73116: ङेराम्नद्याम्नीभ्यः

Padacheda: ङेः | S | 6 | 1 |

आम् | S | 1 | 1 |

नदी-आप्-नीभ्यः | S | 5 | 3 |

Sutrartha

नदीसंज्ञकात् परस्य, आबन्तात् परस्य, नीशब्दात् परस्य सप्तमीएकवचनस्य ‘ङि’-प्रत्ययस्य आम्-आदेशः भवति ।

उदाहरणानि - 1) नदीसंज्ञकात् परस्य - नदी + ङि [सप्तम्येकवचनस्य प्रत्ययः] → नदी + आम् [ङेराम्नद्याम्नीभ्यः (7.3.116) इति आम्-आदेशः ।] → नदी + आट् + आम् [आण्-नद्याः (7.3.112) इति आडागमः ।] → नदी + आम् [आटश्च (6.1.90) इति वृद्धि-एकादेशः ।] → नद्याम् [इको यणचि (6.1.77) इति यणादेशः ।] 2) आबन्तात् परस्य - माला + ङि [सप्तम्येकवचनस्य प्रत्ययः] → माला + आम् [ङेराम्नद्याम्नीभ्यः (7.3.116) इति आम्-आदेशः ।] → माला + याट् + आम् [याडापः (7.3.113) इति याडागमः ।] → मालायाम् [अकः सवर्णे दीर्घः (6.1.101) इति सवर्णदीर्घः ।] 3) नीशब्दात् परस्य - राजनी + आम् [सप्तम्येकवचनस्य प्रत्ययः] → राजनी + आम् [ङेराम्नद्याम्नीभ्यः (7.3.116) इति आम्-आदेशः ।] → राजन्याम् [इको यणचि (6.1.77) इति यणादेशः।] ज्ञातव्यम् - 1) नदीसंज्ञा - यू स्त्र्याख्यौ नदी (1.4.3) इत्यनेन दीर्घ-ईकारान्त-ऊकारान्तशब्दानां नदीसंज्ञा भवति - यथा नदी, घटी, वधू, चञ्चू आदयः । 2) ‘आबन्तशब्दाः’ इत्यते ते शब्दाः येषामन्ते चाप् / टाप/ डाप् एतेषु कश्चन स्त्रीलिङ्गवाची प्रत्ययः अस्ति । अनेन सर्वे आकारान्तस्त्रीलिङ्गशब्दाः गृह्यन्ते । 3) अनया परिभाषया ‘नीभ्यः’ इत्युक्ते नी-शब्दात् परस्य तथा नीशब्दान्तात् परस्य - उभौ अपि स्वीक्रियेते । अतः सेनानी, राजनी, ग्रामणी - एतादृशानां ईकारान्तपुंलिङ्गशब्दानाम् सप्तमी-एकवचनस्य रूपसिद्धौ अपि अस्य सूत्रस्य प्रयोगः भवति । 4) यद्यपि ‘आम्’ इति ‘मित्’ अस्ति, तथाप्यत्र अयमादेशः एव अस्ति, आगमः न । 5) यद्यपि ह्रस्व-इकारान्तस्त्रीलिङ्गशब्दाः ह्रस्व-उकारान्तस्त्रीलिङ्गशब्दाश्च ङिति ह्रस्वश्च (1.4.6) इत्यनेन ङित्-प्रत्यये परे विकल्पेन नदीसंज्ञां प्राप्नुवन्ति, तथापि तेषां विषये अयमादेशः वर्तमानसूत्रेण न भवति, अपितु अच्च घेः (7.3.118) इति सूत्रेण भवति ।

Sutrartha (English)

The ङि-प्रत्यय gets आमादेश when it comes after - (a) a नदीसंज्ञक word, (b) an आबन्त word, and (c) a word that ends in ‘नी’.

Vasu English Summary

For the ending इ of the Locative -7th case singular there is substituted आम् after a अङ्ग (stem) called नदी – यू स्त्र्याख्यौ नदी (1.4.3) etc., after the feminines in आ and after नी।

Vasu English Translation

For the ending इ of the Locative -7th case singular there is substituted आम् after a अङ्ग (stem) called नदी – यू स्त्र्याख्यौ नदी (1.4.3) etc., after the feminines in आ and after नी। As कुमार्याम्, किशोर्याम्, गौर्याम्, ब्रह्मबन्ध्वाम्, धीरबन्ध्वाम्, खट्वायाम्, बहुराजायाम्, कारीषगन्ध्यायाम्, नी-ग्रामण्याम्, सेनान्याम् ॥

The word ग्रामणी is formed by क्विप् affix added under (3.2.61), the न is changed to ण by अग्र ग्रामाभ्याम्; and the यण् substitute in the Locative is by (6.4.82).

Bhashya

ङेराम्नद्याम्नीभ्यः इदुभ्द्यामाम्विधानमौत्वस्य परत्वात् इदुभ्द्यामाम्विधेयः, - शकट्यां पद्धत्यां धेन्वामिति ॥ किं पुनः कारणं न सिध्यति ? ॥ औत्वस्य परत्वात् । परत्वादौत्वं प्राप्नोति योगविभागात्सिद्धम् (योगविभागात्सिद्धमेतत्) । योगविभागः करिष्यते ङेराम्नद्याम्नीभ्यः । तत इदुद्भ्याम् । इदुद्भ्यामुत्तरस्य ङेराम्भवतीति । शकट्यां पद्धत्यां धेन्वामिति । तत औदच्च घेः ।

Kashika

नद्यन्तादाबन्ताद् नीत्येतस्मात् चोत्तरस्य ङेरामित्ययमादेशो भवति। कुमार्याम्। गौर्याम्। ब्रह्मबन्ध्वाम्। धीबन्ध्वाम्। आपः — खट्वायाम्। बहुराजायाम्। कारीषगन्ध्यायाम्। नी — राजन्याम्। सेनान्याम्। ग्रामण्याम्॥

Siddhanta Kaumudi

नद्यन्तादाबन्तान्नीशब्दाच्च ङेराम् स्यात् । इह परत्वादाटा नुड्बाध्यते । बहुश्रेयस्याम् । शेषमीप्रत्ययान्तवातप्रमीवत् । अङ्यन्तत्वान्न सुलोपः । अतिलक्ष्मीः । शेषं बहुश्रेयसीवत् । कुमारीमिच्छन् कुमारीवाचरन्वा ब्राह्मणः कुमारी । क्यजन्तादाचारक्विबन्ताद्वा कर्तरि क्विप् । हल्ङ्याब् (SK252) इति सुलोपः ॥

Laghu Siddhanta Kaumudi

नद्यन्तादाबन्तान्नीशब्दाच्च परस्य ङेराम् । बहुश्रेयस्याम् । शेषं पपीवत् ॥ अङ्यन्तत्वान्न सुलोपः । अतिलक्ष्मीः । शेषं बहुश्रेयसीवत् ॥ प्रधी: ॥

Balamanorama

ङेराम्नद्याम्नीभ्यः - ङेराम्नद्याम्नीभ्यः । आङ्गत्वात्प्रत्ययग्रहणपरिभाषया च तदन्तविधिमभिप्रेत्य आह — नद्यन्तादित्यादिना ।ङे॑रिति सप्तम्येकवचनं, व्याख्यानात् । नन्वामि कृते ‘ह्रस्वनद्यापः’ इति नुटि ‘यदागमाः’ इति न्यायेन नामोऽप्याङ्ग्रहणेन ग्रहणात् ‘आण्नद्या’ इति आडागमः स्यादित्याशङ्क्य आह — इह परत्वादिति । न च कृतेऽप्याडागमे नुट् किं न स्यादिति वाच्यं, विप्रतिषेधेन यद्बाधितं तद्बाधितमेवे॑ति न्यायादिति भावः । शेषमीप्रत्ययान्तेति । वातप्रमीशब्दस्यापि इवर्णान्तधातुत्वाऽभावेन अमि शसि ङौ च ‘एरनेकाचः’ इति यणः प्रात्प्यभावादिति भावः । लक्षेर्मुट् चे॑ति लक्षधातोरीप्रत्यये तस्य मुटि च लक्ष्मीशब्दः । लक्ष्मीमतिक्रान्त इति विग्रहेअत्यादयः क्रान्ताद्यर्थे॑ इति समासः । अस्त्रीप्रत्ययान्तत्वान्नोपसर्जनह्रस्वः । अङ्यन्तत्वादिति । औणादिकप्रत्ययान्तत्वादिति बावः । शेषं बहुश्रेयसीवदिति ।प्रथमलिङ्गग्रहणं चे॑ति नदीत्वादिति भावः । अथ धातुत्वमापन्ने कुमारीशब्दे पुंलिङ्गे श्रेयसीशब्दाद्वैलक्षण्यं दर्शयितुमाह-कुमारीमिच्छन्नित्यादिना । क्यजन्तादिति । कुमारीमात्मन इच्छतीत्यर्थेसुपः आत्मनः क्य॑जिति क्यच् । कचावितौ । ‘सन#आद्यन्ता’ इति क्यजन्तस्य धातुत्वात्तदवयवसुपोऽमःसुपो धातुप्रातिपदिकयो॑रिति लुक् । ततः क्विप् चे॑ति कर्तरि क्विप् । कपावितौ । इकार उच्चारणार्थः ।अतो लोपः,॒॑लोपो व्योः॑ इति यलोपः । वेरपृक्तस्ये॑ति वलोपः ।कुमारी॑ति रूपम् । आचारक्विबन्तादिति । कुमारीवाचरतीत्यर्थेसर्वप्रातिपदिकेभ्यः क्विब्वा वक्तव्यः॑ इति क्विप् । कपावितौ ।वेरपृक्तस्ये॑ति वलोपः । ‘सनाद्यन्ताः’ इति धातुत्वात्कर्तरि क्विप् । तस्य च पूर्वत्कृत्स्नलोपः ।कुमारीति॑रूपम् । नच क्विबर्थं प्रति कुमारीशब्दस्य उपसर्जनत्वात् ‘गोस्त्रियोः’ इति ह्रस्वः शङ्क्यः,गोस्त्रियो॑रित्यत्र शास्त्रीयोपसर्जनस्यैव ग्रहणात्, कृत्रिमाऽकृत्रिमयोः कृत्रिमस्यैव ग्रहणात् । हल्ङ्याबिति सुलोप इति । नच क्यजन्ते कथं सोर्लोपः, पूर्वस्माद्विधावल्लोपस्यस्थानिवद्भावादिति वाच्यं,क्वौ लुप्तं न स्थानिव॑दिति निषेधादिति भावः ।

Tattvabodhini

ङेराम्नद्याम्नीभ्यः - ङेराम् ।ङे॑रिति सप्तम्येकवचनस्य ग्रहणं,समानाधिकरणे॑स्त्रिया॑मित्यादिनिर्देशात् । आटा नुड्वाध्यत इति । आटि कृते तु पुनर्न पर्वर्तते ।सकृद्गतौ॑इति न्यायाश्रयणादिति भावः । न सुलोप इति ।लक्षेर्मुट् चे॑त्यैणादिक ईप्रत्ययान्तो लक्ष्मीशब्द इत्युपसर्जनह्रस्वोऽपि नेति बोध्यम् । कुमारीति । यद्यपि क्किबर्थं प्रति ङ्यन्तस्योपसर्जनरत्वाद्द्धस्तत्वं प्राप्तं,तथापिगोस्त्रियोः॑इत्यत्र कृत्रिमोपसर्जनत्वं गृह्रते न त्वप्रधानरूपमिति नात्र ह्रस्वः प्रवर्तते । अतएव हरीतक्याः फलानि हरीतक्य इत्यत्रापि ह्रस्वो न भवति ।लुक्तद्धितलुकी॑त्यत्र त्वप्रधानरूपमुपसर्जनमेव गृह्रते, नतु कृत्रिमोपसर्जनमसम्भवादिति वक्ष्यामः ।

Padamanjari

‘णेóः’ इति सप्तम्येकवचनग्रहणम्; इच्छायाम्, स्त्रियामित्यादिनिर्देशात् । ग्रामण्यामिति ।’सत्सूद्विष’ इत्यादिना क्विप्, ठग्रग्रामाभ्याम्ऽ इति णत्वम्, ठेरनेकाचःऽ इति यण् ॥

Nyaas

ङेः इति सप्तम्येकवचनस्य ग्रहणम्। एतच्च स्त्रियाम् इत्येवमादिनिर्देशाद्विज्ञायते। ग्रामण्याम् इति। ग्रामं नयतीति सत्सूद्विष (3.2.61) इत्यादिना क्विप्, अग्रग्रामाभ्याञ्च इति णत्वम्। एरनेकाचोऽसंयोगपूर्वस्य (6.4.82) इति यणादेशः। अथ कुमार्याम्, खट्वायाम्, सर्वस्यामिति कथं सिध्यति, आमि कृते ह्रस्वनद्यापो नुट् (7.1.54) इति नुडागमेन भवितव्यम्? नैष दोषः; नुटः परत्वादाट् - याट् - स्याटो भवन्ति। तेष कृतेषु नुटः प्राप्तिरेव नास्तीति, न हि द्वयोरादिलिङ्गयोः समुच्चय उपपद्यते॥

Prakriyasarvasvam

नद्या आवन्तान्नीशब्दाच्च परस्य ङेराम् स्यात् । ग्रामण्याम् । इह संयोगपूर्वत्वाद्यणभावेन सुश्रियौ । अनेकात्स्वस्य चाभावाद्यणभावे नियाविति ।। ५८० ।। ङौ तु सुश्रियि पूर्वस्य नियस्त्वामि नियामिति । अधात्वंशे तु संयोगे ह्विन्यौविति यण् भवेत् ।। ५८१ ।। गतिकारकपूर्वस्यैवै रनेकाच इत्यदः । तेन सन्महदित्यादौ स्यादुत्तमनियाविति ।। ५८२ ।। ध्यः क्विपि सम्प्रसारणे आतः पूर्वरूपत्वे च सुधीः ॥

Sarala

लक्ष्मीरितिलक्षेर्मुट् च (UN३.१६०) इति ईप्रत्ययान्तोऽयं लक्ष्मीशब्दः । तथा च ढ्यन्तत्वाऽभावाद्धल्ङ्याब्भ्य इति सुलोपो न भवतीत्यर्थः । प्रकृष्टं ध्यायतीति - प्रधीः - श्रेष्ठध्यानवान् ॥

Sudha

ङेरामिति । अङ्गत्वात् प्रत्ययग्रहणपरिभाषया च तदन्तविधिमभिप्रेत्य आह - नद्यन्तादित्यादिना | बहुश्रेयस्याम् । बहुश्रेयसीशब्दात् सप्तम्येकवचने ङौ समागते ङेराम्नद्याम्नीभ्यः**(7.3.116) इति ङेरामि कृते नदीसञ्ज्ञायां सत्यां स्थानिवद्भावेन ङित्वमानीय **आण्नद्याः**(7.3.112) इत्याडागमे टित्वादाद्यावयवे “बहुश्रेयसी-आ आम्” इति जाते **आटश्च**(6.1.90)’ इति वृद्धौ **इको यणचि**(6.1.77) इति यणि “बहुश्रेयस्याम्” इति रूपम् । सप्तमीद्विवचनबहुवचने - “बहुश्रेयस्योः, बहुश्रेयसीषु” इति । **अङ्यन्तत्वादिति । औणादिकप्रत्ययान्तत्वादिति भावः । तथाह्यत्र सङ्ग्रहः - अवी तन्त्री तरी लक्ष्मी धी ही श्रीणामुणादिषु । सप्तस्त्रीलिङ्गशब्दानां न सुलोपः कदाचन । अतिलक्ष्मीः । लक्ष्मीमतिक्रान्त इति विग्रहे <!अत्यादयः क्रान्ताद्यर्थे द्वितीयया!> इति समासः । अस्त्रीप्रत्ययान्तत्वान्नोपसर्जनह्रस्वः । “अतिलक्ष्मी - सु” अत्रानुबन्धलोपे सस्य रुत्वे विसर्गत्वे च रूपम् । शेषं बहुश्रेयसीवदिति । <!प्रथमलिङ्गग्रहणञ्च!> इति नदीत्वादिति भावः । प्रधीः । प्रध्यायतीति प्रधीः । <!ध्यायतेः सम्प्रसारणञ्च!> इति क्विप् । यकारस्य सम्प्रसारणमिकारः। सम्प्रसारणाच्च**(6.1.108) इति पूर्वरूपम् । **हलः**(6.4.2) इति दीर्घः । कृदन्तत्वेन प्रातिपदिकत्वात् सुबुत्पत्तिः । अङ्यन्तत्वान्न सुलोपः। रुत्वविसर्गौ “प्रधीः” इति रूपम् । प्रधी + औ इति स्थिते **इको यणचि**(6.1.77) इति यणपवादमियङमाशङ्कितुमाह - **अचि अनुधात्विति । इश्च उश्च यू तयोः य्वोः इवर्णोवर्णयोरित्यर्थः । श्नुश्च धातुश्च भ्रूश्चेति द्वन्द्वः। प्रत्ययग्रहण परिभाषया श्नुप्रत्ययान्तं विवक्षितम् । य्वोरिति धातोरेव विशेषणम् । तदन्तविधिः । अङ्गस्य**(6.4.1) इत्यधिकृतम् । ततश्च **प्रत्ययः**(3.1.1) इति लभ्यते । अचीति तद्विशेषणम् । तदादिविधिस्तदाह - **श्नुप्रत्ययान्तस्येत्यादिना । इति प्राप्ते इति । “प्रधी-औ” इत्यादाविति शेषः।