81022: तेमयावेकवचनस्य

Padacheda: तेमयौ | S | 1 | 2 |

एकवचनस्य | S | 6 | 1 |

Sutrartha


Vasu English Summary

For the Genitive 6th-Case and Dative -4th Case singular (of युष्मद् and अस्मद् are substituted) ते and मे respectively (when a word precedes and these substitutes are अनुदात्त).

Vasu English Translation

For the Genitive 6th-Case and Dative -4th Case singular (of युष्मद् and अस्मद् are substituted) ते and मे respectively (when a word precedes and these substitutes are अनुदात्त). Thus ग्रामस्ते स्वम्, ग्रामो मे स्वम्, ग्रामस्ते दीयते, ग्रामो मे दीयते ॥ For the Accusative singular, other substitutes have been taught in the next sutra, hence ते and मे come only in Genitive and Dative.

Kashika

युष्मदस्मदोरेकवचनान्तयोः षष्ठीचतुर्थीस्थयोर्यथासंख्यं ते मे इत्येतावादेशौ भवतः। ग्रामस्ते॒ स्वम्। ग्रामो मे॒ स्वम्। ग्रामस्ते॒ दीयते। ग्रामो मे॒ दीयते। द्वितीयान्तस्यादेशान्तरविधानसामर्थ्यात् षष्ठीचतुर्थ्योरेवायं योगः॥

Siddhanta Kaumudi

उक्तविधयोरनयोः षष्ठीचतुर्थ्येकवचनान्तयोस्ते मे एतौ स्तः ॥

Laghu Siddhanta Kaumudi

उक्तविधयोरनयोष्षष्ठीचतुर्थ्येकवचनान्तयोस्ते मे एतौ स्तः॥

Nyaas

किं पुनः कारणं षष्ठीचतुथ्र्यन्तयोरेवोदाहरणमुपन्यस्तम्, न द्वितीयान्तयोः? इत्याह -द्वितीयान्तस्य इत्यादि॥

Prakriyasarvasvam

तादृशोरनयोः षष्ठीचतुर्थ्येकवचनान्तयोस्ते मे इति स्तः ।

Sudha

तेमयेति । तेश्च मेश्चेति विग्रहः । अयं वांनावोरपवादः । अत्र द्वितीयाग्रहणं नानुवर्तते, तत्र त्वामादेशयोर्वचयमाणत्वात् ।

Sutra Prayogas

  • ते (भट्टिकाव्यम्): तेमयावेकवचनस्य इति ते आदेशः।