72094: त्वाहौ सौ

Padacheda: त्वाहौ | S | 1 | 2 |

सौ | S | 7 | 1 |

Sutrartha


Vasu English Summary

In the Nominative 1st-Case singular त्व is substituted for युष्म् and अह for अस्म्।

Vasu English Translation

In the Nominative 1st-Case singular त्व is substituted for युष्म् and अह for अस्म्। Thus त्वम् and मह्यम्, परमत्वम्, परमाहम्, अतित्वम् and अत्यहम् ॥ See (7.1.28), (6.1.97) and (6.1.107).

Kashika

युष्मदस्मदोर्मपर्यन्तस्य सौ परे त्व अह इत्येतावादेशौ भवतः। त्वम्। अहम्। परमत्वम्। परमाहम्। अतित्वम्। अत्यहम्॥

Siddhanta Kaumudi

युष्मदस्मदोर्मपर्यन्तस्य त्व अह इत्येतावादेशौ स्तः सौ परे ॥

Laghu Siddhanta Kaumudi

अनयोर्मपर्यन्तस्य त्वाहौ आदेशौ स्तः॥

Balamanorama

त्वाहौ सौ - त्वाहौ सौ । त्वश्च अहश्च त्वाहौ । मपर्यन्तस्येत्यधिकृतम् । युष्मदस्मदोरनादेशे॑ इत्यतो युष्मदस्मदोरित्यनुवर्तते । तदाह — युष्मदस्मदोरित्यादिना । त्व अद् अम्, अह अद् अम् इति स्थितम् । यद्यप्यत्र ‘त्वमावेकवचने’ #इत्येव युष्मच्छब्दस्य त्वादेशः सिद्धतस्तथापि युष्मानतिक्रान्तोऽतित्वमित्यत्र त्वादेशार्थमिह युष्मदस्त्वविधानम् । नहि ‘तत्र त्वमावेकवचने’ इत्यस्य प्रवृत्तिरिति, अत्र युष्मच्छब्दस्य बुहुत्वविशिष्टे वृत्तेः । एकवचनशब्दो हि तत्र एकत्वविशिष्टवृत्तिवाची, नतु एकवचनसंज्ञकप्रत्ययवाचीत्यनुपदमेव वक्ष्यते ।

Tattvabodhini

त्वाहौ सौ - त्वाहौ सौ । यद्यपि युष्मदःत्वमावेकवचने॑इत्येवत्वादेशः सिद्धस्तथापि अस्मदोऽहादेशार्थमिदम् । किंचत्वमौ॑इति सूत्रेण युवां युष्मान् वाऽतिक्रान्तोऽतित्वमिति न सिध्यति, एकार्थवाचित्वऽभावाद्युष्मद इति भावः । युष्मदस्मदोरिति । एतच्चयुष्मदस्मदोरनादेशे॑इत्यतो लभ्यते । शेषे । उक्तादन्यः शेषः, आत्वं यत्वं च प्रागुक्तम्, तद्विषयादन्यविभक्तिरिह शेषशब्दार्थस्तदेतद्द्याचष्टे — —

Padamanjari

त्वमिति । यद्यष्यत्र त्वमावेकवचने इति त्वादेशः सिद्धः तथाप्यहादेशस्तावद्विधेयः तत्र च अहः सौ त्युच्यिमाने युष्मदोऽपि प्रसङ्गः, अस्मदोऽहः सौ इत्युच्यमाने गौरवं स्यात्, तस्मादत्रापि त्वादेश एव विधेययः । किञ्च - अतिक्रान्तो युवां युष्मान्वाऽतित्वमित्यत्र त्वादेशस्य शङ्कापि नास्ति ॥

Nyaas

त्वमावेकवचने (7.2.97) इति वक्ष्यति, तस्यायमपवादः। अथ त्वग्रहणं किमर्थम्, अहः सौ इत्येवोच्येत, त्वादेशो हि त्वमावेकवचने (7.2.97) इत्येवं भविष्यति? अशक्यमेवं वक्तुम्; असति त्वग्रहणे युष्मदोऽप्यहादेशः स्यात्। अथ वा - अत्र अस्मदोऽहः सौ इतेयवोच्येत? एवमपि गौरवं स्यात्। तस्माद्यथान्या समेवास्तु॥

Prakriyasarvasvam

युष्यदस्मदोर्मकारपर्यन्तस्य सौ परे त्वाहौ स्तः । त्वअद् अम् । अहअद् अम् ।

Sudha

त्वाहौ साविति । अत्र **युष्मदस्मदोरनादेशे**(7.2.86) इत्यतो युष्मदस्मदोरित्यनुवर्तते ।