72095: तुभ्यमह्यौ ङयि¶
Padacheda: तुभ्यमह्यौ | S | 1 | 2 |
ङयि | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
In the Dative -4th Case singular तुभ्य is substituted for युष्म् and मह्य for अस्म्।
Vasu English Translation¶
In the Dative -4th Case singular तुभ्य is substituted for युष्म् and मह्य for अस्म्। As तुभ्यम्, मह्यम्, परमतुभ्यम्, परममह्यम्, अतितुभ्यम्, अतिमह्यम् ॥
Kashika¶
युष्मदस्मदोर्मपर्यन्तस्य तुभ्य मह्य इत्येतावादेशौ भवतो ङयि परतः। तुभ्यम्। मह्यम्। परमतुभ्यम्। परममह्यम्। अतितुभ्यम्। अतिमह्यम्॥
Siddhanta Kaumudi¶
अनयोर्मपर्यन्तस्य तुभ्यमह्यौ स्तो ङयि । अमादेशः । शेषे लोपः (SK385) । तुभ्यम् । मह्यम् । परमतुभ्यम् । परममह्यम् । अतितुभ्यम् । अतिमह्यम् । युवाभ्याम् । आवाभ्याम् ॥
Laghu Siddhanta Kaumudi¶
अनयोर्मपर्यन्तस्य। टिलोपः। तुभ्यम्। मह्यम्॥
Balamanorama¶
तुभ्यमह्यौ ङयि - तुभ्यमह्रौ ङयि । ‘ङे’ इत्यस्य सप्तम्येकवचने ङयीति ।युष्मदस्मदोरनादेशे॑ इत्यतो युष्मदस्मदोरित्यनुवर्तते । मपर्यन्तस्येत्यधिकृतम् । तदाह — अनयोरिति । युष्मदस्मदोरित्यर्थः । अमादेश इति ।ङे प्रथमयोरित्यनेने॑ति शेषः । शेषे लोप इति । अदो दस्य वा लोप इत्यर्थः । ‘अमि पूर्वः’ इति मत्वाह — तुभ्यं मह्रमिति । परमतुभ्यमिति । तुभ्यमहृविध्योराङ्गत्वात्तदन्तेऽपि प्रवृत्तिरिति भावः । अतितुभ्यमिति । गौणत्वे तदप्रवृत्तौ मानाऽभावादिति भावः । युवाभ्यामावाभ्यामिति । तृतीयाद्विवचनवदिति भावः ।
Prakriyasarvasvam¶
अनयोर्मपर्यन्तस्य ङय्येतौ स्तः । शेषे लोपः’ (७-२-९०) तुभ्यम् । मह्यम् । युवाभ्याम् । आवाभ्याम् ॥
Sudha¶
तुभ्यमह्यौ ङ्यीति । ङे इत्यस्य सप्तम्येकवचने ङयीति । **युष्मदस्मदोरनादेशे**(7.2.86) इत्यतो युष्मदस्मदोरित्यनुवर्तते । **मपर्यन्तस्य**(7.2.91) इत्यधिकृतम् । तदाह - अनयोरित्यादिना । तुभ्यम्, मह्यम् । युष्मद् + ङे अस्मद् + ङे इत्यत्र **तुभ्यमह्यौ ङयि**(7.2.95) इति मपर्यन्तस्य युष्मदः तुभ्यादेशे, अस्मदो मह्यादेशे च कृते ‘तुभ्य अद् ङे’ ‘मह्य अद् ङे’ इति जाते **अतो गुणे**(6.1.97) इति पररूपे **शेषे लोपः**(7.2.90) इत्यन्त्यस्य दकारस्य लोपे **ङे प्रथमयोरम्**(7.1.28) इति ङेरमादेशे **अमि पूर्वः**(6.1.107) इति पूर्वरूपैकादेशे ‘तुभ्यम्’ इति, ‘मह्यम्’ इति च जायेते । भ्यामि – युवाभ्याम्, आवाभ्याम्, इति तृतीयाद्विवचनवदिति भावः ।