72064: बभूथाततन्थजगृम्भववर्थेति निगमे ===================================== **Padacheda:** बभूथ | S | | | 1 आततन्थ | S | | | 1 जगृम्भ | S | | | 1 ववर्थ | S | | | 1 इति | S | 0 | 0 | निगमे | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- In the छन्दस् (Vedas) are found the irregular forms 1. बभूथ 2. आततन्थ 3. जगृम्भ 4. and 5. ववर्थ। Vasu English Translation ------------------------ In the छन्दस् (Vedas) are found the irregular forms 1. बभूथ 2. आततन्थ 3. जगृम्भ 4. and 5. ववर्थ। As त्वं हि होता प्रथमो बभूथ (= बभूविथ); येनान्तरिक्षभुर्वाततन्थ (= आतेनिथ), जगृम्भा ते दक्षिणमिन्द्र हस्तम् (= जगृहिम), ववर्थ त्वं हि ज्योतिषा (= ववरिथ). See (7.2.13). This is also a *niyama* rule with regard to वृ for by (7.2.13) the root वृ was already *anit*, and its Perfect would have been ववर्थ by that rule. The special mention of this form shows that in secular literature this root is always सेट् before थ of the Perfect. Bhashya ------- बभूथाततन्थजगृम्भववर्थेति निगमे वृग्रहणं किमर्थं न कृसृभृवृस्तुद्रुस्रुश्रुवो(2) लिटीत्येव सिद्धम् ॥ एवं तर्हि ॥ नियमार्थोयमारम्भः ॥ निगम एव यथा स्यात् ॥ क्व मा भूत् ? ॥ ववरिथ ॥ Kashika ------- बभूथ आततन्थ जगृभ्म ववर्थ इत्येतानि निपात्यन्ते निगमविषये। निगमो वेदः। बभूथ — त्वं हि होता॑ प्रथ॒मो ब॒भूथ॑ (तै०सं० ३.१.४.४)। बभूविथेति भाषायाम्। आततन्थ — येना॒न्तरि॑क्षमु॒र्वा॑त॒तन्थ॑ (ऋ० ३.२२.२)। आतेनिथेति भाषायाम्। जगृभ्म — ज॒गृ॒भ्मा ते॒ दक्षि॑णमिन्द्र॒ हस्त॑म् (ऋ० १०.४७.१)। जगृहिमेति भाषायाम्। ववर्थ — ववर्थ त्वं हि ज्योतिषा। ववरिथेति भाषायाम्। क्रादिसूत्रादेवास्य प्रतिषेधे सिद्धे नियमार्थं वचनम् — निगम एव न भाषायामिति॥ Siddhanta Kaumudi ----------------- एषां वेदे इडभावो निपात्यते । तेन भाषायां थलीट् । ववरिथ । ववृव । ववृवहे । वरिता ॥ Balamanorama ------------ **बभूथाततन्थजगृम्भववर्थेति निगमे** - निगमो- वेदः । तदाह — एषां वेदे इति । ननु 'कृसृभृवृ' इतिनिषेधादेव थलि ववर्थेति सिद्धे किमर्थं ववर्थग्रहणमित्यत आह — तेन भाषायां थलीडिति । निगमे एव वृणोतेस्थलि इण्निषेध इति नियमलाभादिति भावः । व्रवे व्रवाते । ववृषे । 'वृतो वा' इति मत्वाह — वरितावरीतेति । Tattvabodhini ------------- **बभूथाततन्थजगृम्भववर्थेति निगमे** - बभूथाततन्थ । भूधातोस्तनोतेश्च थलि इडभावो निपात्यते ।त्वं हि होता प्रथमो बभूथ॑ ।येनान्तरिक्षमुर्वा ततन्थ॑ । भाषायां तु बभूविथ तेनिथ ।जगृम्भा तेदक्षिणमिन्द्र हस्तम् । भाषायां तु जगृहिम । वृणोतेस्थलि क्रादिसूत्रेणेण्निषेधे सिद्धेऽपि निगम एव निषेधो नान्यत्रेति । नियमार्थं ववर्थग्रहणम् ।ववर्थ त्वं हि ज्योतिषाम् । भाषायां तु ववरिथ । ववृषे । Nyaas ----- बभूथेत्यादौ सर्वत्र क्रादिनियमादिटः प्राप्तस्याभावो निपात्यते। `बभूथ` इति। `भवतेरः` (7.4.73) इत्यभ्यासस्याकारस्यात्वम्। `बभूविथ` इति। **भुवो वुग्लुङ्लिटोः** (6.4.88) इति वुक्। `आततन्थ` इति। `तनु विस्तारे` (धातुपाठः-1463), आङ्पूर्वः। `अतेनिथ` इति। **थलि च सेटि** (6.4.121) इत्येत्त्वाभ्यासलोपौ। `जगृभ्म` इति। `भुवो वुग्लुङ्लिटोः` (6।488) इति वुक्। `आततन्थ` इति। `तनु विस्तारे` (धातुपाठः-1463), आङ्पूर्वः। `अतेनिथ` इति। **थलि च सेटि** (6.4.121) इत्येत्त्वाभ्यासलोपौ। `जगृभ्म` इति। ग्रहेर्लिट्, `परस्मैपदानाम्` (3.4.82) इत्यादिना मसो मादेशः, `ग्रहिज्या` (6.1.16) इति सूत्रेण सम्प्रसारणम्। `ववपर्थ` इति। `वृञ्? वदणे` (धातुपाठः-1254)॥ Prakriyasarvasvam ----------------- थलि भस्यप्यनिट्त्वं निपात्यते । यथ आबभूथ । अन्तरिक्षमूर्वाततन्थ । जगृम्भाते । वितमो ववर्थ । बभूविथ आतेनिथ जगृहिम ववरिथेति लोके । वृञ इदन्तत्वात् थल्यनिटि प्राप्ते ववर्थेति वेदे निपातनादेव लोके इड् सिद्धः ।