81021: बहुवचनस्य वस्नसौ

Padacheda: बहुवचनस्य | S | 6 | 1 |

वस्नसौ | S | 1 | 2 |

Sutrartha


Vasu English Summary

For (the Genitive 6th-Case, Dative -4th Case and Accusative -2nd case) plural of युष्मद् and अस्मद् are substituted वस् and नस् respectively (when a word precedes and these substitutes are अनुदात्त).

Vasu English Translation

For (the Genitive 6th-Case, Dative -4th Case and Accusative -2nd case) plural of युष्मद् and अस्मद् are substituted वस् and नस् respectively (when a word precedes and these substitutes are अनुदात्त). Thus ग्रामो वः॒ स्वम्, जनपदो नः॒ स्वम्; ग्रामो वो॒ दीयते, जनपदो नो॒ दीयते; ग्रामो वः॒ पश्यति जनपदो नः॒ पश्यति ॥

Kashika

बहुवचनान्तयोर्युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्यथासंख्यं वस् नस् इत्येतावादेशौ भवतः। ग्रामो वः॒ स्वम्। जनपदो नः॒ स्वम्। ग्रामो वो॒ दीयते। जनपदो नो॒ दीयते। ग्रामो वः॒ पश्यति। जनपदो नः॒ पश्यति॥

Siddhanta Kaumudi

उक्तविधयोः षष्ठ्यादिबहुवचनान्तयोर्वस्नसौ स्तः । वान्नावोरपवादः ॥

Laghu Siddhanta Kaumudi

उक्तविधयोरनयोः षष्ठ्यादिबहुवचनान्तयोर्वस्नसौ स्तः॥

Prakriyasarvasvam

उक्तप्रकारयोः षष्ठ्यादिबहुवचनान्तयोरनयोर्वस् नस् इति स्तः ॥

Sutra Prayogas

  • वः (कुमारसम्भवम्): बहुवचनस्य वस्नसौ इति वसादेशः।

  • नोऽरि (भट्टिकाव्यम्): बहुवचनस्य वस्-नसौ इति नसादेशः।

  • वो (भट्टिकाव्यम्): बहुवचनस्य वस्त्रसौ इति वस्।