74009: दयतेर्दिगि लिटि ====================== **Padacheda:** दयतेः | S | 6 | 1 | दिगि | S | | | 1 लिटि | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- दिगि is substituted for दे (दयते) in the लिट् (Perfect Tense). Vasu English Translation ------------------------ दिगि is substituted for दे (दयते) in the लिट् (Perfect Tense). As अव दिग्ये, अव दिग्याते, अव दिग्यिर ॥ The root देङ् 'to protect' (*Bhuadi* 1011) is to be taken, and not दय 'to give' (*Bhuadi* 510), for that root forms its Perfect by आम् (Periphrastic Perfect) as taught in (3.1.37). The substitute दिगि debars reduplication. Bhashya ------- दयतेर्दिगि लिटि इह(4) अवदिग्ये अवदिग्याते अवदिग्यिरे । दिग्यादेशे कृते द्विर्वचनं प्राप्नोति । ( ॥ तत्र(1) साभ्यासस्य) ॥ तत्र साभ्यासस्येति वक्तव्यम् । ननु च द्विर्वचने कृते साभ्यासस्य दिग्यादेशो भविष्यति ॥ न सिध्यति ॥ किं कारणम् ? ॥ दिग्यादेशस्य परत्वात्साभ्यासस्यादेशवचनम् ॥ दिग्यादेशः क्रियतां द्विर्वचनमिति । परत्वादिग्यादेशेन भवितव्यं, तत्र साभ्यासस्येति वक्तव्यम् ॥ एवं तर्हि दिग्यादेशो द्विर्वचनं बाधिष्यते ॥ पुनः प्रसङ्गविज्ञानाद्विर्वचनं प्राप्नोति ॥ पुनः प्रसङ्गविज्ञानादिति( 2) चेदमादिभिस्तुल्यम् ॥ पुनः प्रसङ्गविज्ञानादिति(2) चेदमादिभिस्तुल्यमेतद्भवति । तद्यथा अमादिषु कृतेषु पुनः प्रसङ्गाच्छिशीलुङनुमो न भवन्त्येवं दिग्यादेशे कृते पुनः प्रसङ्गाद्विर्वचनं न भविष्यति ॥ अथ वा विप्रतिषेधे(3) पुनः प्रसङ्ग इत्युच्यते । विप्रतिषेधश्च द्वयोः सावकाशयोः । इह पुनरनवकाशो दिग्यादेशो द्विर्वचनं बाधिष्यते ॥ यदि तर्ह्यनवकाशा विधयो बाधका भवन्ति - बभूव, - भूभावो(1) द्विर्वचनं बाधेत ॥ सावकाशो भूभावः(1) ॥ कोऽवकाशः ? ॥ भविता भवितुम् ॥ इह तर्हि चक्षिङः ख्याञ्ञ् वा लिटीति ख्याञ्ञ्द्विर्वचनं बाधेत ॥ इह चापि बभूवेति, यदि तावत्स्थाने द्विर्वचनं, भूभावः सर्वादेशः प्राप्नोति, अथ द्विःप्रयोगो द्विर्वचनं, परस्य भूभावे कृते पूर्वस्य श्रवणं प्राप्नोति ॥ नैष दोषः, आर्धधातुकीयाः सामान्येन भवन्त्यनवस्थितेषु प्रत्ययेषु(2) । तत्रार्धधातुकसामान्ये भूभावे कृते यो यतः प्रत्ययः प्राप्नोति स ततो भविष्यति ॥ Kashika ------- दयतेरङ्गस्य लिटि परतो दिगि इत्ययमादेशो भवति। अव्दिग्ये, अवदिग्याते, अवदिग्यिरे। दयतेः इति दीङो ग्रहणं न तु दय दाने इत्यस्य। तस्य हि लिति आम् विहितः। दिग्यादेशेन द्विर्वचनस्य बाधनम् इष्यते। Siddhanta Kaumudi ----------------- दिग्यादेशेन द्वित्वबाधनमिष्यत इति वृत्तिः । दिग्ये ॥ Balamanorama ------------ **दयतेर्दिगि लिटि** - दयतेर्दिगि ।दिगी॑ति लुप्तप्रथमाकम् ।देङ्धातोर्दिगीत्यादेशः स्याल्लिटीत्यर्थः । ननु लिट एशादौ दिग्यादेशे कृते द्वित्वे सति दिदग्ये इत्यादि स्यादित्यत आह — दिग्यादेशेनेति । एतच्च स्पष्टम् । वृत्तिरिति । भाष्यस्याप्युपलक्षणम् । क्रादिनियमादिट् । दिग्यिषे दिग्याथे दिग्यिध्वे । दिग्ये दिग्यिवहे दिग्यिमहे । दाता । दास्यते । दयताम् । अदयत । दयेत । दासीष्ट । Tattvabodhini ------------- **दयतेर्दिगि लिटि** - दिग्यादेशेनेति । दयतेर्लिटि परे द्वित्वं प्राप्तं, दिग्यादेशश्च, तत्र विशेषविहितेन दिग्यादेशेन द्वित्वशास्त्रस्य बाधः, न चैवंप्यायः पी॑,चक्षिङः ख्या॑ञिति पीख्याञोरपि विशेषविहितत्वात्ताभ्यां द्वित्वबाधः स्यादिति वाच्यं, विषयसप्तमीमाश्रित्य लिडुत्पत्तेः प्रागेव तयोः प्रवृत्तत्वात् । दिग्यादेशविधौ तु लिटीति परसप्तम्येव, न तु विषयसप्तमी, लक्ष्यानुरोधात् । तदेत्सूचयति — इष्यत इति ।दयतेर्लिटि द्वित्वे प्राप्ते तद्बाधित्वा परत्वाद्दिग्यादेश॑इति तु नोक्तम् । परस्परलब्धावकाशयोरेव परस्य बलीयस्त्वात् । दिग्यादेसं विना द्वित्वस्य सावकाशत्वेऽपि द्वित्वं विना दिग्यादेशस्य तदभावादिति दिक् । Padamanjari ----------- अवदिग्य इति ।'देङ् रक्षणे' , ङित्वादात्मिनेपदम्, ठेरनेकाचःऽ इति यण् । न तु दयेत्यस्येति ।'दय दानगतिरक्षणेषु' इत्यस्य । तस्य लिट।लम्विहित इति ।'दयायाससश्च' इत्यनेन । दिग्यादेशेन द्विर्वचनस्य बाधनमिष्यत इति । नाप्राप्ते तस्मिन्नस्यारम्भात् । ननु दयतेः प्राप्तं द्विर्वचनं बाध्यताम्, दिग्यादेशस्य तु स्थानिवद्भावेन द्विर्वचनं प्राप्नोति, तत्कथं बाध्यते, न हि तस्मिन्नाप्राप्ते तस्यारम्भः ? उच्यते; बाध्यबाधकभावे हि द्वेतम् - लक्ष्यं वा लक्षणेन बाध्यते, लक्षणं वा तेनेति । तत्राद्ये पक्षे स्यादेतच्चोद्यम्, द्विर्वचनशास्त्रस्याबाधितत्वात्; द्वितीये तु द्विर्वचनशास्त्रमेवास्मिन् विषये दिग्यादेशशास्त्रेण बाधितमिति कृतेऽपि दिग्यादेशे नास्ति द्विर्वचनस्य प्रसङ्गः । यद्येवम्, ठस्तर्भूःऽ - बभूव, अत्र द्विर्वचनं न स्यात्, अनवकाशा हि विधयो बाधका भवन्ति, सावकाशश्चायम्, कोऽवकाशः ? भविता, भवितुम्; यस्तर्हि लिट।लेव विधीयते -'चक्षिङ्ः ख्याञ्' ,'वा लिटि' इति, तत्र द्विर्वचनं न प्राप्नोति - आचख्यौ ? नैष दोषः; आर्धधातुके लिटीति विषयसप्तमी, ततश्च द्विर्वचननिमितस्य लिट उत्पतेः प्रागेव ख्याञादेशः, पश्चाल्लिटि परतो द्विर्वचनम् । इह तु परसप्तम्याश्रयणान्नाप्राप्ते द्विर्वचने दिगिरारभ्यमाणस्तद् बाधते । एवमन्यत्रापि, यत्र बाधो नेष्यते तत्र लक्ष्य बाधो वक्तव्यः, विषयसप्तमी वाश्रयणीया ॥ Nyaas ----- `अवदिग्ये` इत्यादि। `देङ्? रक्षणे` (धातुपाठः-962), लिट्, ङित्त्वादात्मनेपदम्, प्रथपुरुषः, **लिटस्तझयोरेशिरेच्** (3.4.81) इत्येशिरेचौ, एरनेकाचः` (6.4.82) इत्यादिना यणादेशः। `दयतेरिति देङो ग्रहणम्, न तु दय दान इत्यस्य` इति। ननु च `दय दानगतिरक्षणहिंसादानेषु` (धातुपाठः-481) इत्येतस्य ग्रहणं कस्मान्न भवति? इत्यत आह - `तस्य हि` इत्यादि। लिटीत्युच्यते, न च `दय दाने` (धातुपाठः-481) - इत्येतस्यानन्तरो लिडस्ति; यस्मात्? तस्य **दयायासश्च** (3.1.37) इत्यनेनाम्? विहितः। ननु च `अमन्त्रे` इति तत्रानुवर्तते, ततो मन्त्र आमोऽभावात्? स्यादेवानन्तर्यम्? एवं मन्यते - यथादृष्टानुविधिश्छन्दसीति। न च `दय दाने` (धातुपाठः-481) इत्येतस्य मन्त्रे दिग्यादेशो दृश्यत इत्यभिप्रायः। इहावदिग्ये - इत्यनवकाशात्वाद्? दिग्यादेसे कृते पश्चाद्? द्विर्वचनेन भवितव्यम्, यथा चख्यावित्यत्र `चक्षिङः ख्याञ्` (2.4.54) इति ख्याञादेशस्यानवकाशत्वात्? तत्र कृते पश्चाद्द्विर्वचनम्, तथावदिग्ये इत्यत्रापि दिग्यादेशे कृते पश्चाद्? द्विर्वचन केन बाध्येत? इति यश्चोदयेत् - तं प्रत्याह - `दिग्यादेशेन द्विर्वचनस्य बाधनमिष्यते` इति। कथं पुनरिष्यमाणमपि लभ्यते? नित्यग्रहणानुवृत्तेः। इह पूर्वसूत्रान्नित्यग्रहणमनुवर्तते, न चात्र विभाषा प्राप्नोति, यन्निवृत्त्यर्थ नित्यग्रहणं विज्ञायते। तस्मादन्यल्लिटि यत्? कार्यं प्राप्नोति, तन्निवृत्त्यर्थं नित्यग्रहणं विज्ञायते; तेनैवमभिसम्बन्धः करिष्यते - `लिटि प्राप्नुवतां कार्याणां दिग्यादेश एव नित्यं भवति, नान्यत्कार्यम्`। इत्येवं द्विर्वचननिवर्तनं भवति। यणादेशस्तु लिटित्युच्यायं न विधीयत इति **एरनेकाचोऽसंयोगपूर्वस्य** (6.4.82) इत्यचि भवति॥ Prakriyasarvasvam ----------------- देङो लिटि दिगि स्यात् । दिग्यादेशो द्वित्वबाधक इष्टः । एरिति यण् । दिग्ये । दिग्याते । दिग्यिषे । दिग्यिढ्वे, दिग्यिध्वे । दासीष्ट । दासीध्वम् । दाता । दास्यते । कर्मणि चिण्वदिडूह्यः । गाङ् गतौ । भ्वादौ स्वत आंङन्तोऽयमेव । अन्तरङ्गत्वादादौ धातुशपोः सवर्णदीर्घे क्वचिदप्यदन्तकार्यं* न । गा त । टेरेत्वम् । गाते । आतामष्टेरेत्वम् । सवर्णदीर्घः । गाते । 'आत्मनेपदेषु—' इत्यत् । दीर्घः । गाते । गासे । गाथे । गाध्वे । इट् । गा इ । 'आतो लोप इटि च' इत्याल्लोपोऽस्मिन्निटि नेति माधवाद्याः । स्यादिति केचिदिति कौमुदी । टेरेत्वम् । आल्लोपाभावे वृद्धिः । गै, गे । गावहे । गामहे । लिङि सीयुटः सलोपे आद्गुणे च भवेतेत्यादिवदेव । गेत । गेयाताम् । गेरन् । गेथाः । गेयाथाम् । गेध्वम् । गेय । गेवहि । गेमहि । लोटि लड्वत् । 'आमेतः' । गाताम् । गाताम् । गाताम् । गांस्व । गाथाम् । गाध्वम् । आटि वृद्धिः । गै । गावहै । लङ् अगात । अगाताम् । अद्भावः । अगात । अगाथाः । अगाथाम् । अगाध्वम् । गा इ । आद्गुणः । अगे । अगावहि । गामादाग्रहणेष्वविशेष' इत्युक्तेरस्यापि यकि 'घुमास्था—' इतीत्वम् । गीयते । लुङि अगास्त । अगासाताम् । अगासत अगास्थाः । अगाध्वम् । अगासि । अगास्वहि । लिटि आल्लोपः । जगे । जगाते । जगिषे । जगिध्वे । जगे । जगिवहे । गासीष्ट । गासीध्वम् । गाता । गास्यते । कर्मणि चिण्वदिडूह्यः । एवं लुक्यादन्तानां तङि व्यतिभात इत्यादि सर्वमूह्यम् ॥ Vartika ------- दिग्यादेशेन द्वित्व बाधनमिष्यते ।