73088: भूसुवोस्तिङि =================== **Padacheda:** भूसुवोः | S | 6 | 2 | तिङि | S | 7 | 1 | Sutrartha --------- **भू-धातोः तथा सु-धातोः अङ्गस्य सार्वधातुके तिङ्-प्रत्यये परे गुणः न भवति ।** भू (सत्तायाम्) तथा षूङ् (प्राणिगर्भविमोचने) एतयोः धात्वोः अङ्गस्य सार्वधातुके तिङ्-प्रत्यये परे गुणः न भवति । 1) भू-धातुः वस्तुतः भ्वादिगणस्य धातुः अस्ति, अतः सार्वधातुके तिङ्-प्रत्यये परे अस्मात् शप्-विकरणप्रत्ययः विधीयते । परन्तु लुङ्लकारस्य विषये 'च्लि' इतस्य विकरणप्रत्ययस्य 'सिच्' आदेशे कृते **गातिस्था...** (2.4.77) इत्यनेन सिच्-इत्यस्य लोपः भवति, अतः भू-धातोः साक्षात् परः सार्वधातुकः तिङ्-प्रत्ययः आगच्छति । अस्यामवस्थायाम् **सार्वधातुकार्धधातुकयोः** (7.3.84) इत्यनेन उकारस्य गुणादेशे प्राप्ते अनेन सूत्रेण सः निषिध्यते । प्रक्रिया इयम् - भू + लुङ् [**लुङ्** (3.2.110) इति लुङ्] → भू + च्लि + ल् [**च्लि लुङि** (3.1.43) इति च्लि] → भू + सिच् + ल् [**च्लेः सिच्** (3.1.44) इति सिच्] → भू + ल् [**गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु** (2.4.77) इति लोपः] → अट् + भू + ल् [**लुङ्लङ्लृङ्क्ष्वडुदात्तः** (6.4.71) इति अडागमः] → अ + भू + तिप् [**तिप्तस्..** (3.4.78) इति तिप्] → अ + भू + ति [**सार्वधातुकार्धधातुकयोः** (7.3.84) इत्यनेन उकारस्य गुणादेशे प्राप्ते **भूसुवोस्तिङि** (7.3.88) इति निषेधः] → अभूत् [**इतश्च** (3.4.100) इति इकारलोपः] 2) षूङ्-इति अदादिगणस्य धातुः अस्ति, अतः अस्मात् परस्य शप्-विकरणस्य **अदिप्रभृतिभ्यः शपः** (2.4.72) इत्यनेन लोपः भवति । अस्याम् स्थितौ सार्वधातुके तिङ्प्रत्यये परे अस्य उकारस्य यः लोपः विधीयते सः **भूसुवोस्तिङि** (7.3.88) इत्यनेन निषिध्यते । यथा, अस्य धातोः लोट्लकारस्य उत्तमपुरुषैकवचनस्य रूपम् - षूङ् → सू [**धात्वादे षः सः** (6.1.64) इति सत्वम्] → सू + लट् [**लोट् च** (3.3.162) इति लोट्] → सू + इट् [**तिप्तस्..** (3.4.78) इति आत्मनेपदस्य उत्तमपुरुषैकवचनस्य इट्-प्रत्ययः] → सू + शप् + इट् [**कर्तरि शप्** (3.1.68) इति शप्] → सू + इ [**अदिप्रभृतिभ्यः शपः** (2.4.72) इति शपः लुक्] → सू + ए [**टित आत्मनेपदानां टेरे** (3.4.79) इति इकारस्य एकारादेशः] → सू + ऐ [**एत ऐ** (3.4.93) इति ऐ-आदेशः] → सू + आ + ऐ [**आडुत्तमस्य पिच्च** (3.4.92) इति पित् आडागमः] → सू + ऐ [**आटश्च** (6.1.90) इति वृद्धिः] → स् उवङ् + तिप् [ पित्संज्ञके सार्वधातुके तिङ्-प्रत्यये परे **सार्वधातुकार्धधातुकयोः** (7.3.84) इत्यनेन अङ्गस्य ऊकारस्य गुणे प्राप्ते **भूसुवोस्तिङि** (7.3.88) इत्यनेन निषिध्यते । अतः **अचिश्नु..** (6.4.77) इति उवङ्-आदेशः भवति] → सुव् ऐ → सुवै Sutrartha (English) ------------------- For the verbs भू and सु, the अङ्ग does not undergo a गुण when followed by a सार्वधातुक तिङ्-प्रत्यय. Vasu English Summary -------------------- भू and सु get not गुण before an immediately following personal ending which is सार्वधातुक । Vasu English Translation ------------------------ भू and सु get not गुण before an immediately following personal ending which is सार्वधातुक । As अभूत्, अभूः, अभुवम्; सुवै, सुवावहै, सुवामहै ॥ The सू refers to the *Adadi* root (21) in which the Present character is dropped, and does not refer to *Divadi* (24) or *Tudadi* (115) roots, because there the Present character श्यन् and श intervene between the Personal endings (तिङ्) and the root: and moreover the affixes श्यन् and श are ङित् (1.2.4) and would not cause *guna*. Why do we say before तिङ्? Observe भवति where the *guna* takes place before शप् ॥ Why before a *sarvadhatuka* affix? Observe व्यति भविषीष्ठ, where the Benedictive is not a *Sarvadhatuka* (3.4.116), and the augment is of course considered as a portion of the personal ending. Why the *guna* is not prohibited in बोभवीति when the Intensive यङ् is dropped, and the Personal ending is added directly to the root. Because the form बोभूतु in (7.4.65) indicates by implication that *guna* takes place in यङलुक् except in बोभूतु ॥ But of सू we have सोषुवीति where *guna* has been prohibited in the Intensive, because there is no *jnapaka* with regard to it. The forms सुवै &c are the 1st Person Imperative of सू ॥ Bhashya ------- भूसुवोस्तिङि भूसुवोः प्रतिषेधे तिङि(1) एकाज्ग्रहणं बोभवीत्यर्थम्(4) भूसुवोः प्रतिषेधे एकाज्ग्रहणं कर्तव्यम् ॥ किं प्रयोजनम् ? ॥ बोभवतीत्यर्थम्(1) । इह मा भूत् बोभवतीति ॥ यद्येकाज्ग्रहणं क्रियते - अभूत् - अत्र न प्राप्नोति ॥ क्व तर्हि स्यात् ? ॥ मा भूत् ॥ तस्मान्नाऽर्थ एकाज्ग्रहणेन ॥ कस्मान्न भवति बोभवतीति ? ॥ बोभूत्वित्येतन्नियमार्थम् बोभूत्वित्येतन्नियमार्थं भविष्यति अत्रैव यङ्लुगन्तस्य गुणो न भवति नान्यत्रेति ॥ क्व मा भूत् - बोभवतीति । ( भूसुवोस्तिङि ) ॥ Kashika ------- भू सू इत्येतयोस्तिङि सार्वधातुके गुणो न भवति। अभूत्। अभूः। अभूवम्। सुवै, सुवावहै, सुवामहै। सूतेर्लुग्विकरणस्येदं ग्रहणम्। सुवतिसूयत्योर्विकरणेन तिङो व्यवधानम्। विकरणस्यैव ङित्त्वाद् गुणाभावः, सिद्धः। तिङीति किम्? भवति। सार्वधातुक इत्येव — व्यतिभविषीष्ट। अथ बोभवीतीति यङ्लुकि गुणप्रतिषेधः कस्माद् न भवति? ज्ञापकात्, यदयं बोभूतु (७.४.६५) इति गुणाभावार्थं निपातनं करोति॥ Siddhanta Kaumudi ----------------- भू सू एतयोः सार्वधातुके तिङि परे गुणो न स्यात् ॥ Laghu Siddhanta Kaumudi ----------------------- भू सू एतयोः सार्वधातुके तिङि परे गुणो न। अभूत्। अभूताम्। अभूवन्। अभूः। अभूतम्। अभूत। अभूवम्। अभूव। अभूम॥ Balamanorama ------------ **भूसुवोस्तिङि** - भूसुवोस्तिङि । 'मिदेर्गुण' इत्यतो 'गुण' इति,नाभ्यास्तस्याचि पिती॑त्यतो नेति सार्वधातुक इति चानुवर्तते । तदाह — एतयोरिति । भू सू इत्यनयोरित्यर्थः । इहषूङ् प्राणिगर्भविमोचने॑ इतिलुग्विकरणस्यैव ग्रहणं, न तु सुवतिसूयत्योः शविकरणश्यन्विकरणयोरपि, तत्र तिङो विकरणेन व्यवधानात् । अथ अभूत् इत्यत्र तकारस्येडागममाशह्कितुमाह — Tattvabodhini ------------- **भूसुवोस्तिङि** - ॒षूझ् प्राणिगर्भविमोचने॑ । सुवतिसूयत्योस्तु न ग्रहणं, तिङो विकरणेन व्यवधानात् । Padamanjari ----------- अभूदिति । लुङ्,'गातिस्था' इत्यादिना सिचो लुक् । सुवै, सुवावहै, सुवामहै इति ।'षूङ् प्राणिगर्भविमोचने' , लोट्, चेरेत्वम्, ठेत ऐऽ, ठाडुतमस्य पिच्चऽ, शपो लुक्, उवङदेशः । सुवतिसूयत्योस्त्विति ।'षू प्रेरणे' तुदादिः,'षूङ् प्राणिप्रसवे, दिवादिः । भवतीति । शपि गुणः । व्यतिभविषीष्टेति । आशिषि लिङ्, ठ्लिङशिषि' इत्यार्धधातुकसंज्ञा,'कर्तरि कर्मव्यतिहारे' इत्यात्मनेपदम् । अथेति । प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणात्प्रसङ्गः । ज्ञापकादिति । सूतेस्तु निपातनाभावाद् गुणनिषेधो भवत्येव - सोषुवीतीति ॥ Nyaas ----- `अभूत्` इति। `लुङ्, `गातस्था` (2.4.77) इत्यादिना सिचो लुक्। `सुवावहै, सुवामहै` इति। `षूङ्? प्राणिगर्भविमोचने` (धातुपाठः-1031), लोट्? वहिमहिङौ, टेरेत्वम्, `एत ऐ` (3.4.93) , आदित्वाच्छपो लुक्, **आडुत्तमस्य पिच्च** (3.4.92) इत्याट्? `अचि श्नुधातु` (6.4.77) इत्यादिनोवङ्। अथ कस्मात्? सूतेरादादिकस्योपन्यासः कृतः, न सुवतिसयत्योस्तौदादिकदैवादिकयोः? इत्यत आह - `सूतेर्लुग्विकरणस्य` इत्यादि। ननु च लुग्विकरणपरिभाषया (व्या।प।50) `षू प्रेरणे` (धातुपाठः-1408) इत्येतस्य शविकरणस्य तौदादिकस्य, `षूङ्? प्राणिप्रसवे` (धातुपाठः-1132) - इत्यस्य दैवादिकसय च ग्रहणं युक्तम्? इत्यत आह - `सुवतिसूयत्योः` इत्यादि। तिङीति सप्तमीनिर्देशादनन्तरे तिङि प्रतिषेधेन भवितव्यम्। न च सुवतिसूयतिभ्यामनन्तरस्तिङ्? सम्भवति, विकरणेन व्यवधानात्। तस्मान्न तयोग्र्रहणमिति सूतेरेव ग्रहणं युक्तमित्यभिप्रायः। स्यादेतत् - वचनप्राणाण्याद्विकरणेन व्यवधानेऽपि प्रतिषेधो भविष्यतीत्यतस्ययोरेव ग्रहणं युक्तमिति? अत आह - `विकरणस्यैव` इत्यादि। तयोर्हि **सार्वधातुकमपित्** (1.2.4) इति विकरणङित्त्वम्, तत्र **क्ङिति च** (1.1.5) इत्यनेनैव सिद्धः प्रतिषेध इति निरर्थकं तयोग्र्रहणं स्यात्, अतो न ताविह गृह्रते। `भवति` इति। तिङीति वचनादिहातिङि शपि परतो निषेदो न भवति। `व्यतिभविषीष्ट` इति। आशिषि लिङ्? (3.3.173) । स च **लिङाशिषि** (3.4.116) इत्यार्धधातुकसंज्ञकः, सीयुट्, `कर्तरि `कर्तरि कर्मण्यतिहारे` (1.3.14) इत्यात्मनेपदम्, सुट्? षत्वम्, ष्टुत्वम्। `अथ` इत्यादि। `प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणं भवति` (व्या।प।79) इति यङ्लुकोऽपि ग्रहणे सति तत्रापि प्रतिषेधेन भवितव्यमिति भावः। `बोभवीति` इति। **गुणो यङ्लुकोः** (7.4.82) इत्यभ्यासस्य गुणः। `ज्ञापकात्` इत्यादि। यदि यङ्लुक्यपि प्रतिषेधः स्यात्, गुणाभावार्थं निपातनं न कुर्यात्, कृतञ्च, तस्मादेव ज्ञापयति - यङलुक्ययं प्रतिषेधो न भवतीति॥ Prakriyasarvasvam ----------------- भूसूधात्वोः सार्वधातुके तिङि परे गुणो न स्यात् । अट् । अभूत् । अभूताम् । Sutra Prayogas -------------- * **अभून्नृपो** (भट्टिकाव्यम्): `भू-सुवो. स्तिङि` इति गुणप्रतिषेधः ॥