72064: बभूथाततन्थजगृम्भववर्थेति निगमे¶
Padacheda: बभूथ | S | | | 1
आततन्थ | S | | | 1
जगृम्भ | S | | | 1
ववर्थ | S | | | 1
इति | S | 0 | 0 |
निगमे | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
In the छन्दस् (Vedas) are found the irregular forms 1. बभूथ 2. आततन्थ 3. जगृम्भ 4. and 5. ववर्थ।
Vasu English Translation¶
In the छन्दस् (Vedas) are found the irregular forms 1. बभूथ 2. आततन्थ 3. जगृम्भ 4. and 5. ववर्थ। As त्वं हि होता प्रथमो बभूथ (= बभूविथ); येनान्तरिक्षभुर्वाततन्थ (= आतेनिथ), जगृम्भा ते दक्षिणमिन्द्र हस्तम् (= जगृहिम), ववर्थ त्वं हि ज्योतिषा (= ववरिथ). See (7.2.13). This is also a niyama rule with regard to वृ for by (7.2.13) the root वृ was already anit, and its Perfect would have been ववर्थ by that rule. The special mention of this form shows that in secular literature this root is always सेट् before थ of the Perfect.
Bhashya¶
बभूथाततन्थजगृम्भववर्थेति निगमे वृग्रहणं किमर्थं न कृसृभृवृस्तुद्रुस्रुश्रुवो(2) लिटीत्येव सिद्धम् ॥ एवं तर्हि ॥ नियमार्थोयमारम्भः ॥ निगम एव यथा स्यात् ॥ क्व मा भूत् ? ॥ ववरिथ ॥
Kashika¶
बभूथ आततन्थ जगृभ्म ववर्थ इत्येतानि निपात्यन्ते निगमविषये। निगमो वेदः। बभूथ — त्वं हि होता॑ प्रथ॒मो ब॒भूथ॑ (तै०सं० ३.१.४.४)। बभूविथेति भाषायाम्। आततन्थ — येना॒न्तरि॑क्षमु॒र्वा॑त॒तन्थ॑ (ऋ० ३.२२.२)। आतेनिथेति भाषायाम्। जगृभ्म — ज॒गृ॒भ्मा ते॒ दक्षि॑णमिन्द्र॒ हस्त॑म् (ऋ० १०.४७.१)। जगृहिमेति भाषायाम्। ववर्थ — ववर्थ त्वं हि ज्योतिषा। ववरिथेति भाषायाम्। क्रादिसूत्रादेवास्य प्रतिषेधे सिद्धे नियमार्थं वचनम् — निगम एव न भाषायामिति॥
Siddhanta Kaumudi¶
एषां वेदे इडभावो निपात्यते । तेन भाषायां थलीट् । ववरिथ । ववृव । ववृवहे । वरिता ॥
Balamanorama¶
बभूथाततन्थजगृम्भववर्थेति निगमे - निगमो- वेदः । तदाह — एषां वेदे इति । ननु ‘कृसृभृवृ’ इतिनिषेधादेव थलि ववर्थेति सिद्धे किमर्थं ववर्थग्रहणमित्यत आह — तेन भाषायां थलीडिति । निगमे एव वृणोतेस्थलि इण्निषेध इति नियमलाभादिति भावः । व्रवे व्रवाते । ववृषे । ‘वृतो वा’ इति मत्वाह — वरितावरीतेति ।
Tattvabodhini¶
बभूथाततन्थजगृम्भववर्थेति निगमे - बभूथाततन्थ । भूधातोस्तनोतेश्च थलि इडभावो निपात्यते ।त्वं हि होता प्रथमो बभूथ॑ ।येनान्तरिक्षमुर्वा ततन्थ॑ । भाषायां तु बभूविथ तेनिथ ।जगृम्भा तेदक्षिणमिन्द्र हस्तम् । भाषायां तु जगृहिम । वृणोतेस्थलि क्रादिसूत्रेणेण्निषेधे सिद्धेऽपि निगम एव निषेधो नान्यत्रेति । नियमार्थं ववर्थग्रहणम् ।ववर्थ त्वं हि ज्योतिषाम् । भाषायां तु ववरिथ । ववृषे ।
Nyaas¶
बभूथेत्यादौ सर्वत्र क्रादिनियमादिटः प्राप्तस्याभावो निपात्यते। बभूथ इति। भवतेरः (7.4.73) इत्यभ्यासस्याकारस्यात्वम्। बभूविथ इति। भुवो वुग्लुङ्लिटोः (6.4.88) इति वुक्। आततन्थ इति। तनु विस्तारे (धातुपाठः-1463), आङ्पूर्वः। अतेनिथ इति। थलि च सेटि (6.4.121) इत्येत्त्वाभ्यासलोपौ। जगृभ्म इति। भुवो वुग्लुङ्लिटोः (6।488) इति वुक्। आततन्थ इति। तनु विस्तारे (धातुपाठः-1463), आङ्पूर्वः। अतेनिथ इति। थलि च सेटि (6.4.121) इत्येत्त्वाभ्यासलोपौ। जगृभ्म इति। ग्रहेर्लिट्, परस्मैपदानाम् (3.4.82) इत्यादिना मसो मादेशः, ग्रहिज्या (6.1.16) इति सूत्रेण सम्प्रसारणम्। ववपर्थ इति। वृञ्? वदणे (धातुपाठः-1254)॥
Prakriyasarvasvam¶
थलि भस्यप्यनिट्त्वं निपात्यते । यथ आबभूथ । अन्तरिक्षमूर्वाततन्थ । जगृम्भाते । वितमो ववर्थ । बभूविथ आतेनिथ जगृहिम ववरिथेति लोके । वृञ इदन्तत्वात् थल्यनिटि प्राप्ते ववर्थेति वेदे निपातनादेव लोके इड् सिद्धः ।