81025: पश्यार्थैश्चानालोचने

Padacheda: पश्यार्थैः | S | 3 | 1 |

च | S | 0 | 0 |

अनालोचने | S | 7 | 1 |

Sutrartha


Vasu English Summary

The above substitutions do not take place also in connection with verbs having the sense of ‘seeing’ when physical seeing is not denoted.

Vasu English Translation

The above substitutions do not take place also in connection with verbs having the sense of ‘seeing’ when physical seeing is not denoted. The word पश्यार्थाः is equivalent to दर्शनार्थाः, and दर्शन means ‘knowledge’, i.e. verbs denoting ‘to know’, आलोचन means perception obtained through sight i.e. physical ‘seeing’ opposed to metaphorical “seeing” = “knowing”. The substitutions of वां and नौ &c. for युष्मद् and अस्मद् do not take place when these pronouns are employed in connection with verbs denoting ‘seeing’ (metaphorically) but not ‘looking’ (physically).

Thus ग्रामस्तव स्वं समीक्ष्यागतः, ग्रामो मम स्वं समीक्ष्यागतः; ग्रामस्तुभ्यं दीयमानं समीक्षागतः, ग्रामो मह्यं दीयमानं समीक्ष्यागतः, ग्रामस्त्वां समीक्ष्यागतः, ग्रामो मां समीक्ष्यागतः ॥

Why do we say when not meaning ‘to look’? Observe ग्रामस्त्वा पश्यति, ग्रामो मा पश्यति ॥

Ishti:- With regard to verbs of “seeing”, the rule should apply even where the connection is not direct: as, we have already illustrated above.

Kashika

पश्यार्था दर्शनार्थाः। दर्शनं ज्ञानम्। आलोचनं चक्षुर्विज्ञानम्। तैः पश्यार्थैरनालोचने वर्तमानैर्युक्ते युष्मदस्मदोर्वान्नावादयो न भवन्ति। ग्रामस्तव स्वं समीक्ष्यागतः। ग्रामो मम स्वं समीक्ष्यागतः। ग्रामस्तुभ्यं दीयमानं समीक्ष्यागतः। ग्रामो मह्यं दीयमानं समीक्ष्यागतः। ग्रामस्त्वां समीक्ष्यागतः। ग्रामो मां समीक्ष्यागतः। अनालोचन इति किम्? ग्रामस्त्वा पश्यति। ग्रामो मा पश्यति। पश्यार्थैर्युक्तयुक्तेऽपि च प्रतिषेध इष्यते। तथा चैवोदाहृतम्॥

Siddhanta Kaumudi

अचाक्षुषज्ञानार्थैर्धातुभिर्योगे एते आदेशा न स्युः । चेतसा त्वा समीक्षते । परम्परासंबन्धेऽप्ययं निषेधः । भक्तस्तव रूपं ध्यायति । आलोचने तु-भक्तस्त्वा पश्यति चक्षुषा ॥

Balamanorama

पश्यार्थैश्चानालोचने - पश्यार्थैश्चानालोचने । दर्शनं पश्यः । ‘दृशिर्प्रेक्षणे’ इत्यस्मादत एव निपातनाद्भावे शप्रत्ययः ।पाघ्रे॑ति पश्यादेशः । पश्यः=दर्शनमर्थो येषां ते पश्यार्थाः, तैरिति विग्रहः । आलोचनं=चाक्षुषं ज्ञानं, तद्भिन्नमनालोचनम्, तत्र विद्यमानैः । दर्शनार्थकैरित्यर्थः । पश्येति दृशिना ज्ञानसामान्यं विवक्षितम्, अनालोचने इति चाक्षुषपर्युदासात् । तदाह — अचाश्रुषेत्यादिना । चेतसेति । देवेत्यध्याहार्यम् । हे देव मनसा त्वां चिन्तयतीत्यर्थः । परम्परेति ।न चवाहे॑त्यत्र युक्तग्रहणसामर्थ्यात्साक्षात्संबन्धविवक्षा युक्ता । इह तु तद्विवक्षायां मानाऽभावात्परम्परान्वयेऽपि स्यादेव निषेध इत्यर्थः । भक्तस्तवेति । देवेत्यध्याहार्यम् । इह तवेत्यस्य रूपेणान्वयो न तु साक्षाद्भ्यायतिनेति भावः । ‘अनालोचने’ इत्यस्य प्रयोजनमाह — आलोचना त्विति ।

Tattvabodhini

पश्यार्थैश्चानालोचने - तदेतदाह — अचाक्षुषज्ञानार्थैरिति । परम्पासम्बन्धेऽपीति । पूर्वसूत्रस्थ — ॒युक्त॑ग्रहणेन ज्ञापितमेतद्भवत्यन्यत्र परम्परासम्बन्धेपि निषेधैति ।

Padamanjari

दर्शनमु पश्यः । अस्मादेव निपातनाद् भावे शप्रत्ययः, पाघ्रादिसूत्रेण पश्यादेशः, पश्योऽर्थो तेषां ते पश्यार्थाः, तदाह - पश्यार्था दर्शनार्था इति । यदि तु’पाघ्राध्माधेट्दृशः शः’ इति कर्तरि शप्रत्ययः स्यात्, ततो द्रष्ट्रर्थैरित्यर्थः स्यात्, तथा चालोचनपर्युदासोऽनर्थकः स्यात्, न ह्यालोचनार्था द्रष्ट्रर्था भवन्ति । दर्शनं ज्ञानमिति । यद्यपि दृशिश्चक्षुर्विज्ञाने प्रसिद्धः, तथापि तस्य पर्युदासात् ज्ञानमात्रे दृशिरिह वर्तत इत्यर्थः । ग्रामः उ जनसमुदायः । समीक्ष्य मनसा निरूप्येत्यर्थः ॥

Nyaas

पश्यार्थैरिति बहुव्रीहिः। तत्र पश्य इति यदि पाध्रध्माधेट्वृशः शः (3.1.137) इति कर्तरि शप्रत्ययान्तः स्यात्? ततो द्रष्ट्रर्थैरित्यर्थः स्यात्। एवं च अनालोचने इति प्रतिषेधो दुर्घटः स्यात्। तस्मादालोचनशब्दोऽयं भावसाधनः -आलोचितिरालोचनमिति। तत्र द्रष्ट्रर्थैर्युक्त प्रतिषेध उच्यमानः कः प्रसङ्गो यदालोचनवृत्तिभिर्युक्ते स्यात्, नैव प्राप्नोति, स एधोऽनालोचन इति प्रतिषेध उच्यमानः कः प्रसङ्गो यदा लोचनवृत्तिभिर्युक्ते स्यात्, नैव प्राप्नोति, स एवोऽनालोचन इति प्रतिषेधः कथमुपपद्यते? यदि पश्यशब्दो भावसाधनो भवति, नान्यथा। तस्मादत एव निपातनात्? कृत्यल्युटो बहुलम् (3.3.113) इति वा भावेऽत्र शप्रतत्ययः, तत्र पाध्रा (7.3.78) इत्यादिना पश्यादेशः, द्वयोरकारयोः पररूपत्वम्? (6.1.94) । पश्योऽर्थो येषां ते पश्यार्था दर्शनार्था इत्यर्थः। दर्शनशब्दोऽयं चक्षुष्पर्यायोऽस्ति, यथा -अक्ष्णोऽद्रशनात् (5.4.76) इत्यत्र। अतश्चक्षुधोऽपि सम्प्रत्ययः कस्यचिन्मा भूदित्यत आह -दर्शनं ज्ञानम् इति। तच्चोत्तरत्रालोचनं चक्षुज्र्ञानमिति, चक्षुज्र्ञानस्य पृथगुपादानात्, ततोऽन्यद्विज्ञायते। ग्रामस्त्वां समीक्ष्यागतः इत्यादिकं साक्षाद्युक्त उदाहरणम्। ग्रामस्तव स्वं समीक्ष्यागतः इत्यादिकं युक्तयुक्ते। समीक्ष्यागतः इति। मनसा निरूप्यागत इत्यर्थः। ग्रामस्त्वा पश्यति इति। चक्षुज्र्ञानेन त्वां पश्यातीत्यर्थः। तथा चैवोदाहृतम् इति। यादृशीयमिष्टिस्तदर्थरूपमेवोदाहृतमित्यर्थः॥

Praudhamanorama

अत एव निपातनाद् भावे शः। दर्शनं पश्यः। तच्चेह ज्ञानमात्रम्। ‘अदर्शनं लोपः’ इत्यत्र यथा। न तु चाक्षुषज्ञानमेव, ‘ अनालोचने’ इति निषेधात्। तदतदाह- भक्त इत्यादि। अत्र व्याचख्युः—येन हरेस्त्वं भक्तस्तेनैव कारणेनाऽहमपि भक्त इति योज्यम्। यदि तु तेनेत्यनेन भक्तत्वं त्राणे हेतुर्निर्दिश्यते, ततः सापेक्षविधाने त्वमेव तदिममितिवदन्वादेशो न स्यादिति। अत्रेदं वक्तव्यम्- सापेक्षविधानेऽन्वादेशत्वं नास्तीति तावदसङ्गतम्। आदेशो हि विधिः। किञ्चिद्विधाय पश्चादितरविधिश्चान्वादेशो, न तु निरपेक्षत्वगर्भोऽशब्दार्थत्वात्, शास्त्रे तथा अपरिभाषितत्वाच्च। न च प्रयोगदर्शनादेव तथा कल्प्यत इति वाच्यम्? वन्यद्विपनोन्मथिता त्वगस्य, अथैनमद्रेस्तनया शुशोच॥ इत्यादिषु सापेक्षत्वेऽपि एनादेशदर्शनात्। तत्र हेतुत्वं न शब्देनोपात्तमिति चेन्न, तदेनमुल्ल्घितशासनं विधेर्विधेहि कीनाशनिकेतनातिथिम्॥ इत्यादिमाघप्रयोगविरोधात्। नक्तं भीरुरयमिति तु नायं विधिः किं त्वनुवादः। अतस्तदिममिति न विरुध्यते। एवं स्थिते येन त्वं भक्त इति यच्छब्दाध्याहारक्लेशो व्यर्थः। किं तु तेन त्रायत इत्येव सम्बन्धः। प्रक्रान्तार्थत्वाच्च न यच्छब्दापेक्षेति दिक्। अत्र तेनेति विद्यमानं पदं, ततो हरिरिति प्रथमान्तं, ततः परस्याऽऽदेशः। तथा त्रायत इत्यस्मात् परं स इति प्रथमान्तम्। न च त्रायत इति भिन्नवाक्यस्थमिति भ्रमितव्यम्, स हरिस्त्वां मा त्रायत इति तन्त्रेणाऽनेककारकसम्बन्धात्। अनुषङ्गाभ्युपगमेऽपि ‘एकतिङ् वाक्यम्’ इति परिभाषितैकवाक्यत्वानपायाच्च।

Prakriyasarvasvam

पश्यो ज्ञानम् । अदर्शनाथैर्ज्ञानार्थैर्धातुभिर्योग एते न स्युः । चेतसा त्वां समीक्षते । अत्र युक्तयुक्तेऽपि निषेधः । भक्तस्तव रूपं ध्यायति । आलोचने तु भक्तस्त्वा पश्यति चक्षुषा ॥