74063: न कवतेर्यङि ================== **Padacheda:** न | S | 0 | 0 | कवतेः | S | 6 | 1 | यङि | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The Palatal is not substituted for the Guttural of the reduplicate of कु (कवते) in the intensive. Vasu English Translation ------------------------ The Palatal is not substituted for the Guttural of the reduplicate of कु (कवते) in the intensive. As कोकूयते उष्ट्रः, कोकूयते खरः ॥ The कु here is कुङ् (*Bhuadi* 999), and not कु 'to make sound' (*Adadi* 33, कौति), nor कुङ् (*Tudadi* 108, कुवति) ॥ Of those two, we have चोकूयते ॥ Why do we say in the Intensive? Observe चुकुवे ॥ Kashika ------- कवतेः अभ्यासस्य यङि परतः चुः न भवति। कोकूयते उष्ट्रः। कोकूयते स्वरः। कवतेः इति विकरणनिर्देशः कौतेः कुवतेश्च निवृत्त्यर्थः। तयोः चुत्वम् एव भवति। चोकूयते। यङि इति किम्? चुकुवे। Siddhanta Kaumudi ----------------- कवतेरभ्यासस्य चुत्वं न स्याद्यङि । कोकूयते । कौतिकुवत्योस्तु चोकूयते ॥ Tattvabodhini ------------- **न कवतेर्यङि** - न कवतेर्यङि । इह कोरित्येव वाच्ये कवतेरिति शपा निर्देशात्कूङ् शब्द इति भ्वादिरेव गृह्रते न तु कु शब्द इत्यदादिः, कूङ् शब्द इति तुदादिश्चेत्याशयेनाह — कौतिकुवत्योस्त्विति । ननुको॑रित्युक्तेऽपि कूङः प्रसङ्गो नास्ति, दीर्घान्तत्वात्, लुग्विकरणपरिभाषया च कौतेरपि प्रसङ्गो नास्तीति चेत् । अत्राहुः — को॑रित्युक्ते तु निनुबन्धपरिभाषाया अपि जागरूकत्वादुभयोग्र्रहणं स्यादिति कौतिव्यावृत्त्यर्थं शपा निर्देश कर्तव्यः । कृते च तस्मिन्कुवतिमपि व्यावर्तयतीत्यत्र तात्पर्यमिति ।कुङ॑ इत्येवाऽत्र सुवचम् । Padamanjari ----------- कवतेरित्यादि ।'कूङ् शब्दे' इति तुदादिः,'कु शब्दे' इत्यदादिः,'कुङ् खुङ्' इति भूवादिः शब्दार्थ एव । तत्रासति विकरणनिर्देशे'कोः' इत्यच्यमाने त्रयाणमपि ग्रहणं स्याद् । अथ तौदादिको दीर्घान्तः ? एवमपि द्वयोर्ग्रहणं स्यात् । न च निरनुबन्धकत्वादादादिकस्यैव ग्रहणम्; लुग्विकरणत्वात् । तस्माद्भौवादिकस्यैव यथा स्यादिति विकरणनिर्द्देशः ॥ Nyaas ----- पूर्वेण प्राप्तस्य चुत्वस्यायं निषेधः। `कोकूयते` इति। `अकृत्सार्वधातुकयोः` (7.4.25) इति दीर्घः, **गुणो यङ्लुकोः** (7.4.82) इत्यभ्यासस्य गुणः। अथ विकरणनिर्देशः किमर्थः, न `कोः` इत्येवोच्येत? इत्यत आह - `कवतेः` इत्यादि। `कुङ्? शब्दे` (धातुपाठः-1401) इति तौदादिकः, `कु शब्दे` (धातुपाठः-1042) इत्यादादिकः, `कुङ्` (धातुपाठः-151) इति मौदादिकः शब्दार्थ एव; तत्र भौवादिकस्य ग्रहणं यथा स्यात्, इतरयोर्मा भूदित्येवमर्थो विकरणनिर्देशः। ननु चानयोर्निवृत्तेरेतत्? फलम् - चोकूयत इत्येतदपि रूपं यथा स्यादिति, एतच्च `कोः` इत्यपि निर्देशे निरनुबन्धकपरिभाषया कौतेरेव निरनुवन्धकस्य ग्रहणे सति सिध्यत्येव, तस्मात्? `कोः` इत्येवं निर्देशः कर्तव्यः? नैतदेवम्; सत्यपि हि शब्दार्थत्वे भिद्यत एवैषामभिधेयम्। तथा हि - कवतिस्तावदव्यक्तशब्दे वर्तते - उष्ट्रः कोकूयत इति; कुवतिरप्यार्तस्वरे वर्तते - चोकूयते बृषल इति, पोडित इत्यर्थः; कौतिस्तु शबदमात्रे। तस्माद्विशिष्यटार्थस्य परिग्रहो यथा स्यादित्येवमर्थो विकरणनिर्देशः कर्तव्यः। ननु लुग्विकरणपरिभाषया कौतेर्न भविष्यतीति, तत्किमर्थं तन्निवृत्तयर्थता विकरणस्योपपद्यते? एवं मन्यते - कुवतिनिवृत्त्यर्थोऽवश्यं विकरणनिर्देशः कर्तव्यः, सोऽन्यार्थः क्रियमाणः कौतेर्निवृत्त्यर्थोऽपि भवति, तेन लुग्विकरणपरिभाषा (व्या।प।50) अत्र कौतेर्निवृत्त्यर्थमाश्रयितव्या न भवति। `चुकुवे` इति। पूर्ववत्? तशब्दस्यैच्? `अचि श्नुधातु` (6.4.77) इत्यादिनोवङ्॥ Prakriyasarvasvam ----------------- भ्वादिकस्य कवतेर्यङ्यभ्यासस्य चुर्न हि । कोकूयतेऽथ कुवतिकौत्योश्चोकूयते भवेत् ॥ ७८९ ॥ 'द्युतिस्वाप्योः—' (७-४-६७) इत्यभ्यासस्य प्रसारणे गुणः । देद्युत्यते । स्वापेर्द्व्यच्त्वान्न यङ् । Sutra Prayogas -------------- * **अकोकूयिष्ट** (भट्टिकाव्यम्): `न कवतेर्यङि` इति कुत्वप्रतिषेधः।