72103: किमः कः¶
Padacheda: किमः | S | 6 | 1 |
कः | S | 1 | 1 |
Sutrartha¶
किम्-शब्दस्य विभक्ति-प्रत्यये परे ‘क’ आदेशः भवति ।
‘किम्’ अस्य सर्वनामशब्दस्य विभक्तिसंज्ञके परे ‘क’ इति आदेशः भवति । अनेकाल् शित् सर्वस्य (1.1.55) इति अयं सर्वादेशः । यथा - 1) किम् + सुँ [प्रथमैकवचनस्य प्रत्ययः । सुँ-प्रत्ययस्य सुपः (1.4.103) इति विभक्तिसंज्ञा ।] → क + सुँ [किमः कः (7.2.103) इति ‘क’ आदेशः] → कः [विसर्गनिर्माणम्] 2) किम् + दा [सर्वैकान्यकिंयत्तदः काले दा (5.3.15) इति दा-प्रत्ययः । प्राग्दिशो विभक्तिः (5.3.1) इति विभक्तिसंज्ञा] → क + दा [किमः कः (7.2.103) इति ‘क’ आदेशः] → कदा स्मर्तव्यम् - किम्-सर्वनाम्नः अव्ययसर्वनाम्नामकच्प्राक्टेः (5.3.71) इत्यनेन अकच्-प्रत्यये कृते ‘ककिम्’ इति प्रातिपदिकस्य विषये अपि वर्तमानसूत्रस्य प्रसक्तिः अस्ति । यथा - किम् + अकच् + सुँ [अव्ययसर्वनाम्नामकच्प्राक्टेः (5.3.71) इत्यनेन अकच्-प्रत्ययः, प्रथमैकवचनस्य ‘सुँ’ प्रत्ययः] → ककिम् + सुँ → क + सुँ [किमः कः (7.2.103) इति ‘क’ आदेशः] → कः
Sutrartha (English)¶
The word किम् is converted to ‘क’ in presence of a विभक्ति प्रत्यय.
Vasu English Summary¶
क is substituted for किम् before a विभक्ति affix.
Vasu English Translation¶
क is substituted for किम् before a विभक्ति affix. As कः, कौ, के ॥ The substitution takes place even when the augment अकच् is added. Therefore, the substitute is here क and not अ which latter would have been sufficient for किम् ॥ For म् of किम् being replaced by अ (7.2.102), the इ would be left, which would be replaced by अ, had the sutra been किमोऽत् and the forms would have been the same (क् + अ + अ = क (6.1.97). See (5.3.1), (5.3.13) &c.
Kashika¶
किम् इत्येतस्य क इत्ययमादेशो भवति विभक्तौ परतः। कः,कौ, के। साकच्कस्याप्ययमादेशो भवति, तेनाकार एव किमो न विधीयते — किमोऽदिति॥
Siddhanta Kaumudi¶
किमः कः स्याद्विभक्तौ । अकच्सहितस्याप्ययमादेशः । कः । कौ । के । कम् । कौ । कान् । इत्यादि सर्ववत् ॥
Laghu Siddhanta Kaumudi¶
किमः कः स्याद्विभक्तौ। कः। कौ। के इत्यादि। शेषं सर्ववत्॥
Balamanorama¶
किमः कः - तस्य विशेषमाह-किमः कः । विभक्ताविति । ‘अष्टन आ विभक्तौ’ इत्यतस्तदनुवृत्तेरिति भावः । ननु ‘इमः’ इत्येव सूत्र्यतां । ‘त्यदादीनाम’ इत्यनुवृत्तौ त्यदादीनामिमोऽकारः स्यादित्यर्थलाभात् ।द्विपर्यन्ताना॑मिति तु न सम्बध्यते, द्विपर्यन्तेषु त्यदादिषु इमोऽसम्भवात् । एवं च किंशब्दे ‘इम्’ इत्यस्य स्थाने अकारे सति ‘क’ इत्यदन्तत्वं सिध्यति । नचअलोऽन्त्यस्ये॑ति किंशब्दे इमोमकारस्यैव अकारः स्यात् । ततश्च इकारस्य यणि क्य इति स्यादिति वाच्यम्,नानर्थकेऽलोन्त्यविधिः॑ इति निषेधेन अलोऽन्त्यपरिभाषाया अप्रवृत्तौ इमः कृत्स्नस्य स्थाने अकारे सति ‘क’ इत्यस्य सिद्धेरित्यत आह-अकच्सहितस्येति । त्यदादेरिमोऽकारविधौअव्ययसर्वनाम्ना॑मिति किंशब्दस्य अकचि कृते ककिमिति स्थिते इमोऽकारे कृते ‘कक’ इति रूपं स्यात् । ‘किमः कः’ इत्युक्तौ तु साकच्कस्यापि किंशब्दस्यतन्मध्यपतितस्तद्ग्रहणेन गृह्रते॑ इति न्यायेन किंशब्दत्वात्तस्य कादेशे सति ‘क’ इत्येव रूपं सिध्यतीति भावः । अत्र त्यदादीनामित्यनुवर्त्त्य वचनविपरिणामेन त्यदादेः किमः क इति व्याख्येयम् । अतः सर्वाद्यन्तर्गणकार्यत्वादुपसर्जनत्वे कादेशो न भवति । एवं च विभक्त्युत्पत्तौ कादेशे सर्वशब्दवद्रूपाणीत्याह-कः कावित्यादि । मारुते वेधसि ब्राध्ने पुंसि कः, कं शिरोऽम्बुनोः॑ इत्यमरः । तत्र कशब्दस्य किंशब्दत्वाऽभावान्न सर्वनामत्वम् । वेधसि तु किंशब्दोऽप्यस्ति । तस्य सर्वनामत्वमस्ति नास्तीति पक्षद्वयं ‘कस्येत्’ इति सूत्रे भाष्ये स्थितम् । कायं हविरित्यत्र यदि किमः कादेशो, यदि वा शब्दान्तरम्, उभयथापिकस्मा अनुब्राऊही॑ति भवितव्यम् । सर्वस्य सर्वनामसंज्ञा । सर्वश्च प्रजापतिः । प्रजापतिश्च कः । अपर आह — उभयथापि कायानुब्राऊहीत्येव संज्ञैषा तत्रभवत इति ।
Tattvabodhini¶
किमः कः - किमः कः ।कायतोर्डिमि॑रिति डिमिप्रत्यये निष्पन्नः किंशब्दः । विभक्ताविति ।अष्टन आ विभक्ता॑वित्यतोऽनुवर्तत इति बावः । नन्वत्र॒इमः॑इत्येव सूत्र्यताम्स तेन तिमष्ठिमादीनां क्विबन्तानामतिप्रसङ्गवारणाय त्यदादीनामित्यनुवर्त्त्यत्यदादीनामिमः अः स्या॑दिति व्याख्यास्यते द्विशब्दात्प्राक्कशब्दस्य पाठः कर्तव्यः ।नानार्थके॑इति निषेधादारम्भसामर्थ्याच्चालोन्त्यविधिर्न भविष्यति, तत्क कादेशेनेत्यत आह — अकच्सहितस्यापीति । इमोऽकारविधौ तु साकच्कस्यकक॑इति रूपं स्यादिति भावः । नन्वेवं गणकार्यत्वाऽभावादुपसर्जनत्वेऽपि स्यात्, मैवम्,त्यदादीना॑मित्यनुवर्त्त्य॒त्यदादीनां किम॑इति व्याख्यानात् ।
Padamanjari¶
तेनाकार एव किमो न विधीयत इति । कथं पुनरकारविधाने कः इत्यादिरूपसिद्धिः, यावतान्त्यस्य प्राप्नोति, न चान्त्यस्य पूर्षेण सिद्धः, द्विपर्यन्तास्त्यदादयः इत्युक्तत्वात् अपरे पुनरेतच्चोद्यभयादेवं पठन्ति - तेनाकार एव इमो न विधीयत इति । अयमर्थः - इमः इत्येतावत्सूत्रमस्तु, त्यदादीनामः इत्येव त्यदादीनां सम्बन्धिन इमोऽकारो भवति तत्र नानर्थकेऽलेन्त्यविधिः इति सर्वस्यैवेमोऽकारो भवति । तेषामेवं पठतामुतरत्र किमो ग्रहणं कर्तव्यम् न कर्तव्यमुति होः इति वक्ष्यामि इमः इत्येव्र, ततो वाति इमः इत्येव, इमो वकारादेशो भवति । तस्मात्साकच्कार्थमेव कादेशो विहितः ॥
Nyaas¶
अथाकार एव किमः कस्मान्न विधीयते, एवं हि लघु सूत्रं भवति, अकारो हि प्रकृतोऽनुवर्तत इति, तत्रैवं सुत्रं कर्तव्यम्, किमोऽत् इति? अत आह - साकच्कस्यादेशो भवति इति। तेनाकारः किमो न विधीयते` इति। अयं ह्रादेशः तन्मध्यपतितस्तद्ग्रहणेन गृह्रते (व्या।पा।21) अकचश्च किम्ग्रहणेन ग्रहणात्? साकच्कस्यापि भवति; तेनाकार एव किमः स्थाने न विधीयते। यदि हि विधीयेत, तदाऽनकच्कस्यादेशे कृते यश्चादकचि कक इत्यनिष्टं रूपं स्यादित्यभिप्रायः। कथं पुनः किमोऽत्त्वे कृते क इति भवति, यावता मकारस्यात्त्वे कृते सतकारस्य यणादेशे कृते क्य इति स्यात्? नैष दोष; इकारस्यापि ह्रत्त्वं विधीयते, यदिह पूर्वसूत्रात्? अः इत्यनुवर्तते। नालोऽन्त्यस्यात्वं भवति यत्? पुनरिहाकारग्रहणं क्रियते। तेन अनन्त्यविकारेऽन्त्यसदेशस्य (व्या।प।63) इतीकारसय, तत्र द्वयोरकारयोः परपूर्वत्वे क इति सिद्धम्। क्यचित्? पाठः इमः इति। तत्रायं पूर्वपक्षः - अथाकार एवेमः कस्मान्न विधीयते? लघु ह्रेवं सूत्रं भवति; प्रकृतस्याकारस्येहानुवृत्तेः, तत्रैवं तावत्? सूत्रं कर्तव्यम् - इमः इति। न चैवं सति तिम ष्टिम आद्रीभावे (धातुपाठः-1123,1124) इत्यस्य क्विबन्तस्य तीन्, तिमौ, तिम इत्यत्रापि प्रसज्येत, त्यदादिभिरिमो विशेषणात् - त्यदादीनां य इमिति? न; दश्च (7.2.109) इति मत्वे कृत इदम इमौ इम इत्यत्रापि प्रसज्येत। लक्षणप्रतिपदोक्तपरिभाषया (व्या।प।3) नापीम इत्युचयमाने अलोऽन्त्यस्य (1.1.52) इति प्रसज्येतेत्याशङ्कनीयम्, यस्मान्नानर्थकेऽलोन्त्यविधिः (व्या।प।62)? इत्यत आह - साकच्कस्यापि इत्यादि। पूर्व एव पाठः साधुतरः। इतरत्र तु पाठ उत्तरसूत्रेण क्वादेश इमः कृते द्वयोः ककारयोश्च संयुक्तयोः श्रवणं प्रसज्येत, तच्चानिष्टम्॥
Praudhamanorama¶
ननु इम इत्येव सूत्र्यताम्। त्यदादीनामिमो अः स्याद् इति व्याख्यास्यते। किंशब्दश्च द्वेः प्राक् पठिष्यते। ‘नानर्थक’ इति निषेधादारम्भसामर्थ्याच्चालोऽन्त्यविधिर्न भविष्यति, तत् किं कादेशेनेत्याशङ्क्याह अकच्सहितस्यापीति। टेरत्वे कक इति स्यात्। ‘कु तुहोः’ इत्याद्यथ च किम इत्यवश्यं वक्तव्यमिति भावः। नन्वेवं गणकार्यत्वाभावादुपसर्जनत्वेऽपि स्यात्? मैवम्, त्यदादीनामित्यनुवर्त्य वचनविपरिणामेन त्यदादेः किम इति व्याख्यानात्। अनुवृत्तिसामर्थ्याच्चेह सूत्रे द्विपर्यन्तानाम् इति नियमस्य त्यागात्।
Prakriyasarvasvam¶
किमो विभक्तौ परतः कः स्यात् । कदा, यदा, तदा । वेत्युक्तेः सर्वत्र काल इत्याद्यपि ॥
Sudha¶
किमः कः स्याद्विभक्ताविति । **अष्टन आ विभक्तौ**(7.2.84) इत्यतस्तदनुवृत्तेरिति भावः । कः, कौ, के । किम् + सु इत्यत्र **किमः कः**(7.2.103) इति किमः कादेशे सोरुकारे गते सस्य रुत्वे रेफस्य विसर्गे च ‘कः’ इति रूपम् । किम् + औ इत्यत्र **किमः कः**(7.2.103) इति कादेशे वृद्धौ च कृतायाम् ‘कौ’ इति । किम् + जस् अत्र **किमः कः**(7.2.103) इति कादेशे **जसः शी**(7.1.17) इति जसः शीत्वे शस्येत्संज्ञायां लोपे च **आद्गुणः**(6.1.87) इति गुणे कृते ‘के’ इति रूपम् । इत्यादीति । कम्, कौ, कान् । केन, काभ्यां, कैः । कस्मै, काभ्यां, केभ्यः। कस्मात् काभ्याम्,केभ्यः। कस्य, कयोः, केषाम् । कस्मिन्, कयोः, केषु ।सर्ववदिति । सर्वनामसंज्ञकत्वादिति भावः ।