73023: दीर्घाच्च वरुणस्य

Padacheda: दीर्घात् | S | 5 | 1 |

च | S | 0 | 0 |

वरुणस्य | S | 6 | 1 |

Sutrartha


Vasu English Summary

Before a तद्धित affix having an indicatory ञ् , ण् or क् in a द्वन्द समास of god-names, the वृद्धि is not substituted for the first vowel of वरुण when a long vowel precedes it.

Vasu English Translation

Before a तद्धित affix having an indicatory ञ् , ण् or क् in a द्वन्द समास of god-names, the वृद्धि is not substituted for the first vowel of वरुण when a long vowel precedes it. As ऐन्द्रावरुणम्, मेत्रावरुणम् from इन्द्रवरुणौ &c. (6.3.26). But आग्निवारुणीम् in आग्निवारुणीमनड्वाहीमालभेत् when a short vowel precedes it. This word is derived from the compound word अग्नीवरुणौ the इ of अग्नि being lengthened by (6.3.27). But in forming a Taddhita- derivative from this word, the long ई is shortened by (6.3.28), and therefore, it cannot be said that a long vowel precedes वरुण ॥

Kashika

दीर्घादुत्तरस्य वरुणस्य यदुक्तंतद् न भवति। ऐन्द्रावरुणम्। मैत्रावरुणम्। दीर्घादिति किम्? आग्निवारुणीमनड्वाहीमालभेत (काठ० सं० १३.६)। अग्नेः ईदग्नेः सोमवरुणयोः (६.३.२७) इत्यस्यानङपवादस्य इद् वृद्धौ (६.३.२८) इति प्रतिषेधो विधीयते, तेन दीर्घात् परो न भवति॥

Siddhanta Kaumudi

दीर्घात्परस्य वरुणस्य न वृद्धिः । ऐन्द्रावरुणम् । दीर्घात्किम् । आग्निवारुणीमनड्वाहीमालभेत ।<!तदस्मिन्वर्तत इति नवयज्ञादिभ्य उपसंख्यानम् !> (वार्तिकम्) ॥ नावयज्ञिकः कालः । पाकयज्ञिकः ।<!पूर्णमासादण् वक्तव्यः !> (वार्तिकम्) ॥ पूर्णो मासोऽस्यां वर्तते इति पौर्णमासी तिथिः ॥

Balamanorama

दीर्घाच्च वरुणस्य - दीर्घाच्च वरुणस्य । ऐन्द्रावरुणमिति । इन्द्रावरुणौ देवता अस्येति विग्रहे द्वन्द्वः । आनङ् । इन्द्परावरुमशब्दादणि दीर्घाकारात्परत्वाद्वरुणस्य नादिवृद्धिः । आग्निवारुणमिति । ‘इद्वृद्धौ’ इत्यग्नेरानङं बाधित्वा इत्त्वे कृते दीर्घातत्परत्वा.ञभावान्निषेधाऽभावेसति ‘देवताद्वन्द्वे च’ इत्युभयपदवृद्धिरिति भावः इतिप्रसङ्गिकम् ।अथ प्रकृतम् । तदस्मिन्निति ।महाराजप्रोष्ठपदाट्ठ॑ञिति सूत्रे वार्तिकमिदम् । ‘तदस्मिन्वर्तते’ इत्यर्थे नवयज्ञादिभ्यः प्रथमान्तेभ्यष्ठञ उपसङ्ख्यानमित्यर्थः । नावयज्ञिकः काल इति । नवयज्ञो नूतनधान्यद्रव्यको यज्ञः-आग्रयणाख्याः, स यस्मिन्काले वर्तते स नावयज्ञिकः । आग्रयणकाल इति यावत् । पाकयज्ञिक इति । पाकयज्ञः-औपासनाग्निसाध्यः-पार्वणस्थालीपाकादिः स यस्मिन्काले वर्तते स पाकयज्ञिकः । पूर्वमासादिति । ‘तदस्मिन्वर्तते’ इत्यर्थे पूर्णमासशब्दात्प्रथमान्तादण् वक्तव्य इत्यर्थः । पूर्णो मासोऽस्यामिति । मासः-चन्द्रमाः, पूर्णश्चासौ मासश्च पूर्णमासः=पूर्वणचन्द्रः, स यस्यां तिथौ वर्तते सा पौर्णमासी तिथिरित्यर्थः । अणिटिड्ढाणञि॑ति ङीप् । यद्यपि पूर्वणो माः-चन्द्रः-पूर्वमाः । तस्येयमित्यर्थेतस्येद॑मित्यणि पौर्णमासीति सिद्धम् । तथापि ईदृश एवार्थे अयं साधुरिति भावः ।

Padamanjari

अत्र हीत्यादि । उदाहरणेषु’देवताद्वन्द्वे च’ इत्यानैङ्कृते दीर्घात्परो वरुणशब्दः ॥

Nyaas

ऐन्द्रावरुणम्, मैत्रावरुणम् इति। देवताद्वन्द्वे च (7.3.21) इत्यानङि कृते दीर्घात्? परो वरुणशब्दः॥

Prakriyasarvasvam

दीर्घात् परस्य वरुणस्य वृद्धिर्न । ऐन्द्रावरुणम् । दीर्घादित्युक्तेराग्निमारुणम् इति ॥