74009: दयतेर्दिगि लिटि¶
Padacheda: दयतेः | S | 6 | 1 |
दिगि | S | | | 1
लिटि | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
दिगि is substituted for दे (दयते) in the लिट् (Perfect Tense).
Vasu English Translation¶
दिगि is substituted for दे (दयते) in the लिट् (Perfect Tense). As अव दिग्ये, अव दिग्याते, अव दिग्यिर ॥ The root देङ् ‘to protect’ (Bhuadi 1011) is to be taken, and not दय ‘to give’ (Bhuadi 510), for that root forms its Perfect by आम् (Periphrastic Perfect) as taught in (3.1.37). The substitute दिगि debars reduplication.
Bhashya¶
दयतेर्दिगि लिटि इह(4) अवदिग्ये अवदिग्याते अवदिग्यिरे । दिग्यादेशे कृते द्विर्वचनं प्राप्नोति । ( ॥ तत्र(1) साभ्यासस्य) ॥ तत्र साभ्यासस्येति वक्तव्यम् । ननु च द्विर्वचने कृते साभ्यासस्य दिग्यादेशो भविष्यति ॥ न सिध्यति ॥ किं कारणम् ? ॥ दिग्यादेशस्य परत्वात्साभ्यासस्यादेशवचनम् ॥ दिग्यादेशः क्रियतां द्विर्वचनमिति । परत्वादिग्यादेशेन भवितव्यं, तत्र साभ्यासस्येति वक्तव्यम् ॥ एवं तर्हि दिग्यादेशो द्विर्वचनं बाधिष्यते ॥ पुनः प्रसङ्गविज्ञानाद्विर्वचनं प्राप्नोति ॥ पुनः प्रसङ्गविज्ञानादिति( 2) चेदमादिभिस्तुल्यम् ॥ पुनः प्रसङ्गविज्ञानादिति(2) चेदमादिभिस्तुल्यमेतद्भवति । तद्यथा अमादिषु कृतेषु पुनः प्रसङ्गाच्छिशीलुङनुमो न भवन्त्येवं दिग्यादेशे कृते पुनः प्रसङ्गाद्विर्वचनं न भविष्यति ॥ अथ वा विप्रतिषेधे(3) पुनः प्रसङ्ग इत्युच्यते । विप्रतिषेधश्च द्वयोः सावकाशयोः । इह पुनरनवकाशो दिग्यादेशो द्विर्वचनं बाधिष्यते ॥ यदि तर्ह्यनवकाशा विधयो बाधका भवन्ति - बभूव, - भूभावो(1) द्विर्वचनं बाधेत ॥ सावकाशो भूभावः(1) ॥ कोऽवकाशः ? ॥ भविता भवितुम् ॥ इह तर्हि चक्षिङः ख्याञ्ञ् वा लिटीति ख्याञ्ञ्द्विर्वचनं बाधेत ॥ इह चापि बभूवेति, यदि तावत्स्थाने द्विर्वचनं, भूभावः सर्वादेशः प्राप्नोति, अथ द्विःप्रयोगो द्विर्वचनं, परस्य भूभावे कृते पूर्वस्य श्रवणं प्राप्नोति ॥ नैष दोषः, आर्धधातुकीयाः सामान्येन भवन्त्यनवस्थितेषु प्रत्ययेषु(2) । तत्रार्धधातुकसामान्ये भूभावे कृते यो यतः प्रत्ययः प्राप्नोति स ततो भविष्यति ॥
Kashika¶
दयतेरङ्गस्य लिटि परतो दिगि इत्ययमादेशो भवति। अव्दिग्ये, अवदिग्याते, अवदिग्यिरे। दयतेः इति दीङो ग्रहणं न तु दय दाने इत्यस्य। तस्य हि लिति आम् विहितः। दिग्यादेशेन द्विर्वचनस्य बाधनम् इष्यते।
Siddhanta Kaumudi¶
दिग्यादेशेन द्वित्वबाधनमिष्यत इति वृत्तिः । दिग्ये ॥
Balamanorama¶
दयतेर्दिगि लिटि - दयतेर्दिगि ।दिगी॑ति लुप्तप्रथमाकम् ।देङ्धातोर्दिगीत्यादेशः स्याल्लिटीत्यर्थः । ननु लिट एशादौ दिग्यादेशे कृते द्वित्वे सति दिदग्ये इत्यादि स्यादित्यत आह — दिग्यादेशेनेति । एतच्च स्पष्टम् । वृत्तिरिति । भाष्यस्याप्युपलक्षणम् । क्रादिनियमादिट् । दिग्यिषे दिग्याथे दिग्यिध्वे । दिग्ये दिग्यिवहे दिग्यिमहे । दाता । दास्यते । दयताम् । अदयत । दयेत । दासीष्ट ।
Tattvabodhini¶
दयतेर्दिगि लिटि - दिग्यादेशेनेति । दयतेर्लिटि परे द्वित्वं प्राप्तं, दिग्यादेशश्च, तत्र विशेषविहितेन दिग्यादेशेन द्वित्वशास्त्रस्य बाधः, न चैवंप्यायः पी॑,चक्षिङः ख्या॑ञिति पीख्याञोरपि विशेषविहितत्वात्ताभ्यां द्वित्वबाधः स्यादिति वाच्यं, विषयसप्तमीमाश्रित्य लिडुत्पत्तेः प्रागेव तयोः प्रवृत्तत्वात् । दिग्यादेशविधौ तु लिटीति परसप्तम्येव, न तु विषयसप्तमी, लक्ष्यानुरोधात् । तदेत्सूचयति — इष्यत इति ।दयतेर्लिटि द्वित्वे प्राप्ते तद्बाधित्वा परत्वाद्दिग्यादेश॑इति तु नोक्तम् । परस्परलब्धावकाशयोरेव परस्य बलीयस्त्वात् । दिग्यादेसं विना द्वित्वस्य सावकाशत्वेऽपि द्वित्वं विना दिग्यादेशस्य तदभावादिति दिक् ।
Padamanjari¶
अवदिग्य इति ।’देङ् रक्षणे’ , ङित्वादात्मिनेपदम्, ठेरनेकाचःऽ इति यण् । न तु दयेत्यस्येति ।’दय दानगतिरक्षणेषु’ इत्यस्य । तस्य लिट।लम्विहित इति ।’दयायाससश्च’ इत्यनेन । दिग्यादेशेन द्विर्वचनस्य बाधनमिष्यत इति । नाप्राप्ते तस्मिन्नस्यारम्भात् । ननु दयतेः प्राप्तं द्विर्वचनं बाध्यताम्, दिग्यादेशस्य तु स्थानिवद्भावेन द्विर्वचनं प्राप्नोति, तत्कथं बाध्यते, न हि तस्मिन्नाप्राप्ते तस्यारम्भः ? उच्यते; बाध्यबाधकभावे हि द्वेतम् - लक्ष्यं वा लक्षणेन बाध्यते, लक्षणं वा तेनेति । तत्राद्ये पक्षे स्यादेतच्चोद्यम्, द्विर्वचनशास्त्रस्याबाधितत्वात्; द्वितीये तु द्विर्वचनशास्त्रमेवास्मिन् विषये दिग्यादेशशास्त्रेण बाधितमिति कृतेऽपि दिग्यादेशे नास्ति द्विर्वचनस्य प्रसङ्गः । यद्येवम्, ठस्तर्भूःऽ - बभूव, अत्र द्विर्वचनं न स्यात्, अनवकाशा हि विधयो बाधका भवन्ति, सावकाशश्चायम्, कोऽवकाशः ? भविता, भवितुम्; यस्तर्हि लिट।लेव विधीयते -‘चक्षिङ्ः ख्याञ्’ ,’वा लिटि’ इति, तत्र द्विर्वचनं न प्राप्नोति - आचख्यौ ? नैष दोषः; आर्धधातुके लिटीति विषयसप्तमी, ततश्च द्विर्वचननिमितस्य लिट उत्पतेः प्रागेव ख्याञादेशः, पश्चाल्लिटि परतो द्विर्वचनम् । इह तु परसप्तम्याश्रयणान्नाप्राप्ते द्विर्वचने दिगिरारभ्यमाणस्तद् बाधते । एवमन्यत्रापि, यत्र बाधो नेष्यते तत्र लक्ष्य बाधो वक्तव्यः, विषयसप्तमी वाश्रयणीया ॥
Nyaas¶
अवदिग्ये इत्यादि। देङ्? रक्षणे (धातुपाठः-962), लिट्, ङित्त्वादात्मनेपदम्, प्रथपुरुषः, लिटस्तझयोरेशिरेच् (3.4.81) इत्येशिरेचौ, एरनेकाचः` (6.4.82) इत्यादिना यणादेशः। दयतेरिति देङो ग्रहणम्, न तु दय दान इत्यस्य इति। ननु च दय दानगतिरक्षणहिंसादानेषु (धातुपाठः-481) इत्येतस्य ग्रहणं कस्मान्न भवति? इत्यत आह - तस्य हि इत्यादि। लिटीत्युच्यते, न च दय दाने (धातुपाठः-481) - इत्येतस्यानन्तरो लिडस्ति; यस्मात्? तस्य दयायासश्च (3.1.37) इत्यनेनाम्? विहितः। ननु च अमन्त्रे इति तत्रानुवर्तते, ततो मन्त्र आमोऽभावात्? स्यादेवानन्तर्यम्? एवं मन्यते - यथादृष्टानुविधिश्छन्दसीति। न च दय दाने (धातुपाठः-481) इत्येतस्य मन्त्रे दिग्यादेशो दृश्यत इत्यभिप्रायः। इहावदिग्ये - इत्यनवकाशात्वाद्? दिग्यादेसे कृते पश्चाद्? द्विर्वचनेन भवितव्यम्, यथा चख्यावित्यत्र चक्षिङः ख्याञ् (2.4.54) इति ख्याञादेशस्यानवकाशत्वात्? तत्र कृते पश्चाद्द्विर्वचनम्, तथावदिग्ये इत्यत्रापि दिग्यादेशे कृते पश्चाद्? द्विर्वचन केन बाध्येत? इति यश्चोदयेत् - तं प्रत्याह - दिग्यादेशेन द्विर्वचनस्य बाधनमिष्यते इति। कथं पुनरिष्यमाणमपि लभ्यते? नित्यग्रहणानुवृत्तेः। इह पूर्वसूत्रान्नित्यग्रहणमनुवर्तते, न चात्र विभाषा प्राप्नोति, यन्निवृत्त्यर्थ नित्यग्रहणं विज्ञायते। तस्मादन्यल्लिटि यत्? कार्यं प्राप्नोति, तन्निवृत्त्यर्थं नित्यग्रहणं विज्ञायते; तेनैवमभिसम्बन्धः करिष्यते - लिटि प्राप्नुवतां कार्याणां दिग्यादेश एव नित्यं भवति, नान्यत्कार्यम्। इत्येवं द्विर्वचननिवर्तनं भवति। यणादेशस्तु लिटित्युच्यायं न विधीयत इति एरनेकाचोऽसंयोगपूर्वस्य (6.4.82) इत्यचि भवति॥
Prakriyasarvasvam¶
देङो लिटि दिगि स्यात् । दिग्यादेशो द्वित्वबाधक इष्टः । एरिति यण् । दिग्ये । दिग्याते । दिग्यिषे । दिग्यिढ्वे, दिग्यिध्वे । दासीष्ट । दासीध्वम् । दाता । दास्यते । कर्मणि चिण्वदिडूह्यः । गाङ् गतौ । भ्वादौ स्वत आंङन्तोऽयमेव । अन्तरङ्गत्वादादौ धातुशपोः सवर्णदीर्घे क्वचिदप्यदन्तकार्यं* न । गा त । टेरेत्वम् । गाते । आतामष्टेरेत्वम् । सवर्णदीर्घः । गाते । ‘आत्मनेपदेषु—’ इत्यत् । दीर्घः । गाते । गासे । गाथे । गाध्वे । इट् । गा इ । ‘आतो लोप इटि च’ इत्याल्लोपोऽस्मिन्निटि नेति माधवाद्याः । स्यादिति केचिदिति कौमुदी । टेरेत्वम् । आल्लोपाभावे वृद्धिः । गै, गे । गावहे । गामहे । लिङि सीयुटः सलोपे आद्गुणे च भवेतेत्यादिवदेव । गेत । गेयाताम् । गेरन् । गेथाः । गेयाथाम् । गेध्वम् । गेय । गेवहि । गेमहि । लोटि लड्वत् । ‘आमेतः’ । गाताम् । गाताम् । गाताम् । गांस्व । गाथाम् । गाध्वम् । आटि वृद्धिः । गै । गावहै । लङ् अगात । अगाताम् । अद्भावः । अगात । अगाथाः । अगाथाम् । अगाध्वम् । गा इ । आद्गुणः । अगे । अगावहि । गामादाग्रहणेष्वविशेष’ इत्युक्तेरस्यापि यकि ‘घुमास्था—’ इतीत्वम् । गीयते । लुङि अगास्त । अगासाताम् । अगासत अगास्थाः । अगाध्वम् । अगासि । अगास्वहि । लिटि आल्लोपः । जगे । जगाते । जगिषे । जगिध्वे । जगे । जगिवहे । गासीष्ट । गासीध्वम् । गाता । गास्यते । कर्मणि चिण्वदिडूह्यः । एवं लुक्यादन्तानां तङि व्यतिभात इत्यादि सर्वमूह्यम् ॥
Vartika¶
दिग्यादेशेन द्वित्व बाधनमिष्यते ।