73116: ङेराम्नद्याम्नीभ्यः ========================== **Padacheda:** ङेः | S | 6 | 1 | आम् | S | 1 | 1 | नदी-आप्-नीभ्यः | S | 5 | 3 | Sutrartha --------- **नदीसंज्ञकात् परस्य, आबन्तात् परस्य, नीशब्दात् परस्य सप्तमीएकवचनस्य 'ङि'-प्रत्ययस्य आम्-आदेशः भवति ।** उदाहरणानि - 1) नदीसंज्ञकात् परस्य - नदी + ङि [सप्तम्येकवचनस्य प्रत्ययः] → नदी + आम् [**ङेराम्नद्याम्नीभ्यः** (7.3.116) इति आम्-आदेशः ।] → नदी + आट् + आम् [**आण्-नद्याः** (7.3.112) इति आडागमः ।] → नदी + आम् [**आटश्च** (6.1.90) इति वृद्धि-एकादेशः ।] → नद्याम् [**इको यणचि** (6.1.77) इति यणादेशः ।] 2) आबन्तात् परस्य - माला + ङि [सप्तम्येकवचनस्य प्रत्ययः] → माला + आम् [**ङेराम्नद्याम्नीभ्यः** (7.3.116) इति आम्-आदेशः ।] → माला + याट् + आम् [**याडापः** (7.3.113) इति याडागमः ।] → मालायाम् [**अकः सवर्णे दीर्घः** (6.1.101) इति सवर्णदीर्घः ।] 3) नीशब्दात् परस्य - राजनी + आम् [सप्तम्येकवचनस्य प्रत्ययः] → राजनी + आम् [**ङेराम्नद्याम्नीभ्यः** (7.3.116) इति आम्-आदेशः ।] → राजन्याम् [**इको यणचि** (6.1.77) इति यणादेशः।] ज्ञातव्यम् - 1) नदीसंज्ञा - **यू स्त्र्याख्यौ नदी** (1.4.3) इत्यनेन दीर्घ-ईकारान्त-ऊकारान्तशब्दानां नदीसंज्ञा भवति - यथा नदी, घटी, वधू, चञ्चू आदयः । 2) 'आबन्तशब्दाः' इत्यते ते शब्दाः येषामन्ते चाप् / टाप/ डाप् एतेषु कश्चन स्त्रीलिङ्गवाची प्रत्ययः अस्ति । अनेन सर्वे आकारान्तस्त्रीलिङ्गशब्दाः गृह्यन्ते । 3) अनया परिभाषया 'नीभ्यः' इत्युक्ते नी-शब्दात् परस्य तथा नीशब्दान्तात् परस्य - उभौ अपि स्वीक्रियेते । अतः सेनानी, राजनी, ग्रामणी - एतादृशानां ईकारान्तपुंलिङ्गशब्दानाम् सप्तमी-एकवचनस्य रूपसिद्धौ अपि अस्य सूत्रस्य प्रयोगः भवति । 4) यद्यपि 'आम्' इति 'मित्' अस्ति, तथाप्यत्र अयमादेशः एव अस्ति, आगमः न । 5) यद्यपि ह्रस्व-इकारान्तस्त्रीलिङ्गशब्दाः ह्रस्व-उकारान्तस्त्रीलिङ्गशब्दाश्च **ङिति ह्रस्वश्च** (1.4.6) इत्यनेन ङित्-प्रत्यये परे विकल्पेन नदीसंज्ञां प्राप्नुवन्ति, तथापि तेषां विषये अयमादेशः वर्तमानसूत्रेण न भवति, अपितु **अच्च घेः** (7.3.118) इति सूत्रेण भवति । Sutrartha (English) ------------------- The ङि-प्रत्यय gets आमादेश when it comes after - (a) a नदीसंज्ञक word, (b) an आबन्त word, and (c) a word that ends in 'नी'. Vasu English Summary -------------------- For the ending इ of the Locative -7th case singular there is substituted आम् after a अङ्ग (stem) called नदी -- यू स्त्र्याख्यौ नदी (1.4.3) etc., after the feminines in आ and after नी। Vasu English Translation ------------------------ For the ending इ of the Locative -7th case singular there is substituted आम् after a अङ्ग (stem) called नदी -- यू स्त्र्याख्यौ नदी (1.4.3) etc., after the feminines in आ and after नी। As कुमार्याम्, किशोर्याम्, गौर्याम्, ब्रह्मबन्ध्वाम्, धीरबन्ध्वाम्, खट्वायाम्, बहुराजायाम्, कारीषगन्ध्यायाम्, नी-ग्रामण्याम्, सेनान्याम् ॥ The word ग्रामणी is formed by क्विप् affix added under (3.2.61), the न is changed to ण by अग्र ग्रामाभ्याम्; and the यण् substitute in the Locative is by (6.4.82). Bhashya ------- ङेराम्नद्याम्नीभ्यः इदुभ्द्यामाम्विधानमौत्वस्य परत्वात् इदुभ्द्यामाम्विधेयः, - शकट्यां पद्धत्यां धेन्वामिति ॥ किं पुनः कारणं न सिध्यति ? ॥ औत्वस्य परत्वात् । परत्वादौत्वं प्राप्नोति योगविभागात्सिद्धम् (योगविभागात्सिद्धमेतत्) । योगविभागः करिष्यते ङेराम्नद्याम्नीभ्यः । तत इदुद्भ्याम् । इदुद्भ्यामुत्तरस्य ङेराम्भवतीति । शकट्यां पद्धत्यां धेन्वामिति । तत औदच्च घेः । Kashika ------- नद्यन्तादाबन्ताद् नीत्येतस्मात् चोत्तरस्य ङेरामित्ययमादेशो भवति। कुमार्याम्। गौर्याम्। ब्रह्मबन्ध्वाम्। धीबन्ध्वाम्। आपः — खट्वायाम्। बहुराजायाम्। कारीषगन्ध्यायाम्। नी — राजन्याम्। सेनान्याम्। ग्रामण्याम्॥ Siddhanta Kaumudi ----------------- नद्यन्तादाबन्तान्नीशब्दाच्च ङेराम् स्यात् । इह परत्वादाटा नुड्बाध्यते । बहुश्रेयस्याम् । शेषमीप्रत्ययान्तवातप्रमीवत् । अङ्यन्तत्वान्न सुलोपः । अतिलक्ष्मीः । शेषं बहुश्रेयसीवत् । कुमारीमिच्छन् कुमारीवाचरन्वा ब्राह्मणः कुमारी । क्यजन्तादाचारक्विबन्ताद्वा कर्तरि क्विप् । हल्ङ्याब् (SK252) इति सुलोपः ॥ Laghu Siddhanta Kaumudi ----------------------- नद्यन्तादाबन्तान्नीशब्दाच्च परस्य ङेराम् । बहुश्रेयस्याम् । शेषं पपीवत् ॥ अङ्यन्तत्वान्न सुलोपः । अतिलक्ष्मीः । शेषं बहुश्रेयसीवत् ॥ प्रधी: ॥ Balamanorama ------------ **ङेराम्नद्याम्नीभ्यः** - ङेराम्नद्याम्नीभ्यः । आङ्गत्वात्प्रत्ययग्रहणपरिभाषया च तदन्तविधिमभिप्रेत्य आह — नद्यन्तादित्यादिना ।ङे॑रिति सप्तम्येकवचनं, व्याख्यानात् । नन्वामि कृते 'ह्रस्वनद्यापः' इति नुटि 'यदागमाः' इति न्यायेन नामोऽप्याङ्ग्रहणेन ग्रहणात् 'आण्नद्या' इति आडागमः स्यादित्याशङ्क्य आह — इह परत्वादिति । न च कृतेऽप्याडागमे नुट् किं न स्यादिति वाच्यं, विप्रतिषेधेन यद्बाधितं तद्बाधितमेवे॑ति न्यायादिति भावः । शेषमीप्रत्ययान्तेति । वातप्रमीशब्दस्यापि इवर्णान्तधातुत्वाऽभावेन अमि शसि ङौ च 'एरनेकाचः' इति यणः प्रात्प्यभावादिति भावः । लक्षेर्मुट् चे॑ति लक्षधातोरीप्रत्यये तस्य मुटि च लक्ष्मीशब्दः । लक्ष्मीमतिक्रान्त इति विग्रहेअत्यादयः क्रान्ताद्यर्थे॑ इति समासः । अस्त्रीप्रत्ययान्तत्वान्नोपसर्जनह्रस्वः । अङ्यन्तत्वादिति । औणादिकप्रत्ययान्तत्वादिति बावः । शेषं बहुश्रेयसीवदिति ।प्रथमलिङ्गग्रहणं चे॑ति नदीत्वादिति भावः । अथ धातुत्वमापन्ने कुमारीशब्दे पुंलिङ्गे श्रेयसीशब्दाद्वैलक्षण्यं दर्शयितुमाह-कुमारीमिच्छन्नित्यादिना । क्यजन्तादिति । कुमारीमात्मन इच्छतीत्यर्थेसुपः आत्मनः क्य॑जिति क्यच् । कचावितौ । 'सन#आद्यन्ता' इति क्यजन्तस्य धातुत्वात्तदवयवसुपोऽमःसुपो धातुप्रातिपदिकयो॑रिति लुक् । ततः क्विप् चे॑ति कर्तरि क्विप् । कपावितौ । इकार उच्चारणार्थः ।अतो लोपः,॒॑लोपो व्योः॑ इति यलोपः । वेरपृक्तस्ये॑ति वलोपः ।कुमारी॑ति रूपम् । आचारक्विबन्तादिति । कुमारीवाचरतीत्यर्थेसर्वप्रातिपदिकेभ्यः क्विब्वा वक्तव्यः॑ इति क्विप् । कपावितौ ।वेरपृक्तस्ये॑ति वलोपः । 'सनाद्यन्ताः' इति धातुत्वात्कर्तरि क्विप् । तस्य च पूर्वत्कृत्स्नलोपः ।कुमारीति॑रूपम् । नच क्विबर्थं प्रति कुमारीशब्दस्य उपसर्जनत्वात् 'गोस्त्रियोः' इति ह्रस्वः शङ्क्यः,गोस्त्रियो॑रित्यत्र शास्त्रीयोपसर्जनस्यैव ग्रहणात्, कृत्रिमाऽकृत्रिमयोः कृत्रिमस्यैव ग्रहणात् । हल्ङ्याबिति सुलोप इति । नच क्यजन्ते कथं सोर्लोपः, पूर्वस्माद्विधावल्लोपस्यस्थानिवद्भावादिति वाच्यं,क्वौ लुप्तं न स्थानिव॑दिति निषेधादिति भावः । Tattvabodhini ------------- **ङेराम्नद्याम्नीभ्यः** - ङेराम् ।ङे॑रिति सप्तम्येकवचनस्य ग्रहणं,समानाधिकरणे॑स्त्रिया॑मित्यादिनिर्देशात् । आटा नुड्वाध्यत इति । आटि कृते तु पुनर्न पर्वर्तते ।सकृद्गतौ॑इति न्यायाश्रयणादिति भावः । न सुलोप इति ।लक्षेर्मुट् चे॑त्यैणादिक ईप्रत्ययान्तो लक्ष्मीशब्द इत्युपसर्जनह्रस्वोऽपि नेति बोध्यम् । कुमारीति । यद्यपि क्किबर्थं प्रति ङ्यन्तस्योपसर्जनरत्वाद्द्धस्तत्वं प्राप्तं,तथापिगोस्त्रियोः॑इत्यत्र कृत्रिमोपसर्जनत्वं गृह्रते न त्वप्रधानरूपमिति नात्र ह्रस्वः प्रवर्तते । अतएव हरीतक्याः फलानि हरीतक्य इत्यत्रापि ह्रस्वो न भवति ।लुक्तद्धितलुकी॑त्यत्र त्वप्रधानरूपमुपसर्जनमेव गृह्रते, नतु कृत्रिमोपसर्जनमसम्भवादिति वक्ष्यामः । Padamanjari ----------- 'णेóः' इति सप्तम्येकवचनग्रहणम्; इच्छायाम्, स्त्रियामित्यादिनिर्देशात् । ग्रामण्यामिति ।'सत्सूद्विष' इत्यादिना क्विप्, ठग्रग्रामाभ्याम्ऽ इति णत्वम्, ठेरनेकाचःऽ इति यण् ॥ Nyaas ----- `ङेः` इति सप्तम्येकवचनस्य ग्रहणम्। एतच्च `स्त्रियाम्` इत्येवमादिनिर्देशाद्विज्ञायते। `ग्रामण्याम्` इति। ग्रामं नयतीति `सत्सूद्विष` (3.2.61) इत्यादिना क्विप्, `अग्रग्रामाभ्याञ्च` इति णत्वम्। **एरनेकाचोऽसंयोगपूर्वस्य** (6.4.82) इति यणादेशः। अथ कुमार्याम्, खट्वायाम्, सर्वस्यामिति कथं सिध्यति, आमि कृते `ह्रस्वनद्यापो नुट्` (7.1.54) इति नुडागमेन भवितव्यम्? नैष दोषः; नुटः परत्वादाट् - याट् - स्याटो भवन्ति। तेष कृतेषु नुटः प्राप्तिरेव नास्तीति, न हि द्वयोरादिलिङ्गयोः समुच्चय उपपद्यते॥ Prakriyasarvasvam ----------------- नद्या आवन्तान्नीशब्दाच्च परस्य ङेराम् स्यात् । ग्रामण्याम् । इह संयोगपूर्वत्वाद्यणभावेन सुश्रियौ । अनेकात्स्वस्य चाभावाद्यणभावे नियाविति ।। ५८० ।। ङौ तु सुश्रियि पूर्वस्य नियस्त्वामि नियामिति । अधात्वंशे तु संयोगे ह्विन्यौविति यण् भवेत् ।। ५८१ ।। गतिकारकपूर्वस्यैवै रनेकाच इत्यदः । तेन सन्महदित्यादौ स्यादुत्तमनियाविति ।। ५८२ ।। ध्यः क्विपि सम्प्रसारणे आतः पूर्वरूपत्वे च सुधीः ॥ Sarala ------ **लक्ष्मीरिति** । **लक्षेर्मुट् च** (UN३.१६०) इति ईप्रत्ययान्तोऽयं लक्ष्मीशब्दः । तथा च ढ्यन्तत्वाऽभावाद्धल्ङ्याब्भ्य इति सुलोपो न भवतीत्यर्थः । प्रकृष्टं ध्यायतीति - **प्रधीः** - श्रेष्ठध्यानवान् ॥ Sudha ----- **ङेरामिति ।** अङ्गत्वात् प्रत्ययग्रहणपरिभाषया च तदन्तविधिमभिप्रेत्य आह - **नद्यन्तादित्यादिना | बहुश्रेयस्याम् ।** बहुश्रेयसीशब्दात् सप्तम्येकवचने ङौ समागते **ङेराम्नद्याम्नीभ्यः**(7.3.116) इति ङेरामि कृते नदीसञ्ज्ञायां सत्यां स्थानिवद्भावेन ङित्वमानीय **आण्नद्याः**(7.3.112) इत्याडागमे टित्वादाद्यावयवे "बहुश्रेयसी-आ आम्" इति जाते **आटश्च**(6.1.90)' इति वृद्धौ **इको यणचि**(6.1.77) इति यणि "बहुश्रेयस्याम्" इति रूपम् । सप्तमीद्विवचनबहुवचने - "बहुश्रेयस्योः, बहुश्रेयसीषु" इति । **अङ्यन्तत्वादिति ।** औणादिकप्रत्ययान्तत्वादिति भावः । तथाह्यत्र सङ्ग्रहः - अवी तन्त्री तरी लक्ष्मी धी ही श्रीणामुणादिषु । सप्तस्त्रीलिङ्गशब्दानां न सुलोपः कदाचन । **अतिलक्ष्मीः ।** लक्ष्मीमतिक्रान्त इति विग्रहे इति समासः । अस्त्रीप्रत्ययान्तत्वान्नोपसर्जनह्रस्वः । "अतिलक्ष्मी - सु" अत्रानुबन्धलोपे सस्य रुत्वे विसर्गत्वे च रूपम् । **शेषं बहुश्रेयसीवदिति ।** इति नदीत्वादिति भावः । **प्रधीः ।** प्रध्यायतीति प्रधीः । इति क्विप् । यकारस्य सम्प्रसारणमिकारः। **सम्प्रसारणाच्च**(6.1.108) इति पूर्वरूपम् । **हलः**(6.4.2) इति दीर्घः । कृदन्तत्वेन प्रातिपदिकत्वात् सुबुत्पत्तिः । अङ्यन्तत्वान्न सुलोपः। रुत्वविसर्गौ "प्रधीः" इति रूपम् । प्रधी + औ इति स्थिते **इको यणचि**(6.1.77) इति यणपवादमियङमाशङ्कितुमाह - **अचि अनुधात्विति ।** इश्च उश्च यू तयोः य्वोः इवर्णोवर्णयोरित्यर्थः । श्नुश्च धातुश्च भ्रूश्चेति द्वन्द्वः। प्रत्ययग्रहण परिभाषया श्नुप्रत्ययान्तं विवक्षितम् । य्वोरिति धातोरेव विशेषणम् । तदन्तविधिः । **अङ्गस्य**(6.4.1) इत्यधिकृतम् । ततश्च **प्रत्ययः**(3.1.1) इति लभ्यते । अचीति तद्विशेषणम् । तदादिविधिस्तदाह - **श्नुप्रत्ययान्तस्येत्यादिना । इति प्राप्ते इति ।** "प्रधी-औ" इत्यादाविति शेषः।