73077: इषुगमियमां छः ==================== **Padacheda:** इषुगमियमाम् | S | 6 | 3 | छः | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- छ् is substituted for the final of 1. इष् 2. गम् and 3. यम् before a Present-character (शित्). Vasu English Translation ------------------------ छ् is substituted for the final of 1. इष् 2. गम् and 3. यम् before a Present-character (शित्). As इच्छति, गच्छति, यच्छति ॥ The इष् with the indicatory उ is taken here, (*Tudadi* 50), and not इष् of *Divadi* (19) class or of *Kryadi* class (53). There we have इष्यति and इष्णाति respectively. Those who do not read the *sutra* as इषु &c, but as इषगमि &c, read the *anuvritti* of the word अचि from (7.3.72) into this *sutra*; so that the शित् is qualified by the word अच्, i.e. a शित् affix which is merely a vowel, and has no consonant in it; (and not a शित् affix which begins with a vowel). Therefore though शानच् is a शित् affix beginning with a vowel, yet as it contains a consonant, the छ substitution does not take place, as इषाणः (3.1.83) The reading of the text according to *Patanjali* and *Katyayana* is इषगमियमां छ, and hence the necessity of the above explanation. The reading इषु, though convenient, is not *arsha*. Bhashya ------- इषगमियमां छः इषेश्छत्वमहलि इषेश्छत्वमहलीति वक्तव्यम् । इह मा भूत् इष्णाति इष्यति ॥ तत्तर्हि वक्तव्यम् ? ॥ न वक्तव्यम् । अचीति वर्तते ॥ एवमपीषाणेत्यत्र प्राप्नोति ॥ अथाऽहलीत्यप्युच्यमाने(4) कस्मादेवाऽत्र छत्वं(5) न भवति ? ॥ नैवं विज्ञायते - न हल् अहल्, अहलीति ॥ कथं तर्हि ? ॥ अविद्यमानो हलस्मिन्सोऽयमहल, अहलीति ॥ यद्येवमचीत्यपि वर्तमाने न दोषः । न ह्यचा शिद्विशेष्यते - शिति भवति, कतरस्मिन् ?, अचीति ॥ कथं तर्हि ? ॥ शिताऽज्विशेष्यते, - अचि भवति, कतरस्मिन् ?, शितीति ( इषगमियमां छः ) ॥ Kashika ------- इषु गमि यम इत्येतेषां शिति परतश्छकारादेशो भवति। इच्छति। गच्छति। यच्छति। इषेरुदितो ग्रहणम्। इह मा भूत् — इष्यति, इष्णातीति। ये त्विषिमुदितं नाधीयते, त इह च सूत्रेऽचीत्यनुवर्तयन्ति। तत् च प्रधानमज्ग्रहणं शितीत्यनेन विशेष्यत इति वर्णयन्ति। तथा च सति तदादिविधिर्न भवति। **यस्मिन् विधिस्तदादावल्ग्रहणे** इत्येतदपि विशेषणेनैवेष्यते। तेन इषाणेत्यत्र छत्वं न भवति। न ह्ययमजेव शिदिति॥ Siddhanta Kaumudi ----------------- एषां छः स्याच्छिति परे । गच्छति । जगाम । जग्मतुः । जग्मुः । जगमिथ । जगन्थ । गन्ता ॥ Laghu Siddhanta Kaumudi ----------------------- एषां छः स्यात् शिति। गच्छति। जगाम॥ Balamanorama ------------ **इषुगमियमां छः** - इषुगमि । शितीति ।ष्ठिवुक्लमुचमा॑मित्यतस्तदनुवृत्तेरिति भावः । उदिन्निर्देशात्तौदादिकस्य इषेग्र्रहणम् । अत्राऽचीत्यनिवर्त्त्य अजादौ शितीत्याश्रित्य इष्यति इष्णाति इत्यत्र छत्वं नेति भाष्ये स्थितम् । एवं चात्र सूत्रे, तुदादौ च उदित्पाठोऽनार्ष इति शब्देन्दुशेखरे स्थितम् । गच्छतीति । शपि मकारस्य छकारः । जग्मतुरिति ।गमहने॑त्युपधालोपः । एवं जग्मुः । भारद्वाजनियमात्थलि वेट् । तदाह — जगमिथ जगन्थेति । जग्मथुः जग्म । जगाम — जगम जग्मिव जग्मिम । क्रादिनियमादिट् । Tattvabodhini ------------- **इषुगमियमां छः** - जग्मतुरिति ।गमहने॑त्युपधालोपः । Padamanjari ----------- इच्छतीति । तुदादित्वाच्छः । इष्यतीति । ठिष गतौऽ। इष्णातीति । ठिष आभीक्ष्ण्येऽ। ये पुनरुदितमिषि नाधीयत इति । धातुपाठे । इह च सूत्रे अचीत्यनुवर्तयन्तीति ।'क्सस्याचि' इत्यतः । नन्वचीत्यनुवृतावपि'हलः श्नः शानज्झौ' इति शानजादेशे इषाणेत्यत्र च्छत्वं स्यादेव, अजादित्वात् ? इत्यत आह - तत्रेति । स्यादेतदेवं यद्यचीत्येन शिद्विशेप्येत - शितिच्छाए भवति, किंविशिष्टे ? अचि - अजादाविति; इह तु शिता अज्विशेष्यते - अचि छाए भवति, किं विशिष्टे ? शितीति, तेन तदादिविधिर्न भवति । कि कारणम् ? इत्यत आहयस्मिन्विधिरिति । न केवलं तदन्तविधौ विशेषणत्वापेक्षा, अपि तर्हि तदादिविधावपीत्यपिशब्दस्यार्थः । इषाणेत्यत्रापीति । न केवलमिष्यतीत्यत्रैव - इत्यपिशब्दस्यार्थः । न ह्ययमजेवेति । अज्मात्रस्यात्र शित्वं नास्तीत्यर्थः । इतिकरणो हेतौ ॥ Nyaas ----- `इच्छति` इति। **तुदादिभ्यः शः** (3.1.77) । `गच्छति, यच्छति` इति। `कर्तरि शप्` (3.1.68) ।अथ किमर्थम्, `इषु इच्छायाम्` (धातुपाठः-1351) इत्येतस्योदितो ग्रहणम्? इत्याह - `इषेः` इत्यादि। `इष गतौ` (धातुपाठः-1127) इत्यस्य दैवादिकस्येष्यतीत्यत्र मा भूत्। `इष आभीक्ष्ण्ये` (धातुपाठः-1525) इत्यस्य क्रैयादिकसय इष्णातीत्यत्र मा भूदित्येवमर्थमुकारानुबन्ध इषिरिह गृह्रते।ये तर्हीषिमुदितमिह न पठन्ति, तेषामिष्यति, इष्णातीत्यत्रापि प्राप्नोति? इत्यत आह - `ये त्विषिमुदितम्` इत्याद। य इषिमुकारानुबन्धविशिष्टमिह न पठन्ति; त इष्यति, इष्णातीत्यत्र च्छत्वं मा भूदित्येवमर्थम्, **क्सस्याचि** (7.3.72) इत्यतोऽज्ग्रहणमनुवर्तयन्ति। अनुवर्तमानेऽप्यस्मिन्? यदि तेन शितीत्येतद्विशिष्यते - शित च्छो भवति, किं विशिष्टे? अजादाविति, तदेष्णातेर्लोट्सिपो हीत्यादेशे कृते **हलः श्नः शानज्झौ** (3.1.83) इति श्नाप्रत्ययस्य शानजादेशे कृते सति इषणेत्यत्र `यस्मिन्? विधिस्तदादावल्ग्रहणे` (व्या।प।127) इति तदादिविधिना छत्वं स्यादेवेति मन्यमान आह - `तच्च प्रधानमन्ग्रहणं शितीत्यनेन विशिष्यत इति वर्णयन्ति` इति। अचि च्छो भवति स चेच्छिद्भवति। प्राधान्पं पुनरज्ग्रहणस्य विशिष्यमाणत्वादेव। `तथा च सति` इत्यादि। एवमचीत्यस्मिन्? प्रधाने शितीत्यनेन विशिष्यमाणे तदादिविधिर्न भवति। किं कारणम्? इत्याह - `यस्मिन्? विधिः` इत्यादि। न केवलं **येन विधिस्तदन्तस्य** (1.1.72) इत्येतदेव तदन्तविधानं विशेषणेनेष्यते, अपि तु `यस्मिन्विधिस्तददावल्ग्रहणे` (व्या।प।127) इत्येतदेव तदादिविधानं विशेषणेनैवेष्यते। तेन च तदादिविधेरभावादषाणेत्यत्र छत्वं न भवति। असत्यपि तदादिविधौ शानजदेशस्य योऽयमादिराकारस्तत्र शिति परतश्छत्वं कस्मान्न भवति? इत्याह - `न ह्रयम्` इत्यादि। शकारः समुदायानुबन्धः, नाकारस्याचः। तस्मान्नाजेव शित्, अपि तु समुदाय एवेति न भवति च्छत्वम्॥ Prakriyasarvasvam ----------------- इच्छार्थस्येषेर्गमियमोश्च शिति छः स्यात् । यच्छति । कर्मणि यम्यते । लुङि यम् स् ईत् । Sutra Prayogas -------------- * **अगच्छत्** (भट्टिकाव्यम्): `इषु-गमि-यमां छः` इति गमेर्लङि छादेशः। * **संगच्छ** (भट्टिकाव्यम्): `इषु गमि` इति छत्वम्। * **प्रत्यैच्छन्** (भट्टिकाव्यम्): `इषु-गमि यमां छः` इति छकारादेशः।