्रा मा पश्यन्ति ॥ ग्रामे छात्रा मां पश्यन्ति ॥

Why do we say “which itself is preceded by another word”? Observe कम्बलस्ते स्वम्, कम्बलो मे स्वम् ॥

Why do we say “after a Nominative”? Observe कम्बलो ग्रामे ते स्वम्, कम्बलो ग्रामे मे स्वम् ॥

Vart:- The option herein taught is restricted to युष्मद् and अस्मद् when not employed in anvadesa. But when there is anvadesa, then the substitution is compulsory and not optional. This vartika restricts the scope of the sutra, and makes it a vyavasthita vibhasha. Therefore, there is no option here, where there is anvadesa: अथो ग्रामे कम्बलस्ते स्वम्, अथो ग्रामे कम्बलो मे स्वम् ॥

Vart:- Others say, that the substitutes वां, नौ &c are all optional, when not employed in anvadesa, whether the nominative is preceded by another noun or not. Thus the rules 20.21, 22.23 are optional. As : कम्बलस्ते स्वम्, or कम्बलस्तव स्वम्, कम्बलो मे स्वम् or कम्बलो मम स्वम् ॥ Why do we say “when not in anvadesa”? Observe अथो कम्बलस्ते स्वम्, अथो कम्बलो मे स्वम् ॥ Question: If this is so, where is the necessity of the present sutra at all? Answer:- The present sutra is for the sake of anvadesa: i.e. the option taught in the present sutra will take place only then, when there is anvadesa and not otherwise ; thus अथो ग्रामे कम्बलस्ते स्वम्, or अथो ग्रामे कम्बलस्तव स्वम्, अथो ग्रामे कम्बलो मे स्वम्, or अथो ग्रामे कम्बलो मम स्वम् ॥ In other words, according to this vartika, rules 20.21, 22 and 23 are all optional in anvadesa, but compulsory where is no anvadesa; but when the pronoun is preceded by a nominative which itself is preceded by another word, then the above rules are not compulsory, even in anvadesa: there also the option will apply.

Bhashya

सपूर्वायाः प्रथमाया विभाषा ॥ युष्मदस्मदोरन्यतरस्यामनन्वादेशे॥ युष्मदस्मदोरन्यतरस्यामनन्वादेश इति वक्तव्यम्। ग्रामे कम्बलस्ते स्वम्(2), ग्रामे कम्बलस्तव स्वम्। ग्रामे कम्बलो मे स्वम्, ग्रामे कम्बलो मम स्वम्॥ अनन्वादेश इति किमर्थम्?॥ अथो ग्रामे कम्बलस्ते स्वम्। अथो ग्रामे कम्बलो मे स्वम्॥ अपर आह॥ सर्व एव वान्नावादयोऽनन्वादेशे विभाषा वक्तव्याः॥ कम्बलस्ते स्वम् कम्बलस्तव स्वम्। कम्बलो मे स्वम् कम्बलो मम स्वम्॥ अनन्वादेश इति किमर्थम्?॥ अथो कम्बलस्ते स्वमथो कम्बलो मे स्वम्॥ न तर्हीदानीमिदं वक्तव्यं,-सपूर्वायाः प्रथमाया(3) विभाषेति?॥ वक्तव्यञ्ञ्च॥ किं प्रयोजनम्?॥ अन्वादेशार्थम्। अन्वादेशे विभाषा यथा स्यात्। अथो ग्रामे कम्बलस्ते स्वम्। अथो ग्रामे कम्बलस्तव स्वम्। अथो ग्रामे कम्बलो मे स्वम्। अथो ग्रामे कम्बलो मम स्वम्॥ (सपूर्वायाः प्रथमायाः)

Kashika

विद्यमानपूर्वात् प्रथमान्तात् पदादुत्तरयोर्युष्मदस्मदोर्विभाषा वान्नावादयो न भवन्ति। ग्रामे कम्बलस्ते स्वम्, ग्रामे कम्बलस्तव स्वम्। ग्रामे कम्बलो मे स्वम्, ग्रामे कम्बलो मम स्वम्। ग्रामे कम्बलस्ते दीयते, ग्रामे कम्बलस्तुभ्यं दीयते। ग्रामे कम्बलो मे दीयते, ग्रामे कम्बलो मह्यं दीयते। ग्रामे छात्रास्त्वा पश्यन्ति, ग्रामे छात्रास्त्वां पश्यन्ति। ग्रामे छात्रा मा पश्यन्ति, ग्रामे छात्रा मां पश्यन्ति। सपूर्वाया इति किम् ? कम्बलस्ते स्वम्, कम्बलो मे स्वम्। प्रथमाया इति किम् ? कम्बलो ग्रामे ते स्वम्। कम्बलो ग्रामे मे स्वम्॥ युष्मदस्मदोर्विभाषा अनन्वादेश इति वक्तव्यम्॥ इह मा भूत् — अथो ग्रामे कम्बलस्ते स्वम्। अथो ग्रामे कम्बलो मे स्वम्। अपर आह॥ सर्व एव वान्नावादयोऽनन्वादेशे विभाषा वक्तव्याः॥ कम्बलस्ते स्वम्, कम्बलस्तव स्वम्। कम्बलो मे स्वम्, कम्बलो मम स्वम्। अनन्वादेश इति किम्? अथो कम्बलस्ते स्वम्। अथो कम्बलो मे स्वम्। न तर्हीदानीमिदं वक्तव्यं सपूर्वायाः प्रथमाया विभाषेति? वक्तव्यं च । किं प्रयोजनम्? अन्वादेशार्थम्। अन्वादेशे हि विभाषा यथा स्यात्। अथो ग्रामे कम्बलस्ते स्वम्, अथो ग्रामे कम्बलस्तव स्वम्। अथो ग्रामे कम्बलो मे स्वम्, अथो ग्रामे कम्बलो मम स्वम्॥

Siddhanta Kaumudi

विद्यमानपूर्वात्प्रथमान्तात्परयोरनयोरन्वादेशेऽप्येते आदेशा स्युः । भक्तस्त्वमप्यहं तेन हरिस्त्वां त्रायते स माम् । त्वा मेति वा ॥

Balamanorama

सपूर्वायाः प्रथमाया विभाषा - सपूर्वायाः । वां-नावाद्यादेशा अनन्वादेशे पाक्षिकाः, अन्वादेशे तु नित्या इत्युक्तम् । अन्वादेशेऽपि क्वचिद्विकल्पार्थमिदम् । सहशब्दोऽत्र ‘सलोमक’ #इत्यादिवद्विद्यमानवाची । वीद्यमानं पूर्वं यस्य इति विग्रहः,तेन सहेति तुल्ययोगे॑ इति सहस्य समासः । तुस्ययोगवचनं प्रायिकमिति वक्ष्यमाणत्वात् ।प्रथमे॑त्यनेन तदन्तं गृह्रते । तदाह — विद्यमानेत्यादिना । परयोरित्यनन्तरंयुष्मदस्मदो॑रिति शेषः । भक्तस्त्वमिति ।देवदत्ते॑त्यद्याहार्यम् । हे देवदत्त त्वमपि भक्तः, अहमपि भक्त इत्यन्वयः । तेनेति । भक्तत्वेनेत्यर्थः । त्रायते इति पालयतीत्यर्थः । अत् पूर्ववाक्योपात्तयुष्मदस्मदर्थयोरिह पुनरूपादानादन्वादेशोऽयम् । अत्र ‘तेने’ त्येतत् पूर्वं विद्यमानं पदं, ततः परंहरि॑रिति प्रथमान्तं, ततः परस्य युष्मच्छब्दस्यान्वादेशेऽपि त्वादेशविकल्पः । तथा ‘त्रायते’ इत्येतत्पूर्वं विद्यमानं पदम्, ततः परं ‘सः’ इति प्रतमान्तम्, ततः परस्याऽस्मच्छब्दस्यान्वादेशेऽपि मादेशविक्लपः । ‘त्रायत’ इत्येतन्मध्यमणिन्यायेनोभयत्र संबध्यते । तेने निमित्तनिमित्तिनोः समानवाक्यस्थत्वं, स इत्यस्य विद्यमानपूर्वत्वं च बोध्यम् ।

Tattvabodhini

सपूर्वायाः प्रथमाया विभाषा - सपूर्वायाः ।सह॑शब्दोऽत्रसलोमक॑इत्यत्रेव विद्यमानवचनः ।तेन सहेती॑त्यत्र तुल्ययगवचनं प्रायिकमिति वक्ष्यमाणत्वाद्विद्यमानवचनस्यापि सहस्य समासः ।वोपसर्जनस्ये॑ति सभावः ।प्रथमाया॑इति च प्रत्ययग्रहणात्तदन्तविधिरित्यावोच्याह — विद्यमानपूर्वादित्यादि ।एते वानावादय आदेशाः॑इत्यविशेषोत्तयैव विभाषया सिद्धे, किमर्थमिदं व चनमित्याशङ्कां परिहन्नाह — अन्वादेशेऽपीति । भक्तस्त्वमित्यादि । त्वं हरेस्त्वं भक्तस्तेनैव कारणेनाऽहमपी ति व्याचक्षाणानां तु यच्छब्दाध्याहारक्लेश इति बोध्यम् । अत्रतेने॑ति पूर्वं विद्यमानं पदं, ततो हरिरिति प्रथमान्तं, ततः परस्य युष्मच्छब्दस्यादेशः । तथात्रायते॑इकत्यस्मात्परं॒स॑इति प्रथमान्तं, ततः परस्याऽस्मच्छब्दस्यादेशः ।

Padamanjari

विद्यमानपूर्वादिति ।’तेन सहेति तुल्ययोगे’ इत्यत्र’तुल्ययोगे’ इत्यपाधेः प्रायिकत्वाद्विद्यमानवचनस्यापि सहशब्दस्य समासः,’वोपसर्जनस्य’ इति सभावः । युष्मदस्मदोर्विभाषाऽनन्वादेश इति । येयं युष्मदस्मदोर्विभाषा साऽनन्वादेशे भवति, अन्वादेशे तु नित्यमादेशविधिरित्यर्थः । अपर आहेति । पूर्वस्यैव वाक्यस्य व्याख्यानान्तरम् । पूर्व विभाषाऽनुवादेन’विषयो नियम्यते’ इत्युक्तम्, इदानीं तु’विशिष्टे विषये विकल्प एव विधीयते’ इत्युच्यते । न केवलं सूत्रोक्तविषये ये प्राप्तास्त एव विकल्प्यन्ते, अपि तु सर्वे सर्वविषया इत्यर्थः । न तर्हीति । वक्तव्येनैव सिद्धत्वादिति भावः । अन्वादेशार्थमिति । ननु पूर्वम् ठन्वादेशे सूत्रं न व्याप्रियते, इत्युक्तम्, इदानीं तु’तत्राव व्याप्रियते’ इत्युच्यते, तत्कोऽत्र निर्णयः ? इत्याह - तदयमिति । तदिति तत्रेत्यर्थे । वाक्योपन्यासे वा । पूर्वा व्याख्यया बाध्यत इत्यर्थः ॥

Nyaas

सहशब्दोऽत्र विद्यमानवचनः, पृर्वशब्दो व्यवस्थावाची। सह विद्यमानं पूर्व यस्याः सा सपूर्वा -पञ्चम्यर्थे बहुव्रीहिः, वोपसर्जनस्य (6.3.82) इति सहस्य सभावः। प्रथमायाः इति। प्रत्ययग्रहणपरिभाषया (भो।प।7) तदन्तग्रहणं विज्ञायते। अत एवाह -प्रथमान्तात्? पदात् इति। युष्मदस्मदोर्विभाषा इत्यादि। आदेशः=कथनम्, अन्दादेशः=अनुकथनम्। न अन्वादेशोऽनन्वादेशः। तत्रानन्वादेशे युष्मदस्मदोर्विभाधा भवतीति वक्तव्यम्। किमर्थमित्याह -इह इत्यादि। सर्व एव इत्यादि। ये सपूर्वात्? प्रथमान्तात्? पदात्परयोर्युष्मदस्मदोः प्राप्नुवन्त्यादेशाः, ये च ततोऽन्ये ते सव एवानत्वादेशे विभाषा वक्तव्याः। यद्येवम्? अनेन वचनेनैव सर्वत्र विकल्पस्य सिद्धत्वादपार्थकमिदं सूत्रमिति मन्ममान आह -न तर्हि इत्यादि। `अन्वादेशार्थम्? इति। यद्येतन्नोच्येत, ततोऽनन्वादेश इत्यभिधानात्? सपूर्वात्? प्रथमान्तादन्वादेशे विकल्पो न स्यात्। तस्मात्? सपूर्वात्? प्रथमान्तादन्वादेशेऽपि विकल्पो यथा स्यादित्येवमर्थं क्रियमाणेऽप्युपसंख्याने सूत्रमिदं कर्तव्यमेव। अस्मस्तु क्रियमाणे तदुपसंख्यानं न कर्तव्यम्। कथम्? सिंहावलोकितत्यायेन विभाषाग्रहणं पूर्वत्राप्युपतिष्ठते। सत्र व्यवस्थितविभाषाग्रहणादनन्वादेशे सर्वत्र विकल्पो भविष्यति, अन्वादेशे तु नित्यं दान्नावादयः, सपूर्वायाः प्रथमाया अन्वादेशेऽपि विकल्प इति॥

Prakriyasarvasvam

प्राक्पदयुक्तात्प्रथमान्तात्परयोर्युष्मदस्मदोर्वानावादयो वा स्युः । तेन कृष्णो मे मम वा रक्षिता । अत्रान्वादेशेऽपि विकल्पः फलम् । अन्यत्र वक्तव्येन विकल्पोक्तेः ॥