73088: भूसुवोस्तिङि

Padacheda: भूसुवोः | S | 6 | 2 |

तिङि | S | 7 | 1 |

Sutrartha

भू-धातोः तथा सु-धातोः अङ्गस्य सार्वधातुके तिङ्-प्रत्यये परे गुणः न भवति ।

भू (सत्तायाम्) तथा षूङ् (प्राणिगर्भविमोचने) एतयोः धात्वोः अङ्गस्य सार्वधातुके तिङ्-प्रत्यये परे गुणः न भवति । 1) भू-धातुः वस्तुतः भ्वादिगणस्य धातुः अस्ति, अतः सार्वधातुके तिङ्-प्रत्यये परे अस्मात् शप्-विकरणप्रत्ययः विधीयते । परन्तु लुङ्लकारस्य विषये ‘च्लि’ इतस्य विकरणप्रत्ययस्य ‘सिच्’ आदेशे कृते गातिस्था… (2.4.77) इत्यनेन सिच्-इत्यस्य लोपः भवति, अतः भू-धातोः साक्षात् परः सार्वधातुकः तिङ्-प्रत्ययः आगच्छति । अस्यामवस्थायाम् सार्वधातुकार्धधातुकयोः (7.3.84) इत्यनेन उकारस्य गुणादेशे प्राप्ते अनेन सूत्रेण सः निषिध्यते । प्रक्रिया इयम् - भू + लुङ् [लुङ् (3.2.110) इति लुङ्] → भू + च्लि + ल् [च्लि लुङि (3.1.43) इति च्लि] → भू + सिच् + ल् [च्लेः सिच् (3.1.44) इति सिच्] → भू + ल् [गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु (2.4.77) इति लोपः] → अट् + भू + ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः (6.4.71) इति अडागमः] → अ + भू + तिप् [तिप्तस्.. (3.4.78) इति तिप्] → अ + भू + ति [सार्वधातुकार्धधातुकयोः (7.3.84) इत्यनेन उकारस्य गुणादेशे प्राप्ते भूसुवोस्तिङि (7.3.88) इति निषेधः] → अभूत् [इतश्च (3.4.100) इति इकारलोपः] 2) षूङ्-इति अदादिगणस्य धातुः अस्ति, अतः अस्मात् परस्य शप्-विकरणस्य अदिप्रभृतिभ्यः शपः (2.4.72) इत्यनेन लोपः भवति । अस्याम् स्थितौ सार्वधातुके तिङ्प्रत्यये परे अस्य उकारस्य यः लोपः विधीयते सः भूसुवोस्तिङि (7.3.88) इत्यनेन निषिध्यते । यथा, अस्य धातोः लोट्लकारस्य उत्तमपुरुषैकवचनस्य रूपम् - षूङ् → सू [धात्वादे षः सः (6.1.64) इति सत्वम्] → सू + लट् [लोट् च (3.3.162) इति लोट्] → सू + इट् [तिप्तस्.. (3.4.78) इति आत्मनेपदस्य उत्तमपुरुषैकवचनस्य इट्-प्रत्ययः] → सू + शप् + इट् [कर्तरि शप् (3.1.68) इति शप्] → सू + इ [अदिप्रभृतिभ्यः शपः (2.4.72) इति शपः लुक्] → सू + ए [टित आत्मनेपदानां टेरे (3.4.79) इति इकारस्य एकारादेशः] → सू + ऐ [एत ऐ (3.4.93) इति ऐ-आदेशः] → सू + आ + ऐ [आडुत्तमस्य पिच्च (3.4.92) इति पित् आडागमः] → सू + ऐ [आटश्च (6.1.90) इति वृद्धिः] → स् उवङ् + तिप् [ पित्संज्ञके सार्वधातुके तिङ्-प्रत्यये परे सार्वधातुकार्धधातुकयोः (7.3.84) इत्यनेन अङ्गस्य ऊकारस्य गुणे प्राप्ते भूसुवोस्तिङि (7.3.88) इत्यनेन निषिध्यते । अतः अचिश्नु.. (6.4.77) इति उवङ्-आदेशः भवति] → सुव् ऐ → सुवै

Sutrartha (English)

For the verbs भू and सु, the अङ्ग does not undergo a गुण when followed by a सार्वधातुक तिङ्-प्रत्यय.

Vasu English Summary

भू and सु get not गुण before an immediately following personal ending which is सार्वधातुक ।

Vasu English Translation

भू and सु get not गुण before an immediately following personal ending which is सार्वधातुक । As अभूत्, अभूः, अभुवम्; सुवै, सुवावहै, सुवामहै ॥ The सू refers to the Adadi root (21) in which the Present character is dropped, and does not refer to Divadi (24) or Tudadi (115) roots, because there the Present character श्यन् and श intervene between the Personal endings (तिङ्) and the root: and moreover the affixes श्यन् and श are ङित् (1.2.4) and would not cause guna. Why do we say before तिङ्? Observe भवति where the guna takes place before शप् ॥ Why before a sarvadhatuka affix? Observe व्यति भविषीष्ठ, where the Benedictive is not a Sarvadhatuka (3.4.116), and the augment is of course considered as a portion of the personal ending. Why the guna is not prohibited in बोभवीति when the Intensive यङ् is dropped, and the Personal ending is added directly to the root. Because the form बोभूतु in (7.4.65) indicates by implication that guna takes place in यङलुक् except in बोभूतु ॥

But of सू we have सोषुवीति where guna has been prohibited in the Intensive, because there is no jnapaka with regard to it.

The forms सुवै &c are the 1st Person Imperative of सू ॥

Bhashya

भूसुवोस्तिङि भूसुवोः प्रतिषेधे तिङि(1) एकाज्ग्रहणं बोभवीत्यर्थम्(4) भूसुवोः प्रतिषेधे एकाज्ग्रहणं कर्तव्यम् ॥ किं प्रयोजनम् ? ॥ बोभवतीत्यर्थम्(1) । इह मा भूत् बोभवतीति ॥ यद्येकाज्ग्रहणं क्रियते - अभूत् - अत्र न प्राप्नोति ॥ क्व तर्हि स्यात् ? ॥ मा भूत् ॥ तस्मान्नाऽर्थ एकाज्ग्रहणेन ॥ कस्मान्न भवति बोभवतीति ? ॥ बोभूत्वित्येतन्नियमार्थम् बोभूत्वित्येतन्नियमार्थं भविष्यति अत्रैव यङ्लुगन्तस्य गुणो न भवति नान्यत्रेति ॥ क्व मा भूत् - बोभवतीति । ( भूसुवोस्तिङि ) ॥

Kashika

भू सू इत्येतयोस्तिङि सार्वधातुके गुणो न भवति। अभूत्। अभूः। अभूवम्। सुवै, सुवावहै, सुवामहै। सूतेर्लुग्विकरणस्येदं ग्रहणम्। सुवतिसूयत्योर्विकरणेन तिङो व्यवधानम्। विकरणस्यैव ङित्त्वाद् गुणाभावः, सिद्धः। तिङीति किम्? भवति। सार्वधातुक इत्येव — व्यतिभविषीष्ट। अथ बोभवीतीति यङ्लुकि गुणप्रतिषेधः कस्माद् न भवति? ज्ञापकात्, यदयं बोभूतु (७.४.६५) इति गुणाभावार्थं निपातनं करोति॥

Siddhanta Kaumudi

भू सू एतयोः सार्वधातुके तिङि परे गुणो न स्यात् ॥

Laghu Siddhanta Kaumudi

भू सू एतयोः सार्वधातुके तिङि परे गुणो न। अभूत्। अभूताम्। अभूवन्। अभूः। अभूतम्। अभूत। अभूवम्। अभूव। अभूम॥

Balamanorama

भूसुवोस्तिङि - भूसुवोस्तिङि । ‘मिदेर्गुण’ इत्यतो ‘गुण’ इति,नाभ्यास्तस्याचि पिती॑त्यतो नेति सार्वधातुक इति चानुवर्तते । तदाह — एतयोरिति । भू सू इत्यनयोरित्यर्थः । इहषूङ् प्राणिगर्भविमोचने॑ इतिलुग्विकरणस्यैव ग्रहणं, न तु सुवतिसूयत्योः शविकरणश्यन्विकरणयोरपि, तत्र तिङो विकरणेन व्यवधानात् । अथ अभूत् इत्यत्र तकारस्येडागममाशह्कितुमाह —

Tattvabodhini

भूसुवोस्तिङि - ॒षूझ् प्राणिगर्भविमोचने॑ । सुवतिसूयत्योस्तु न ग्रहणं, तिङो विकरणेन व्यवधानात् ।

Padamanjari

अभूदिति । लुङ्,’गातिस्था’ इत्यादिना सिचो लुक् । सुवै, सुवावहै, सुवामहै इति ।’षूङ् प्राणिगर्भविमोचने’ , लोट्, चेरेत्वम्, ठेत ऐऽ, ठाडुतमस्य पिच्चऽ, शपो लुक्, उवङदेशः । सुवतिसूयत्योस्त्विति ।’षू प्रेरणे’ तुदादिः,’षूङ् प्राणिप्रसवे, दिवादिः । भवतीति । शपि गुणः । व्यतिभविषीष्टेति । आशिषि लिङ्, ठ्लिङशिषि’ इत्यार्धधातुकसंज्ञा,’कर्तरि कर्मव्यतिहारे’ इत्यात्मनेपदम् । अथेति । प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणात्प्रसङ्गः । ज्ञापकादिति । सूतेस्तु निपातनाभावाद् गुणनिषेधो भवत्येव - सोषुवीतीति ॥

Nyaas

अभूत् इति। लुङ्, `गातस्था (2.4.77) इत्यादिना सिचो लुक्। सुवावहै, सुवामहै इति। षूङ्? प्राणिगर्भविमोचने (धातुपाठः-1031), लोट्? वहिमहिङौ, टेरेत्वम्, एत ऐ (3.4.93) , आदित्वाच्छपो लुक्, आडुत्तमस्य पिच्च (3.4.92) इत्याट्? अचि श्नुधातु (6.4.77) इत्यादिनोवङ्। अथ कस्मात्? सूतेरादादिकस्योपन्यासः कृतः, न सुवतिसयत्योस्तौदादिकदैवादिकयोः? इत्यत आह - सूतेर्लुग्विकरणस्य इत्यादि। ननु च लुग्विकरणपरिभाषया (व्या।प।50) षू प्रेरणे (धातुपाठः-1408) इत्येतस्य शविकरणस्य तौदादिकस्य, षूङ्? प्राणिप्रसवे (धातुपाठः-1132) - इत्यस्य दैवादिकसय च ग्रहणं युक्तम्? इत्यत आह - सुवतिसूयत्योः इत्यादि। तिङीति सप्तमीनिर्देशादनन्तरे तिङि प्रतिषेधेन भवितव्यम्। न च सुवतिसूयतिभ्यामनन्तरस्तिङ्? सम्भवति, विकरणेन व्यवधानात्। तस्मान्न तयोग्र्रहणमिति सूतेरेव ग्रहणं युक्तमित्यभिप्रायः। स्यादेतत् - वचनप्राणाण्याद्विकरणेन व्यवधानेऽपि प्रतिषेधो भविष्यतीत्यतस्ययोरेव ग्रहणं युक्तमिति? अत आह - विकरणस्यैव इत्यादि। तयोर्हि सार्वधातुकमपित् (1.2.4) इति विकरणङित्त्वम्, तत्र क्ङिति च (1.1.5) इत्यनेनैव सिद्धः प्रतिषेध इति निरर्थकं तयोग्र्रहणं स्यात्, अतो न ताविह गृह्रते। भवति इति। तिङीति वचनादिहातिङि शपि परतो निषेदो न भवति। व्यतिभविषीष्ट इति। आशिषि लिङ्? (3.3.173) । स च लिङाशिषि (3.4.116) इत्यार्धधातुकसंज्ञकः, सीयुट्, कर्तरि `कर्तरि कर्मण्यतिहारे (1.3.14) इत्यात्मनेपदम्, सुट्? षत्वम्, ष्टुत्वम्। अथ इत्यादि। प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणं भवति (व्या।प।79) इति यङ्लुकोऽपि ग्रहणे सति तत्रापि प्रतिषेधेन भवितव्यमिति भावः। बोभवीति इति। गुणो यङ्लुकोः (7.4.82) इत्यभ्यासस्य गुणः। ज्ञापकात् इत्यादि। यदि यङ्लुक्यपि प्रतिषेधः स्यात्, गुणाभावार्थं निपातनं न कुर्यात्, कृतञ्च, तस्मादेव ज्ञापयति - यङलुक्ययं प्रतिषेधो न भवतीति॥

Prakriyasarvasvam

भूसूधात्वोः सार्वधातुके तिङि परे गुणो न स्यात् । अट् । अभूत् । अभूताम् ।

Sutra Prayogas

  • अभून्नृपो (भट्टिकाव्यम्): भू-सुवो. स्तिङि इति गुणप्रतिषेधः ॥