73113: याडापः

Padacheda: याट् | S | 1 | 1 |

आपः | S | 5 | 1 |

Sutrartha

आबन्तात् अङ्गात् परस्य ङित्-प्रत्ययस्य याट्-आगमः भवति ।

आबन्तात् अङ्गात् परस्य ङे / ङसिँ / ङस् / ङि प्रत्ययानाम् याट्-आगमः भवति । यथा - माला + ङे → माला + याट् + ए [याडापः (7.3.113) इति याट्-आगमः] → माला + या + ए [हलन्त्यम् (1.3.3) इति टकारस्य इत्संज्ञा । तस्य लोपः (1.3.9) इति लोपः ।] → मालायै [वृद्धिरेचि (6.1.88) इति वृद्धि-एकादेशः] तथैव मालायाः तथा मालायाम् रूपे सिद्ध्यतः । ज्ञातव्यम् - 1) ‘आबन्तशब्दाः’ इत्यते ते शब्दाः येषामन्ते चाप् / टाप/ डाप् एतेषु कश्चन स्त्रीलिङ्गवाची प्रत्ययः अस्ति । अनेन सर्वे आकारान्तस्त्रीलिङ्गशब्दाः गृह्यन्ते । 2) अस्मिन् सूत्रे स्थानीनिर्देशकम् षष्ठ्यन्तम् पदम् नास्ति । अस्यामवस्थायाम् अनया परिभाषया पञ्चमी-विभक्त्यन्तशब्दस्य अर्थे परिवर्तनं न भवति, अपितु सप्तमी-विभक्तन्तशब्दस्य अर्थे परिवर्तनं भूत्वा षष्ठीविभक्तिवत् तस्य अर्थः सिद्ध्यति । अतः अस्मिन् सूत्रे ‘ङिति’ इति सप्तम्यन्तपदस्य अर्थः ‘ङित्-प्रत्यये परे’ इति न स्वीकृत्य ‘ङित्-प्रत्ययस्य’ इति स्वीकरणीयः । 3) आद्यन्तौ टकितौ (1.1.46) इत्यनेन टित्-आगमः स्थानिनः आद्यवयवरूपेण आगच्छति । अतः याट्-आगमः प्रत्ययात् पूर्वमागच्छति ।

Sutrartha (English)

A ङित्-प्रत्यय that comes after an आबन्त word get a याट् आगम.

Vasu English Summary

The augment याट् is added to the case-endings of the Dative -4th Case, Ablative -5th case and Genitive 6th-Case singular after a feminine अङ्ग (stem) ending in आ।

Vasu English Translation

The augment याट् is added to the case-endings of the Dative -4th Case, Ablative -5th case and Genitive 6th-Case singular after a feminine अङ्ग (stem) ending in आ। As खट्वायै, बहुराजायै, कारीषगन्ध्यायै, खट्वायाः, बहुराजायाः, कारीषगन्ध्यायाः ॥ But in the compound अतिखट्व, (from खट्वामतिक्रान्तः), this rule does not apply, on the maxim ङ्याब् ग्रहणेऽदीर्घः as the आ has been shortened here. Even when the word अतिखट्व assumes the form अतिखट्वा in the Dative by (7.3.102), the affix does not take the augment याट्, because this long आ is a lakshanika आ only, while the आ of the sutra is a pratipadokta (लक्षणप्रतिपदोक्तयोः प्रतिपदस्यैव) ॥

Bhashya

याडापः इहातिखट्वाय अतिमालायेति ह्रस्वत्वे कृते स्थानिवद्भवाद्याट्प्राप्नोति तस्य प्रतिषेधो वक्तव्यः । न वक्तव्यः याडि्वधानेऽतिखट्वायेत्यप्रतिषेधो ह्रस्वादेशत्वात् याडि्वधानेऽतिखट्वायातिमालायेत्यप्रतिषेधः । अनर्थकः प्रतिषेधोऽप्रतिषेधः ॥ याट्कस्मान्न भवति(1) ? ॥ ह्रस्वादेशत्वात् । ह्रस्वादेशोऽयम् । उक्तमेतत् ड्याब्ग्रहणेऽदीर्घ इति ॥ अथेदानीमसत्यपि स्थानिवद्भावे दीर्घत्वे कृते आबसौ(1) भूतपूर्व इति कृत्वा याट्कस्मान्न भवति ? ॥ लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैवेति ॥ ननु चेदानीं सत्यपि स्थानिवद्भाव एतया परिभाषया शक्यमुपस्थातुम् ? ॥ नेत्याह । न हीदानीं(2) क्वचिदपि स्थानिवद्भावः स्यात् ॥ ( याडापः ) ॥

Kashika

आबन्तादङ्गादुत्तरस्य ङित प्रत्ययस्य याडागमो भवति। खट्वायै। बहुराजायै। कारीषगन्ध्यायै। खट्वायाः। बहुराजायाः। कारीषगन्ध्यायाः। अतिखट्वायेत्यत्राकृते दीर्घे ङ्याब्ग्रहणेऽदीर्घः (महाभाष्य १.१३८) इति वचनाद् याडागमो न भवति, कृते तु लाक्षणिकत्वात्॥

Siddhanta Kaumudi

आपः परस्य ङिद्वचनस्य याडागमः स्यात् । वृद्धिरेचि (SK72) । रमायै । सवर्णदीर्घः । रमायाः । रमयोः । रमाणाम् । रमायाम् । रमयोः । रमासु । एवं दुर्गादयः ॥

Laghu Siddhanta Kaumudi

आपो ङितो याट्। वृद्धिः। रमायै। रमाभ्याम्। रमाभ्यः। रमायाः। रमयोः। रमाणाम्। रमायाम्। रमासु। एवं दुर्गाम्बिकादयः॥

Balamanorama

याडापः - यडापः । ‘आप’ इति पञ्चमी ।धेर्ङिती॑त्यतो डितीत्यनुवृत्तं षष्ठआ विपरिणम्यते । तदाह — आपः परस्येत्यादिना । टित्त्वादाद्यवयवः । वृद्धिरेचीति । या-ए इति स्थिते आकारस्य एकारस्य च स्थाने ऐकार एकादेश इति भावः । सवर्णेति । ङसिङसोः रमा अस् इति स्थिते याडागमे ‘अकः सवर्णे दीर्घः’ इति सवर्णदीर्घ इति भावः ।य॑डित्येव सुवचम् । ‘अतो गुणे’ इति पररूपं तु न, अकारोच्चारणसामर्थ्यात् । रमयोरिति । ‘आङि चापः’ इत्यात्त्वेऽयादेश इति भावः । रमाणामिति । ‘ह्रस्वनद्यापः’ इत्यत्राऽऽब्ग्रहणन्नुटि पर्जन्यवल्लक्षणप्रवृत्त्यानामी॑ति दीर्घे ‘अट्कुप्वा’ ङिति णत्वमिति भावः । रमायामिति । ‘रमा-इ’ इति स्थितेङेराम्नद्याम्नीभ्यः॑ इत्यामादेशे याडागमे सवर्णदीर्घ इति भावः । ‘न विभक्तौ’ इति मस्य नेत्त्वम् । सर्वशब्दाट्टापि सर्वाशब्दः । सोऽपि प्राये रमावत् । ङित्सु ‘याडापः’ इति प्राप्ते- ।

Tattvabodhini

याडापः - याडापः ।घेर्ङिती॑त्यतोऽनुवृत्तंङिति॑ति सप्तम्यन्तमाप इति पञ्चम्यनुरोधेन षष्टन्तं विपरिणम्यत् इत्याह -ङिद्वचनस्येति । अत्रसुपि चे॑त्यतःसुपी॑त्यमुवर्तनात्सुप एव याट् । तेन अपित्सार्वधातुकस्य ङित्त्वेऽपि मालेवाचरतोमालात॑इत्यादौ तसादेर्न भवति । एतच्च अचः परस्मि॑न्नित्यत्र पूर्वस्यविधिः पूर्वविधिरिति षष्ठीसमासपक्षाभ्युपगमेनोक्तम् । पञ्चमीसमासपक्षाभ्युपगमे तु शपः स्थानिवत्त्वेन व्यवधानात्मालात्इत्यादौ याटः प्रसङ्ग एव नास्तीत्याहुः ।य॑डित्येव वक्तव्ये दीर्घोच्चारणं स्पष्टप्रतिपत्त्यर्थम् । न चअतो गुणे॑इति पररूपापत्तिः, अकारोच्चारणसामर्थ्यादेव तद्बाधात् । वृद्धिरेचीति । प्राचा तुआटश्चे॑त्युपन्यस्तंतदुपेक्षितम् । याट्स्याटोष्टकारस्य समुदायानुबन्धत्वेनेह आटोऽभावात् ।

Padamanjari

दीर्घोच्चारणं किमर्थम्, न यडेवोच्येत, वृद्धौ कृतायां सवर्णदीर्घत्वे च खट्वायै, खट्वाया इति सिद्धम् ? न सिध्यति; ठतो गुणेऽ पररूपत्वं प्राप्नोति, अकारोच्चारणसामर्थ्यान्न भविष्यति । अस्त्यन्यदकारोच्चारणस्य प्रयोजनम् - ज्ञाये, ज्ञाया इत्यत्र’सावेकाचः’ इत्याद्यौदातत्वं मा भूत्, आगमानुदातत्वं यथा स्यादिति । किञ्च - उच्चारणार्थोऽप्यकारः सम्भाव्येत, इह खट्वामतिक्रान्त इति प्रादिसमासे ह्रस्वत्वे च तस्य स्थानिवद्भावाततः परस्य चतुर्थ्येकवचनस्य’णेóर्यः’ इति यादेशं बाधित्वानेन याट् प्राप्नोति, तत्र कृते दीर्घत्वे चातिखट्वायै देवदतायेति प्रसङ्गः, तत्राह - आतखट्वायेत्यत्रेति । अकृते दीर्घत्व इति । यादेशात् प्रागवस्थायामिदमुक्तम् । कृते तहि यादेशे दीर्घत्वे च ङ्च्चासिउ भूतपूर्व इति याट् प्राप्नोति ? अत आह - कृते च लाक्षणिकत्वादिति ॥

Nyaas

खट्वायाम् इति। वृद्धिरेचि (6.1.88) इति वृद्धिः। खट्वाया इत्यत्राकः सवर्णे (6.1.97) दीर्घोच्चारणम् - वृद्धिसवर्णदीर्घत्वे यथा स्याताम्, पररूपत्वं मा भूदित्येवमर्थम्। अकारोच्चारणसामर्थ्यान्न भविष्यतीति चेत्? न; अस्ति ह्रन्यदकारोच्चारणस्य प्रयोजनम्। किं तत्? ज्ञायै, ज्ञाया इत्यत्र सावेकाचस्तृतीयादिर्विभक्तिः (6.1.168) इत्यनेनोदात्तत्वं मा भूत्, आगमनुदात्तत्वं यथा स्यादिति। अथ खट्वामतिक्रान्तायातिखट्वायेत्यत्र कस्मान्न भवति, उपसर्जनह्रस्वत्वे कृते तस्य स्थानिवद्भावादाव्ग्रहणेन ग्रहणे सति प्राप्नोति? इत्यत आह - अतिखट्वाय इत्यादि। यदा तावत्? सुपि च (7.3.102) इति दीर्घत्वं न क्रियते, तदा ङ्याव्ग्रहणेन दीर्घग्रहणमित्येतद्ववचनान्न भवति। यदा दीर्घत्वं तदा लाक्षणिकत्वान्न भवति; लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम् (व्या।प।3) इति वचनात्॥

Praudhamanorama

यद्यपि यडित्येवोचितम्। न च ‘अतो गुणे’ इति पररूपापत्तिः, अकारोच्चारणसामर्थ्येनैव तद्बाधात्, तथाप्युच्चारणार्थोऽकार इति सम्भाव्येत। अतः स्पष्टार्थं याट् कृतः। वृद्धिरेचीति। यत्तु प्राचा ‘आटश्च’ इत्युदाहृतम्, तन्न, याट्स्याटोष्टकारस्य समुदायानुबन्धत्वेनेह आटोऽभावात्।

Prakriyasarvasvam

आबन्तात् परस्य ङित्सुपो याट् स्यात् । ‘वृद्धिरेचि’ (६-१-८८) रमायै ङसिङसोः रमायाः । ओस्येत्वम् । रमयोः । आपो नुट् । रमाणाम् । ङेराम् याट् च । रमायाम् । रमयोः । रमासु । ‘नाज्झलौ’ (१-१-१०) इत्यत्र दीर्घहलोः सावर्ण्यानिषेधात् आकारस्य हकारेण सवर्णग्रहादिण्त्वेन सोमपासु रमास्वत्यादौ षत्वं प्राप्त ‘वयस्यासु मूर्ध्नो मतुब्’ (४-४-१२७) इति निर्देशान्न स्यात् । प्रोष्ठपदाशब्दस्य तु-‘फल्गुनीप्रोष्ठपदानां च नक्षत्रे’ (१-२-६०) । <karika> फल्गुन्यौ द्वे हि नक्षत्रे तदा प्रोष्ठपदे उभे । तत्र द्व्यर्थे बहुत्वं वा तेन रूपं द्विधा भवेत् ॥ ५८४ ॥ </karika> प्रोष्ठपदे प्रोष्ठपदाः इत्यादि । ‘विशाखयाश्च’ (१-२-६२) इति छान्दस एकवचनविकल्पो लोकेऽप्यस्तीति टीकासर्वस्वे । तेनैकत्वद्वित्वे । विशाखा, विशाखे इत्यादि । अप्सुमनस्सिकतासमावर्षाणां स्त्रीत्वम् । बहुत्वं तु प्रायिकम् । बहुत्वपक्षे सिकताः सिकताभिरित्यादि । अन्यत्र रमावत् । एवं समावर्षे । सर्वादीनां टापि-

Sarala

(आपः परस्य ङिद्वचनस्य याडागमः स्यात्) । रमायै इति । रमाया+ए इति स्थिते वृद्धिरेचि (६.१.८८) इत्यनेन वृद्धिरित्यर्थः । आटश्च (६.१.९०) इति वृद्धिस्तु न, याटष्टकारस्य समुदायानुबन्धतया - प्रकृते आटोऽभावात् । एवं “सर्वस्यै” इत्यादिष्वपि वृद्धिरेचीत्येव वृद्धिर्न तु आटश्चेतीत्यवधेयम् । एवञ्च “रमाया” इत्यादिष्वपि अकः सवर्णे दीर्घः (६.१.१०१) इति दीर्घः ॥

Sudha

याडाप इति । आपः इति पञ्चमी । घेर्ङिति**(7.3.111) इत्यतो ङितीत्यनुवृत्तं षष्ठ्या विपरिणम्यते, तदाह - **आपः परस्येत्यादिना । रमायै इति । ‘रमा ङे’ इत्यत्र ङस्येत्सञ्ज्ञायां लोपे च कृते ‘रमा+ए’ इति जाते याडापः**(7.3.113) इत्यनेन ङित एकारस्य याडागमे कृते टित्वादाद्यावयवे जाते टकारस्येत्संज्ञायां लोपे च विहिते ‘रमा या ए’ अत्र **वृद्धिरेचि**(6.1.88) इति वृद्धौ ‘रमायै’ इति रूपम् । ङसिङसोस्तु ‘रमा + असू’ इति स्थिते याडागमे **अकः सवर्णे दीर्घः**(6.1.101) इति सवर्णदीर्घे **’रमायाः’ । रमयोरिति । ‘रमा + ओस्’ इति स्थिते आङि चापः**(7.3.105) इत्यावन्ताङ्गस्यैकारे जाते अयादेशे च कृते रुत्वविसर्गयोः सत्योः ‘रमयोः’ इति रूपम् । **रमाणामिति । ‘रमा + आम्’ अत्र ह्रस्वनद्यापो नुट्**(7.1.54) इत्यत्राव्ग्रहणान्नुटि, पर्ज्जन्यवल्लक्षणप्रवृत्या **नामि**(6.4.3) इति दीर्घे **अट्कुप्वाङ्नुम्व्यवायेऽपि**(8.4.2) इति णत्वे च सति रूपम् । **रमायामिति । ‘रमा ङि’ इत्यत्र **ङेराम्नद्याम्नीभ्यः**(7.3.116) इति ङेरामि कृते ‘रमा + आम्’ इति जाते अत्र **याडापः**(7.3.113) इति याटि टलोपे **अकः सवर्णे दीर्घः**(6.1.101) इति दीर्घादेशे च कृते ‘रमायाम’ इति रूपम् ।