73022: नेन्द्रस्य परस्य

Padacheda: न | S | 0 | 0 |

इन्द्रस्य | S | 6 | 1 |

परस्य | S | 6 | 1 |

Sutrartha


Vasu English Summary

But the वृद्धि of the first vowel of इन्द्र when it stands as the second member of a द्वन्द समास , does not take place before a तद्धित affix having an indicatory ञ् , ण् or क् ।

Vasu English Translation

But the वृद्धि of the first vowel of इन्द्र when it stands as the second member of a द्वन्द समास , does not take place before a तद्धित affix having an indicatory ञ् , ण् or क् । As सौमेन्द्रः, आग्नेन्द्रः ॥ Why “when it stands as the subsequent member”? Observe ऐन्द्राग्न मेकादशकपालं चरुं निर्वपेत् ॥ There are two vowels in the word इन्द्र, and when a Taddhita affix is added, then one of these i. e. the अ or the last vowel is elided by (6.4.148), and the other (i. e. the इ, coalesces with the last vowel of the first term, as सोम + इन्द्र + अण् = सोम + इन्द्र् + अ = सोमे + न्द्र् + अ ॥ Now, no vowel is left of इन्द्र when it gets the form न्द्र्, so what is the necessity of the present prohibitory rule? This prohibition indicates the existence of the following maxim : बहिरङ्गमपि पूर्वोत्तरपदयोः पूर्वं कार्यं भवति, पश्चादेकादेशः or in other words पूर्वोत्तरनिमित्तकार्यात् पूर्वमन्तरङ्गोऽप्येकादेशो न ॥ “The substitution of one vowel for the final of the first and the initial of the second member of a compound does, even when it is antaranga, not take place previously to an operation which concerns the first or the second member of the compound”. It is on this maxim that the forms पूर्वशुकामशम (7.3.14) &c are constructed, otherwise उ being the first vowel of the second member (इ of इषु having merged in पूर्व), would have been vriddhied.

Kashika

इन्द्रशब्दस्य परस्य यदुक्तंतद् न भवति। सौमेन्द्रः। आग्नेन्द्रः। परस्येति किम्? ऐन्द्राग्नमेकादशकपालं चरुं निर्वपेत्। इन्द्रशब्दे द्वावचौ, तत्र तद्धित एकस्य यस्येति — (६.४.१४८) — लोपोऽपरस्य पूर्वेण सहैकादेश इत्यप्राप्तिरेव वृद्धेः, तदेदं प्रतिषेधवचनं ज्ञापकम् — बहिरङ्गमपि पूर्वोत्तरपदयोः पूर्वं कार्यं भवति पश्चादेकादेशः इति। तेन पूर्वैषुकामशम इत्यादि सिद्धं भवति॥

Siddhanta Kaumudi

परस्येन्द्रस्य वृद्धिर्न स्यात् । सौमेन्द्रः । परस्य किम् । ऐन्द्राग्नः ॥

Balamanorama

नेन्द्रस्य परस्य - नेन्द्रस्य परस्य ।देवताद्वन्द्वे चेट॑त्युक्ता उभयपदवृद्धिरुत्तरपदस्य इन्द्रशब्दस्य नेत्यर्थः । सौमेन्द्र इति ।चरु॑रिति शेषः । तैत्तिरीये सौमेन्द्रं श्यामाकं चरुमिति छान्दसम् ।

Padamanjari

आग्नेन्द्रम्, सौमेन्द्रमिति । ठजाद्यदन्तम्ऽ इतीन्द्रशब्दस्य पूर्वनिपातो न भवति; प्रायिकत्वातस्य । इन्द्रशब्द इत्यादि । इन्द्रश्च मरुच्चेत्यादौ व्यञ्जनान्तेन सह द्वन्द्वे इन्द्रशब्दस्य पूर्वनिपातेन भाव्यम् । यथा - ऐन्द्रामारुतीं भेदकामालभेतेति । वाय्विन्द्रावित्यादिकस्तु द्वन्द्वः सूक्तहविः सम्बन्धी न भवतीति भावः ॥

Nyaas

सैमेन्द्रः, आग्नेन्द्रः इति। सास्य देवता (4.2.24) इत्यण्, देवताद्वन्द्वे च (7.3.21) इत्यानङादेशः, पूर्वपदस्याद्गुणः। ऐन्द्राग्नम् इति। अत्रापि पूर्ववदणादिकार्यम्। इन्द्रशब्दे द्वावचौ इत्यादि। प्रागेवोक्तत्वात्? सुबोधम्॥

Prakriyasarvasvam

परस्येन्द्रस्य वृद्धिर्न । सौमेन्द्रम् ।।