72103: किमः कः ============== **Padacheda:** किमः | S | 6 | 1 | कः | S | 1 | 1 | Sutrartha --------- **किम्-शब्दस्य विभक्ति-प्रत्यये परे 'क' आदेशः भवति ।** 'किम्' अस्य सर्वनामशब्दस्य विभक्तिसंज्ञके परे 'क' इति आदेशः भवति । **अनेकाल् शित् सर्वस्य** (1.1.55) इति अयं सर्वादेशः । यथा - 1) किम् + सुँ [प्रथमैकवचनस्य प्रत्ययः । सुँ-प्रत्ययस्य **सुपः** (1.4.103) इति विभक्तिसंज्ञा ।] → क + सुँ [**किमः कः** (7.2.103) इति 'क' आदेशः] → कः [विसर्गनिर्माणम्] 2) किम् + दा [**सर्वैकान्यकिंयत्तदः काले दा** (5.3.15) इति दा-प्रत्ययः । **प्राग्दिशो विभक्तिः** (5.3.1) इति विभक्तिसंज्ञा] → क + दा [**किमः कः** (7.2.103) इति 'क' आदेशः] → कदा स्मर्तव्यम् - किम्-सर्वनाम्नः **अव्ययसर्वनाम्नामकच्प्राक्टेः** (5.3.71) इत्यनेन अकच्-प्रत्यये कृते 'ककिम्' इति प्रातिपदिकस्य विषये अपि वर्तमानसूत्रस्य प्रसक्तिः अस्ति । यथा - किम् + अकच् + सुँ [**अव्ययसर्वनाम्नामकच्प्राक्टेः** (5.3.71) इत्यनेन अकच्-प्रत्ययः, प्रथमैकवचनस्य 'सुँ' प्रत्ययः] → ककिम् + सुँ → क + सुँ [**किमः कः** (7.2.103) इति 'क' आदेशः] → कः Sutrartha (English) ------------------- The word किम् is converted to 'क' in presence of a विभक्ति प्रत्यय. Vasu English Summary -------------------- क is substituted for किम् before a विभक्ति affix. Vasu English Translation ------------------------ क is substituted for किम् before a विभक्ति affix. As कः, कौ, के ॥ The substitution takes place even when the augment अकच् is added. Therefore, the substitute is here क and not अ which latter would have been sufficient for किम् ॥ For म् of किम् being replaced by अ (7.2.102), the इ would be left, which would be replaced by अ, had the *sutra* been किमोऽत् and the forms would have been the same (क् + अ + अ = क (6.1.97). See (5.3.1), (5.3.13) &c. Kashika ------- किम् इत्येतस्य क इत्ययमादेशो भवति विभक्तौ परतः। कः,कौ, के। साकच्कस्याप्ययमादेशो भवति, तेनाकार एव किमो न विधीयते — किमोऽदिति॥ Siddhanta Kaumudi ----------------- किमः कः स्याद्विभक्तौ । अकच्सहितस्याप्ययमादेशः । कः । कौ । के । कम् । कौ । कान् । इत्यादि सर्ववत् ॥ Laghu Siddhanta Kaumudi ----------------------- किमः कः स्याद्विभक्तौ। कः। कौ। के इत्यादि। शेषं सर्ववत्॥ Balamanorama ------------ **किमः कः** - तस्य विशेषमाह-किमः कः । विभक्ताविति । 'अष्टन आ विभक्तौ' इत्यतस्तदनुवृत्तेरिति भावः । ननु 'इमः' इत्येव सूत्र्यतां । 'त्यदादीनाम' इत्यनुवृत्तौ त्यदादीनामिमोऽकारः स्यादित्यर्थलाभात् ।द्विपर्यन्ताना॑मिति तु न सम्बध्यते, द्विपर्यन्तेषु त्यदादिषु इमोऽसम्भवात् । एवं च किंशब्दे 'इम्' इत्यस्य स्थाने अकारे सति 'क' इत्यदन्तत्वं सिध्यति । नचअलोऽन्त्यस्ये॑ति किंशब्दे इमोमकारस्यैव अकारः स्यात् । ततश्च इकारस्य यणि क्य इति स्यादिति वाच्यम्,नानर्थकेऽलोन्त्यविधिः॑ इति निषेधेन अलोऽन्त्यपरिभाषाया अप्रवृत्तौ इमः कृत्स्नस्य स्थाने अकारे सति 'क' इत्यस्य सिद्धेरित्यत आह-अकच्सहितस्येति । त्यदादेरिमोऽकारविधौअव्ययसर्वनाम्ना॑मिति किंशब्दस्य अकचि कृते ककिमिति स्थिते इमोऽकारे कृते 'कक' इति रूपं स्यात् । 'किमः कः' इत्युक्तौ तु साकच्कस्यापि किंशब्दस्यतन्मध्यपतितस्तद्ग्रहणेन गृह्रते॑ इति न्यायेन किंशब्दत्वात्तस्य कादेशे सति 'क' इत्येव रूपं सिध्यतीति भावः । अत्र त्यदादीनामित्यनुवर्त्त्य वचनविपरिणामेन त्यदादेः किमः क इति व्याख्येयम् । अतः सर्वाद्यन्तर्गणकार्यत्वादुपसर्जनत्वे कादेशो न भवति । एवं च विभक्त्युत्पत्तौ कादेशे सर्वशब्दवद्रूपाणीत्याह-कः कावित्यादि । मारुते वेधसि ब्राध्ने पुंसि कः, कं शिरोऽम्बुनोः॑ इत्यमरः । तत्र कशब्दस्य किंशब्दत्वाऽभावान्न सर्वनामत्वम् । वेधसि तु किंशब्दोऽप्यस्ति । तस्य सर्वनामत्वमस्ति नास्तीति पक्षद्वयं 'कस्येत्' इति सूत्रे भाष्ये स्थितम् । कायं हविरित्यत्र यदि किमः कादेशो, यदि वा शब्दान्तरम्, उभयथापिकस्मा अनुब्राऊही॑ति भवितव्यम् । सर्वस्य सर्वनामसंज्ञा । सर्वश्च प्रजापतिः । प्रजापतिश्च कः । अपर आह — उभयथापि कायानुब्राऊहीत्येव संज्ञैषा तत्रभवत इति । Tattvabodhini ------------- **किमः कः** - किमः कः ।कायतोर्डिमि॑रिति डिमिप्रत्यये निष्पन्नः किंशब्दः । विभक्ताविति ।अष्टन आ विभक्ता॑वित्यतोऽनुवर्तत इति बावः । नन्वत्र॒इमः॑इत्येव सूत्र्यताम्स तेन तिमष्ठिमादीनां क्विबन्तानामतिप्रसङ्गवारणाय त्यदादीनामित्यनुवर्त्त्यत्यदादीनामिमः अः स्या॑दिति व्याख्यास्यते द्विशब्दात्प्राक्कशब्दस्य पाठः कर्तव्यः ।नानार्थके॑इति निषेधादारम्भसामर्थ्याच्चालोन्त्यविधिर्न भविष्यति, तत्क कादेशेनेत्यत आह — अकच्सहितस्यापीति । इमोऽकारविधौ तु साकच्कस्यकक॑इति रूपं स्यादिति भावः । नन्वेवं गणकार्यत्वाऽभावादुपसर्जनत्वेऽपि स्यात्, मैवम्,त्यदादीना॑मित्यनुवर्त्त्य॒त्यदादीनां किम॑इति व्याख्यानात् । Padamanjari ----------- तेनाकार एव किमो न विधीयत इति । कथं पुनरकारविधाने कः इत्यादिरूपसिद्धिः, यावतान्त्यस्य प्राप्नोति, न चान्त्यस्य पूर्षेण सिद्धः, द्विपर्यन्तास्त्यदादयः इत्युक्तत्वात् अपरे पुनरेतच्चोद्यभयादेवं पठन्ति - तेनाकार एव इमो न विधीयत इति । अयमर्थः - इमः इत्येतावत्सूत्रमस्तु, त्यदादीनामः इत्येव त्यदादीनां सम्बन्धिन इमोऽकारो भवति तत्र नानर्थकेऽलेन्त्यविधिः इति सर्वस्यैवेमोऽकारो भवति । तेषामेवं पठतामुतरत्र किमो ग्रहणं कर्तव्यम् न कर्तव्यमुति होः इति वक्ष्यामि इमः इत्येव्र, ततो वाति इमः इत्येव, इमो वकारादेशो भवति । तस्मात्साकच्कार्थमेव कादेशो विहितः ॥ Nyaas ----- अथाकार एव किमः कस्मान्न विधीयते, एवं हि लघु सूत्रं भवति, अकारो हि प्रकृतोऽनुवर्तत इति, तत्रैवं सुत्रं कर्तव्यम्, `किमोऽत्` इति? अत आह - `साकच्कस्यादेशो भवति` इति। तेनाकारः किमो न विधीयते` इति। अयं ह्रादेशः `तन्मध्यपतितस्तद्ग्रहणेन गृह्रते` (व्या।पा।21) अकचश्च किम्ग्रहणेन ग्रहणात्? साकच्कस्यापि भवति; तेनाकार एव किमः स्थाने न विधीयते। यदि हि विधीयेत, तदाऽनकच्कस्यादेशे कृते यश्चादकचि कक इत्यनिष्टं रूपं स्यादित्यभिप्रायः। कथं पुनः किमोऽत्त्वे कृते क इति भवति, यावता मकारस्यात्त्वे कृते सतकारस्य यणादेशे कृते क्य इति स्यात्? नैष दोष; इकारस्यापि ह्रत्त्वं विधीयते, यदिह पूर्वसूत्रात्? `अः` इत्यनुवर्तते। नालोऽन्त्यस्यात्वं भवति यत्? पुनरिहाकारग्रहणं क्रियते। तेन `अनन्त्यविकारेऽन्त्यसदेशस्य` (व्या।प।63) इतीकारसय, तत्र द्वयोरकारयोः परपूर्वत्वे क इति सिद्धम्। क्यचित्? पाठः `इमः` इति। तत्रायं पूर्वपक्षः - अथाकार एवेमः कस्मान्न विधीयते? लघु ह्रेवं सूत्रं भवति; प्रकृतस्याकारस्येहानुवृत्तेः, तत्रैवं तावत्? सूत्रं कर्तव्यम् - `इमः` इति। न चैवं सति `तिम ष्टिम आद्रीभावे` (धातुपाठः-1123,1124) इत्यस्य क्विबन्तस्य तीन्, तिमौ, तिम इत्यत्रापि प्रसज्येत, त्यदादिभिरिमो विशेषणात् - त्यदादीनां य इमिति? न; `दश्च` (7.2.109) इति मत्वे कृत इदम इमौ इम इत्यत्रापि प्रसज्येत। लक्षणप्रतिपदोक्तपरिभाषया (व्या।प।3) नापीम इत्युचयमाने **अलोऽन्त्यस्य** (1.1.52) इति प्रसज्येतेत्याशङ्कनीयम्, यस्मान्नानर्थकेऽलोन्त्यविधिः (व्या।प।62)? इत्यत आह - `साकच्कस्यापि` इत्यादि। पूर्व एव पाठः साधुतरः। इतरत्र तु पाठ उत्तरसूत्रेण क्वादेश इमः कृते द्वयोः ककारयोश्च संयुक्तयोः श्रवणं प्रसज्येत, तच्चानिष्टम्॥ Praudhamanorama --------------- ननु इम इत्येव सूत्र्यताम्। त्यदादीनामिमो अः स्याद् इति व्याख्यास्यते। किंशब्दश्च द्वेः प्राक् पठिष्यते। 'नानर्थक' इति निषेधादारम्भसामर्थ्याच्चालोऽन्त्यविधिर्न भविष्यति, तत् किं कादेशेनेत्याशङ्क्याह **अकच्सहितस्यापीति।** टेरत्वे कक इति स्यात्। 'कु तुहोः' इत्याद्यथ च किम इत्यवश्यं वक्तव्यमिति भावः। नन्वेवं गणकार्यत्वाभावादुपसर्जनत्वेऽपि स्यात्? मैवम्, त्यदादीनामित्यनुवर्त्य वचनविपरिणामेन त्यदादेः किम इति व्याख्यानात्। अनुवृत्तिसामर्थ्याच्चेह सूत्रे द्विपर्यन्तानाम् इति नियमस्य त्यागात्। Prakriyasarvasvam ----------------- किमो विभक्तौ परतः कः स्यात् । कदा, यदा, तदा । वेत्युक्तेः सर्वत्र काल इत्याद्यपि ॥ Sudha ----- किमः कः स्याद्विभक्ताविति । **अष्टन आ विभक्तौ**(7.2.84) इत्यतस्तदनुवृत्तेरिति भावः । कः, कौ, के । किम् + सु इत्यत्र **किमः कः**(7.2.103) इति किमः कादेशे सोरुकारे गते सस्य रुत्वे रेफस्य विसर्गे च 'कः' इति रूपम् । किम् + औ इत्यत्र **किमः कः**(7.2.103) इति कादेशे वृद्धौ च कृतायाम् 'कौ' इति । किम् + जस् अत्र **किमः कः**(7.2.103) इति कादेशे **जसः शी**(7.1.17) इति जसः शीत्वे शस्येत्संज्ञायां लोपे च **आद्गुणः**(6.1.87) इति गुणे कृते 'के' इति रूपम् । इत्यादीति । कम्, कौ, कान् । केन, काभ्यां, कैः । कस्मै, काभ्यां, केभ्यः। कस्मात् काभ्याम्,केभ्यः। कस्य, कयोः, केषाम् । कस्मिन्, कयोः, केषु ।सर्ववदिति । सर्वनामसंज्ञकत्वादिति भावः ।