73077: इषुगमियमां छः¶
Padacheda: इषुगमियमाम् | S | 6 | 3 |
छः | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
छ् is substituted for the final of 1. इष् 2. गम् and 3. यम् before a Present-character (शित्).
Vasu English Translation¶
छ् is substituted for the final of 1. इष् 2. गम् and 3. यम् before a Present-character (शित्). As इच्छति, गच्छति, यच्छति ॥ The इष् with the indicatory उ is taken here, (Tudadi 50), and not इष् of Divadi (19) class or of Kryadi class (53). There we have इष्यति and इष्णाति respectively. Those who do not read the sutra as इषु &c, but as इषगमि &c, read the anuvritti of the word अचि from (7.3.72) into this sutra; so that the शित् is qualified by the word अच्, i.e. a शित् affix which is merely a vowel, and has no consonant in it; (and not a शित् affix which begins with a vowel). Therefore though शानच् is a शित् affix beginning with a vowel, yet as it contains a consonant, the छ substitution does not take place, as इषाणः (3.1.83) The reading of the text according to Patanjali and Katyayana is इषगमियमां छ, and hence the necessity of the above explanation. The reading इषु, though convenient, is not arsha.
Bhashya¶
इषगमियमां छः इषेश्छत्वमहलि इषेश्छत्वमहलीति वक्तव्यम् । इह मा भूत् इष्णाति इष्यति ॥ तत्तर्हि वक्तव्यम् ? ॥ न वक्तव्यम् । अचीति वर्तते ॥ एवमपीषाणेत्यत्र प्राप्नोति ॥ अथाऽहलीत्यप्युच्यमाने(4) कस्मादेवाऽत्र छत्वं(5) न भवति ? ॥ नैवं विज्ञायते - न हल् अहल्, अहलीति ॥ कथं तर्हि ? ॥ अविद्यमानो हलस्मिन्सोऽयमहल, अहलीति ॥ यद्येवमचीत्यपि वर्तमाने न दोषः । न ह्यचा शिद्विशेष्यते - शिति भवति, कतरस्मिन् ?, अचीति ॥ कथं तर्हि ? ॥ शिताऽज्विशेष्यते, - अचि भवति, कतरस्मिन् ?, शितीति ( इषगमियमां छः ) ॥
Kashika¶
इषु गमि यम इत्येतेषां शिति परतश्छकारादेशो भवति। इच्छति। गच्छति। यच्छति। इषेरुदितो ग्रहणम्। इह मा भूत् — इष्यति, इष्णातीति। ये त्विषिमुदितं नाधीयते, त इह च सूत्रेऽचीत्यनुवर्तयन्ति। तत् च प्रधानमज्ग्रहणं शितीत्यनेन विशेष्यत इति वर्णयन्ति। तथा च सति तदादिविधिर्न भवति। यस्मिन् विधिस्तदादावल्ग्रहणे इत्येतदपि विशेषणेनैवेष्यते। तेन इषाणेत्यत्र छत्वं न भवति। न ह्ययमजेव शिदिति॥
Siddhanta Kaumudi¶
एषां छः स्याच्छिति परे । गच्छति । जगाम । जग्मतुः । जग्मुः । जगमिथ । जगन्थ । गन्ता ॥
Laghu Siddhanta Kaumudi¶
एषां छः स्यात् शिति। गच्छति। जगाम॥
Balamanorama¶
इषुगमियमां छः - इषुगमि । शितीति ।ष्ठिवुक्लमुचमा॑मित्यतस्तदनुवृत्तेरिति भावः । उदिन्निर्देशात्तौदादिकस्य इषेग्र्रहणम् । अत्राऽचीत्यनिवर्त्त्य अजादौ शितीत्याश्रित्य इष्यति इष्णाति इत्यत्र छत्वं नेति भाष्ये स्थितम् । एवं चात्र सूत्रे, तुदादौ च उदित्पाठोऽनार्ष इति शब्देन्दुशेखरे स्थितम् । गच्छतीति । शपि मकारस्य छकारः । जग्मतुरिति ।गमहने॑त्युपधालोपः । एवं जग्मुः । भारद्वाजनियमात्थलि वेट् । तदाह — जगमिथ जगन्थेति । जग्मथुः जग्म । जगाम — जगम जग्मिव जग्मिम । क्रादिनियमादिट् ।
Tattvabodhini¶
इषुगमियमां छः - जग्मतुरिति ।गमहने॑त्युपधालोपः ।
Padamanjari¶
इच्छतीति । तुदादित्वाच्छः । इष्यतीति । ठिष गतौऽ। इष्णातीति । ठिष आभीक्ष्ण्येऽ। ये पुनरुदितमिषि नाधीयत इति । धातुपाठे । इह च सूत्रे अचीत्यनुवर्तयन्तीति ।’क्सस्याचि’ इत्यतः । नन्वचीत्यनुवृतावपि’हलः श्नः शानज्झौ’ इति शानजादेशे इषाणेत्यत्र च्छत्वं स्यादेव, अजादित्वात् ? इत्यत आह - तत्रेति । स्यादेतदेवं यद्यचीत्येन शिद्विशेप्येत - शितिच्छाए भवति, किंविशिष्टे ? अचि - अजादाविति; इह तु शिता अज्विशेष्यते - अचि छाए भवति, किं विशिष्टे ? शितीति, तेन तदादिविधिर्न भवति । कि कारणम् ? इत्यत आहयस्मिन्विधिरिति । न केवलं तदन्तविधौ विशेषणत्वापेक्षा, अपि तर्हि तदादिविधावपीत्यपिशब्दस्यार्थः । इषाणेत्यत्रापीति । न केवलमिष्यतीत्यत्रैव - इत्यपिशब्दस्यार्थः । न ह्ययमजेवेति । अज्मात्रस्यात्र शित्वं नास्तीत्यर्थः । इतिकरणो हेतौ ॥
Nyaas¶
इच्छति इति। तुदादिभ्यः शः (3.1.77) । गच्छति, यच्छति इति। कर्तरि शप् (3.1.68) ।अथ किमर्थम्, इषु इच्छायाम् (धातुपाठः-1351) इत्येतस्योदितो ग्रहणम्? इत्याह - इषेः इत्यादि। इष गतौ (धातुपाठः-1127) इत्यस्य दैवादिकस्येष्यतीत्यत्र मा भूत्। इष आभीक्ष्ण्ये (धातुपाठः-1525) इत्यस्य क्रैयादिकसय इष्णातीत्यत्र मा भूदित्येवमर्थमुकारानुबन्ध इषिरिह गृह्रते।ये तर्हीषिमुदितमिह न पठन्ति, तेषामिष्यति, इष्णातीत्यत्रापि प्राप्नोति? इत्यत आह - ये त्विषिमुदितम् इत्याद। य इषिमुकारानुबन्धविशिष्टमिह न पठन्ति; त इष्यति, इष्णातीत्यत्र च्छत्वं मा भूदित्येवमर्थम्, क्सस्याचि (7.3.72) इत्यतोऽज्ग्रहणमनुवर्तयन्ति। अनुवर्तमानेऽप्यस्मिन्? यदि तेन शितीत्येतद्विशिष्यते - शित च्छो भवति, किं विशिष्टे? अजादाविति, तदेष्णातेर्लोट्सिपो हीत्यादेशे कृते हलः श्नः शानज्झौ (3.1.83) इति श्नाप्रत्ययस्य शानजादेशे कृते सति इषणेत्यत्र यस्मिन्? विधिस्तदादावल्ग्रहणे (व्या।प।127) इति तदादिविधिना छत्वं स्यादेवेति मन्यमान आह - तच्च प्रधानमन्ग्रहणं शितीत्यनेन विशिष्यत इति वर्णयन्ति इति। अचि च्छो भवति स चेच्छिद्भवति। प्राधान्पं पुनरज्ग्रहणस्य विशिष्यमाणत्वादेव। तथा च सति इत्यादि। एवमचीत्यस्मिन्? प्रधाने शितीत्यनेन विशिष्यमाणे तदादिविधिर्न भवति। किं कारणम्? इत्याह - यस्मिन्? विधिः इत्यादि। न केवलं येन विधिस्तदन्तस्य (1.1.72) इत्येतदेव तदन्तविधानं विशेषणेनेष्यते, अपि तु यस्मिन्विधिस्तददावल्ग्रहणे (व्या।प।127) इत्येतदेव तदादिविधानं विशेषणेनैवेष्यते। तेन च तदादिविधेरभावादषाणेत्यत्र छत्वं न भवति। असत्यपि तदादिविधौ शानजदेशस्य योऽयमादिराकारस्तत्र शिति परतश्छत्वं कस्मान्न भवति? इत्याह - न ह्रयम् इत्यादि। शकारः समुदायानुबन्धः, नाकारस्याचः। तस्मान्नाजेव शित्, अपि तु समुदाय एवेति न भवति च्छत्वम्॥
Prakriyasarvasvam¶
इच्छार्थस्येषेर्गमियमोश्च शिति छः स्यात् । यच्छति । कर्मणि यम्यते । लुङि यम् स् ईत् ।
Sutra Prayogas¶
अगच्छत् (भट्टिकाव्यम्): इषु-गमि-यमां छः इति गमेर्लङि छादेशः।
संगच्छ (भट्टिकाव्यम्): इषु गमि इति छत्वम्।
प्रत्यैच्छन् (भट्टिकाव्यम्): इषु-गमि यमां छः इति छकारादेशः।