72061: अचस्तास्वत् थल्यनिटो नित्यम्

Padacheda: अचः | S | 5 | 1 |

तास्वत् | S | 0 | 0 |

थलि | S | 7 | 1 |

अनिटः | S | 5 | 1 |

नित्यम् | S | 1 | 1 |

Sutrartha


Vasu English Summary

After a root which ends in a vowel and after the Periphrastic Future affix तासि is always devoid of the इट् augment (after such a root) थल् the personal ending of the लिट् (Perfect Tense) तास्, does not also get the augment इट् ।

Vasu English Translation

After a root which ends in a vowel and after the Periphrastic Future affix तासि is always devoid of the इट् augment (after such a root) थल् the personal ending of the लिट् (Perfect Tense) तास्, does not also get the augment इट् । Those vowel-ending roots in Dhatupatha which are invariably anit before the affix तास् (Periphrastic Future), are also anit before the Perfect ending थल् ॥ As याता (Periphrastic Future), ययाथ (Periphrastic), चेता, चिचेथ, नेता, निनेथ; होता जुहोथ ॥ Why ‘ending in a vowel’? Observe भत्ता, बिभेदिथ ॥ Why ‘like तास्’? Observe लूत्वा but लुलविथ, Why ‘थल’? Observe याता but ययिव, ययिम ॥ The word नित्यं qualifies अनिट्, if therefore तास् be optionally anit, then the थल् will be सेट् always. As तास् — विधोता or विधविता; the थल् is विदुधविथ ॥

Here इट् is optional before तास् by (7.2.44). Similarly चक्रमिथ, for क्रम् is anit in atmanepada, and सेट् in Parasmaipada. In fact, whereever there is want of इट्, whether by complete prohibition or optional prohibition, all that is regulated by (7.2.13): this is the view adopted by the Kasika. But another view is that the prohibition of this sutra applies to the इट् of (7.2.13) only, but does not debar the option of (7.2.44); so they have two forms विदुधोथ and विदुधविथ ॥ This view is applied by them to (7.2.46), as सस्वर्थ or सस्वरिथ (7.2.44).

Why have we used the word वत् in तास्वत् ? The force of वत् is that the root should have a form in तास् and then be anit; and if a root has no Periphrastic Future form, and thus its तास् is anit, such a root is not governed by this sutra. As जघसिथ and उवयिथ ॥ Here the roots घस् and वय् the substitutes अद् and वेञ् respectively have no Periphrastic Future form, and hence this rule does not apply to them.

Kashika

तासौ ये नित्यानिटो धातवोऽजन्ताः, तेभ्यस्तासाविव थलीडागमो न भवति। याता — ययाथ। चेता — चिचेथ। नेता — निनेथ। होता — जुहोथ। अच इति किम्? भेत्ता — बिभेदिथ। तास्वदिति किम्? लूत्वा — लुलविथ। थलीति किम्? याता — ययिव। ययिम। अनिड्ग्रहणं नित्यमित्यनेन विशेषणार्थम्। नित्यग्रहणं किम्? विधोता, विधविता — विदुधविथ। तासि विभाषितेट्, थलि नित्यमिडागमो भवति। तास्वदिति वतिनिर्देशः किमर्थः? तासौ सतस्थलि प्रतिषेधार्थः। यो हि तासावसन्, असत्त्वात् च नित्यानिट्, तस्य थलि प्रतिषेधो न भवति। जघसिथ। उवयिथ। उत्तरसूत्रेऽपि तास्वदिति वर्तते। अदादेशो हि घसिर्वेञादेशश्च वयिस्तासौ नास्ति॥

Siddhanta Kaumudi

उपदेशेऽजन्तो यो धातुस्तासौ नित्यानिट् ततः परस्य थल इण्न स्यात् ॥

Laghu Siddhanta Kaumudi

उपदेशेऽजन्तो यो धातुस्तासौ नित्यानिट् ततस्थल इण् न॥

Balamanorama

अचस्तास्वत् थल्यनिटो नित्यम् - अत तस्य थलीडागमस्य भारद्वाजनियमाद्विकल्पं वक्ष्यस्तदुपयोगत्वेन सूत्रद्वयमुपन्यस्यति -अचस्तास्वत् । अधातोस्थलोऽभावाद्धातोरिति लभ्यते । ‘अच ‘ इति तद्विशेषणम् । तदन्तविधिः । ‘उपदेशेऽत्वत’ इत्युत्तरसूत्रादुपदेश इत्यपकृष्यत इतिऋतो भारद्वाजस्ये॑ति सूत्रभाष्ये स्थितम् । उपदेशे अजन्तादित्यन्वयः । ‘अनिट’ इति बहुव्रीहेः पञ्चमी । नित्यमिड्विहीनादित्यन्वयः । ‘तासि च कॢप’ इत्यतस्तासीत्यनुवर्तते । तासौ नित्यमनिट इत्यन्वयः । थलीति षष्ठर्थे सप्तमी ।गमेरिट् परस्मैपदेष्वि॑त्यत इडिति,न वृद्भ्यश्चतुभ्र्य॑ इत्यतो नेति चानुवर्तते ।तास्व॑दिति सप्तम्यान्तद्वतिः । तदाह — उपदेशे योऽजन्त इत्यादि, इण्न स्यादित्यन्तम् ।तास्व॑ — दिति सेषः । यथा तासि नेट् तथा थल्यपि नेडित्यर्थः । चिचेथ जुहोथेत्याद्युदाहरणम् । अत्र क्रादिनियमप्राप्त इण्न भवति । अजन्तात्किम् । बिभेदिथ । उपदेश इति किम् । ‘ह्मञ्’ जहर्थ । इह गुणे रपरत्वेऽजन्तत्वाऽभावादिण्निषेधो न स्यादित्युपदेशग्रहणम् । नित्यग्रहणं किम् । ‘स्वृ गतौ’ सस्वरिथ ।स्वरितसूती॑ति तासौ विकल्पितेट्कत्वान्न निषेधः । तासौ किम् । लूत्वा लुलविथ । थलः किम् ।पपिव पिम । इह तासीत्यनुव#ऋत्त्यैव सिद्धेःतास्व॑दिति नातीवोपयुज्यत इति केचित् । वस्तुतस्तु यस्तासौ विद्यते तस्मादेव परस्य थल इण्निषेधार्थ तास्वदित्यावश्यकम् । तेनलिटन्यतरस्या॑मित्यदो घस्लृभावे जघसिथेत्यत्र न निषेधः, घसस्तासावभावादति — अद भक्षम इति धातौ मूल एव वक्ष्यते ।यस्तासावस्ति अनिट् चे॑ति भाष्यम् । एव वेञो वयादेशेऽपि न निषेध ति बोध्यम् ।

Tattvabodhini

अचस्तास्वत् थल्यनिटो नित्यम् - अचस्तास्वत् । उत्तरसूत्रादुपदेश इत्यपकृष्यते, तच्चाऽजन्तस्य विशेषणमित्याह — उपदेशेऽजन्त इति । धातुरित्याक्षेपाल्लभ्यते । न ह्रधातोस्थल् संभवति । नित्यग्रहणमनिटो विशेषणम् । क्व नित्यमनिडित्यपेक्षायां संनिधानात्तासावेवेति विज्ञायते,तासि च कॢपःर॑ इति सन्निहितं वाऽनुवर्तते ।न वृद्भ्यः॑ इत्यस्मान्नेत्यनुवर्तते , तदाह — तासौ नित्यानिट् ततः परस्येत्यादि । तासाविव तास्वदिति सप्तम्यन्ताद्वतिः । यथा तासौ न भवति एवं थल्यपीत्यर्थः । अचेति किम् । बिभेदिथ । रुरोधिथ । उपदेशे इति किम् । जहर्थ । इह परत्वान्नित्यत्वच्च गुणे रपरत्वे च कृते अजन्तत्वाऽभावादेतस्याऽप्रवृत्ताविट् प्रसज्येतेत्युपदेश इत्युक्तम् । थलीति किम् । पपिव पपिम । नित्यमनिटः किम् । सस्वरिथ । सस्वर्थ । नाऽयं तासौ नित्यमनिट्,स्वरतिसूती॑ति विकल्पितेट्त्वात् । इह तासीति नेति चानुवृत्त्यैवेष्टसिद्धेस्तास्वदित्येतन्नातीवोपयुज्यत इति केचित् । अन्ये तु — यस्य तासौ विद्यमानत्वं तस्मादेव परस्य थल इण्निषेध इत्येतल्लाभार्थं तत् ।तेन उवयिथ, जघसिथेत्यत्र न निषेध इत्याहुः ।

Padamanjari

यस्थलि क्रादिनियमादिट् प्राप्तः स निषिध्यते । पञ्चसूत्र्येत आरभ्य तास्वदित्येष डेर्वतिः ॥ उपदेशग्रहोऽप्यत्र वक्ष्यमाणोऽपकृष्यते । गुणे नित्ये कृतेऽप्येष ऋदन्ते प्राप्नुयात्कथम् ॥ क्व नित्यमनिट् इत्यपेक्षायां तासेः सन्निधानातत्रैवेति विज्ञायते, यद्वापूर्वसूत्रात् तासि इति वर्तते । यातेति । तासावनिट्प्रदर्शनार्थमुपन्यस्तम् । लूत्वेति । तास्वत् इत्यनुच्यमाने यत्र क्वापि नित्यानिटस्थलि प्रतिषेधः स्यात् । लुनातिश्चायम् र्श्युकः कितीति प्रतिषेधात्किति नित्यानिट्कः । ययिव, ययिमेति । आतो लोप इटि च । अनिड्ग्रहणं नित्यमित्यनेन विशेषणार्थमिति । असत्यनिड्ग्रहणे नित्यमित्यनेन प्रतिषेध तएव विश्ष्येत - नित्यमण्न भवतीति । यद्यप्यत्र विकल्पे न प्रकृतः, तथापीदमेव नित्यग्रहणं पूर्वस्व विधेरनित्यत्वं ज्ञापयेत् । सेड्निवृत्यर्थ त्वनिड्ग्रहणं न भवति, कथम् तास्वदित्युच्यते, यथा तासौ न भवति एवं थल्यपीति । न च यस्तासौ सेट् तस्य एथलि प्रतिषेधो भवन् तास्वत्कृतो भवति । विधोता, विधवितेति । स्वरत्यादिसूत्रेण तासाविड्विकल्पितः । एक्रमेरपि चक्रमिथेति भाव्यम्, न हि तासौ नित्यानिट् क्रमिः, आत्मनेपदे इडभावात्परस्मैपदे सेटत्वात् । तासौ विभाषेटस्थलि नित्यमिडागमो भवतीति । यावान्कश्चिदिडभावः प्रतिषेधनिबन्धनो विकल्पनिबन्धनो वा स सर्वः क्रादिसूत्रेण नियम्यते इत्यस्मिन्पक्षे इति भावः । यद् तु प्रतिषेधाधिकारेण क्रादीनामेवेण्न भवतीतिनियमात्प्रतिषेध एव सर्वो निवर्तते, स्वरत्यादि लक्षणस्तु विकल्पो भवत्येव इति पक्षः, तदा विदुधोथ, विदुधविथेत्युभयं भवति । यद्येवम्, नित्यमनिट इति न वक्तव्यमस्तुः यस्तासौ विकल्पितेट् तस्याप्ययं प्रतिषेधः ऋतो भारद्वाजस्य इति नियमाद्विकल्प एवावस्थास्यते नैवं शक्यम्, स्वरतौ हि दौषः स्यात् । भारद्वाजपक्षेऽपि तस्य प्रतिषेधात् सस्वर्थेत्येव स्यात् । यदा तु विकल्पितेटस्थलि प्रतिषेधोऽयं न भवति, तदा सस्वर्थ, सस्वरिथेत्युभयं भवति । तास्वदिति वतिनिर्देश इति । तास्वदित्यस्य निर्देश इत्यर्थः । तास्वदित्यनुच्यमाने प्रकृतस्य तासीत्यस्यानुवृतावप्येतावदेव लभ्येत - तासौ नित्यमनिटस्थलीण् न भवतीति, ततश्च यस्तासावसन, असत्वादेव नित्यानिट्, तस्यापि प्रसज्येत । तास्वदित्युच्यमाने तु वतेः सादृश्योगोचरात् । यथाभूतस्य तासौ नेट् तथाभूतस्य थल्यपि ॥ इटा न भाव्यमित्येष दोषो नैव प्रसज्यते । इटस्तास्यसतो धातोर्निषेधे विहिते थलि । अभावः सदृशो न स्यात् थलि तास्यसतो भवेत् ॥ अधसिथेति । स्थानिवद्भावात् इडत्यर्तिव्ययतीनाम् इत्येवैष सिद्ध इत्याहुः । थौतरसूत्रेऽपीति । एतेनोतरार्थं तास्वदित्युच्यत तैति दर्शयति । अदादेशो हीति । ननु चास्य स्थानी तासावस्ति, अस्ति चानिडिति तदादेशस्यापि स्थानिवद्भावात् सत्वानिट्त्वे स्याताम् नैतदस्ति, स्थानिवद्भावः शास्त्रीयेषु प्रवर्तते, न च तासौ सत्वं नाम शास्त्रीयं कार्यम् ॥

Nyaas

क्रादिनियमादिटि प्राप्तेज्जन्तानां तासौ नित्यानिटां थलि प्रतिषेधो विधीयते। पाता इत्यादि। लुडुपन्यासस्तासौ नित्यानिट्त्वप्रदर्शनार्थः`; अनिट्त्वं [अनिट्प्रतिषेधात् - इत्येव मुद्रितः पाठः] च एकाचः (7.2.10) इत्यादिनेट्? प्रतषेधात्। लूत्वा, लुलविथ इति। तास्वदिति वचनादिह न भवति प्रतिषेधः। तस्मस्वनुच्यमान[तस्मसत्वनुच्यमान इहापि प्रतिषेध स्यात् - भवति, लुनाति। किति नित्यमनिटः `श्रयुकः किति इति प्रतिषेधात्` - इति मुद्रितः पाठः] इहापि प्रतिषेधः स्यात्। भवति लुनातिः किति नित्यमनिट्। श्रयुकः किति (7.2.11) इति प्रतिषेधात्? पपिव, पपिम इति। आतो लोप इटि च (6.4.64) इत्याकारलोपः। अनिङ्ग्रहणं नित्यमित्यनेन इत्यादि। नित्यमित्यनेनानिट्त्वं धातोः कथं नाम विशेष्येतेत्येवमर्थमनिङ्ग्रहणमित्यर्थः। अथ सविता, लुलवथेति तासौ सेटस्थलौट्प्रतिषेधो मा भूदित्येवमर्थमनिड्ग्रहणं कस्मान्न भवति? नार्हत्येवमर्थं भवितुम्। तथा हि - तास्वत्? थलीण्न भवतीत्युच्यते; न च यस्तासौ सेट्? तस्य प्रतिषेधो भवंस्तास्वदिति व्यपदेष्टुं शक्यते, यो ह्रमिजभावस्थलि विधीयते तस्य तासाविडमावेनैव सादृश्यं वतिराचष्टे। एवं तु वतिग्रहणादेव तासौ सेटस्थलि प्रतिषेधो न भविष्यति; अन्यथा वतिना यत्? सादृश्यं समाख्ययते तन्न स्यात्। तस्माद्युक्तमुक्तेमेवानिद्ग्रणस्य प्रयोजनम्। अथाक्रयमाणेऽनिङ्ग्रहणे नित्यमिति कस्य विशेषणं विज्ञायते? प्रतिषेधस्य। ननु च नित्य एव प्रतिषेधः प्रकृतः, तत्र यदि नित्यग्रहणे न प्रतिषेधो विशिष्येत, तदा नित्यग्रहणमनर्थकं स्यात्? नैतदस्ति; पूर्वसूत्रे प्रतिषेधस्यानित्यत्वं यथा स्यादित्येवमर्थं स्यात्। अवं च पूर्वसूत्रेण पक्ष इडागमः स्यादेव। तस्मात्? पूर्वोक्तमेवानिड्ग्रहणस्य प्रयोजनम्। तासौ विबाषितेट् इति। स्वरत्यादिसूत्रेम (7.2.44) धूञ इङ्? विकल्पितः। तस्य नित्यग्रहणाद्विभाषितेटस्थलि नित्यमिडागमो भवति। असति च नित्यग्रहणे प्रतिषेधः स्यादेव। पाक्षिकेणापीडभावेनानिङ्व्यपदेशो भवत्येव। तथा हि - गुहेर्विभाषितेटोऽपि शल इगुपधादनिटः क्सः (3.1.45) इति क्सो भवत्येव - अधुक्षदिति। अथ वतिना निर्देशः किमर्थः, न तासावित्येवोच्येत? इत्यत आह - तास्वत् इत्यादि। असति वतिना निर्देशे योऽपि तासावसन्? असत्त्वाच्च नित्यमनिट्, तस्यापि थलि प्रतिषेधः स्यात्। वतिना निर्देशे तु सति, वतेः सर्वसादृश्यार्थत्वाद्यथाभूतस्य तासाविण्न भवति तथाभूतस्यैव थल्पपीटा न भवितव्यमिति न भवत्येव दोषप्रसङ्गः। यदि हि यस्तासावसत्? असत्त्वाच्च नित्यमनिट्? तस्यापि थलि प्रतिषेधः स्यात्। एवं च सति तसावसत इडभावः, इतरत्र तु सत इति यथाभूतस्य तासादिडभावस्तथाभूतस्थापि थलि न स्यात्। यो हि तासावसन्नसत्त्वाच्च नित्यमनिट्, तस्य थलि प्रतिषेदो न भवति - जघसिथेति - उत्तरसूत्रेणेत्यभिप्राय इत्यत आह - उत्तरसूत्रेऽपि इत्यादि। तदेवमुत्तरार्थो वतिना निर्देशोऽयं भवति। इह तु नार्थो वतिनिर्देशेन, अनजन्तत्वादेव घसेर्वयेश्च परतिषेधो न भवतीति। जघसिथ इति। लिटन्यतरस्याम् (2.4.4।0) इत्यदेर्घस्लादेशः। उदयिथ इति। वेञो वयिः (2.4.41) इति वयिरादेशः; लिटभ्यासस्योभथेषाम् (6.1.17) इति सम्प्रसरणम्। कस्मात्? पूनर्घसेः, वयेश्च तासावसत्त्वान्नित्यानिट्त्वम्? इत्याह - अदादेशो हि इत्यादि। नास्तित्वं तयोः पुनस्तासावविधानाद्वेदितव्यम्॥

Prakriyasarvasvam

अजन्तो यो धातुस्तासौ नित्यमनिट्, ततः परस्य थलस्तासौ इव इट् न स्यात् ।