74063: न कवतेर्यङि¶
Padacheda: न | S | 0 | 0 |
कवतेः | S | 6 | 1 |
यङि | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The Palatal is not substituted for the Guttural of the reduplicate of कु (कवते) in the intensive.
Vasu English Translation¶
The Palatal is not substituted for the Guttural of the reduplicate of कु (कवते) in the intensive. As कोकूयते उष्ट्रः, कोकूयते खरः ॥ The कु here is कुङ् (Bhuadi 999), and not कु ‘to make sound’ (Adadi 33, कौति), nor कुङ् (Tudadi 108, कुवति) ॥ Of those two, we have चोकूयते ॥ Why do we say in the Intensive? Observe चुकुवे ॥
Kashika¶
कवतेः अभ्यासस्य यङि परतः चुः न भवति। कोकूयते उष्ट्रः। कोकूयते स्वरः। कवतेः इति विकरणनिर्देशः कौतेः कुवतेश्च निवृत्त्यर्थः। तयोः चुत्वम् एव भवति। चोकूयते। यङि इति किम्? चुकुवे।
Siddhanta Kaumudi¶
कवतेरभ्यासस्य चुत्वं न स्याद्यङि । कोकूयते । कौतिकुवत्योस्तु चोकूयते ॥
Tattvabodhini¶
न कवतेर्यङि - न कवतेर्यङि । इह कोरित्येव वाच्ये कवतेरिति शपा निर्देशात्कूङ् शब्द इति भ्वादिरेव गृह्रते न तु कु शब्द इत्यदादिः, कूङ् शब्द इति तुदादिश्चेत्याशयेनाह — कौतिकुवत्योस्त्विति । ननुको॑रित्युक्तेऽपि कूङः प्रसङ्गो नास्ति, दीर्घान्तत्वात्, लुग्विकरणपरिभाषया च कौतेरपि प्रसङ्गो नास्तीति चेत् । अत्राहुः — को॑रित्युक्ते तु निनुबन्धपरिभाषाया अपि जागरूकत्वादुभयोग्र्रहणं स्यादिति कौतिव्यावृत्त्यर्थं शपा निर्देश कर्तव्यः । कृते च तस्मिन्कुवतिमपि व्यावर्तयतीत्यत्र तात्पर्यमिति ।कुङ॑ इत्येवाऽत्र सुवचम् ।
Padamanjari¶
कवतेरित्यादि ।’कूङ् शब्दे’ इति तुदादिः,’कु शब्दे’ इत्यदादिः,’कुङ् खुङ्’ इति भूवादिः शब्दार्थ एव । तत्रासति विकरणनिर्देशे’कोः’ इत्यच्यमाने त्रयाणमपि ग्रहणं स्याद् । अथ तौदादिको दीर्घान्तः ? एवमपि द्वयोर्ग्रहणं स्यात् । न च निरनुबन्धकत्वादादादिकस्यैव ग्रहणम्; लुग्विकरणत्वात् । तस्माद्भौवादिकस्यैव यथा स्यादिति विकरणनिर्द्देशः ॥
Nyaas¶
पूर्वेण प्राप्तस्य चुत्वस्यायं निषेधः। कोकूयते इति। अकृत्सार्वधातुकयोः (7.4.25) इति दीर्घः, गुणो यङ्लुकोः (7.4.82) इत्यभ्यासस्य गुणः। अथ विकरणनिर्देशः किमर्थः, न कोः इत्येवोच्येत? इत्यत आह - कवतेः इत्यादि। कुङ्? शब्दे (धातुपाठः-1401) इति तौदादिकः, कु शब्दे (धातुपाठः-1042) इत्यादादिकः, कुङ् (धातुपाठः-151) इति मौदादिकः शब्दार्थ एव; तत्र भौवादिकस्य ग्रहणं यथा स्यात्, इतरयोर्मा भूदित्येवमर्थो विकरणनिर्देशः। ननु चानयोर्निवृत्तेरेतत्? फलम् - चोकूयत इत्येतदपि रूपं यथा स्यादिति, एतच्च कोः इत्यपि निर्देशे निरनुबन्धकपरिभाषया कौतेरेव निरनुवन्धकस्य ग्रहणे सति सिध्यत्येव, तस्मात्? कोः इत्येवं निर्देशः कर्तव्यः? नैतदेवम्; सत्यपि हि शब्दार्थत्वे भिद्यत एवैषामभिधेयम्। तथा हि - कवतिस्तावदव्यक्तशब्दे वर्तते - उष्ट्रः कोकूयत इति; कुवतिरप्यार्तस्वरे वर्तते - चोकूयते बृषल इति, पोडित इत्यर्थः; कौतिस्तु शबदमात्रे। तस्माद्विशिष्यटार्थस्य परिग्रहो यथा स्यादित्येवमर्थो विकरणनिर्देशः कर्तव्यः। ननु लुग्विकरणपरिभाषया कौतेर्न भविष्यतीति, तत्किमर्थं तन्निवृत्तयर्थता विकरणस्योपपद्यते? एवं मन्यते - कुवतिनिवृत्त्यर्थोऽवश्यं विकरणनिर्देशः कर्तव्यः, सोऽन्यार्थः क्रियमाणः कौतेर्निवृत्त्यर्थोऽपि भवति, तेन लुग्विकरणपरिभाषा (व्या।प।50) अत्र कौतेर्निवृत्त्यर्थमाश्रयितव्या न भवति। चुकुवे इति। पूर्ववत्? तशब्दस्यैच्? अचि श्नुधातु (6.4.77) इत्यादिनोवङ्॥
Prakriyasarvasvam¶
<karika>भ्वादिकस्य कवतेर्यङ्यभ्यासस्य चुर्न हि । कोकूयतेऽथ कुवतिकौत्योश्चोकूयते भवेत् ॥ ७८९ ॥</karika> ‘द्युतिस्वाप्योः—’ (७-४-६७) इत्यभ्यासस्य प्रसारणे गुणः । देद्युत्यते । स्वापेर्द्व्यच्त्वान्न यङ् ।
Sutra Prayogas¶
अकोकूयिष्ट (भट्टिकाव्यम्): न कवतेर्यङि इति कुत्वप्रतिषेधः।