72061: अचस्तास्वत् थल्यनिटो नित्यम् =================================== **Padacheda:** अचः | S | 5 | 1 | तास्वत् | S | 0 | 0 | थलि | S | 7 | 1 | अनिटः | S | 5 | 1 | नित्यम् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- After a root which ends in a vowel and after the Periphrastic Future affix तासि is always devoid of the इट् augment (after such a root) थल् the personal ending of the लिट् (Perfect Tense) तास्, does not also get the augment इट् । Vasu English Translation ------------------------ After a root which ends in a vowel and after the Periphrastic Future affix तासि is always devoid of the इट् augment (after such a root) थल् the personal ending of the लिट् (Perfect Tense) तास्, does not also get the augment इट् । Those vowel-ending roots in *Dhatupatha* which are invariably *anit* before the affix तास् (Periphrastic Future), are also *anit* before the Perfect ending थल् ॥ As याता (Periphrastic Future), ययाथ (Periphrastic), चेता, चिचेथ, नेता, निनेथ; होता जुहोथ ॥ Why 'ending in a vowel'? Observe भत्ता, बिभेदिथ ॥ Why 'like तास्'? Observe लूत्वा but लुलविथ, Why 'थल'? Observe याता but ययिव, ययिम ॥ The word नित्यं qualifies अनिट्, if therefore तास् be optionally *anit*, then the थल् will be सेट् always. As तास् — विधोता or विधविता; the थल् is विदुधविथ ॥ Here इट् is optional before तास् by (7.2.44). Similarly चक्रमिथ, for क्रम् is *anit* in *atmanepada*, and सेट् in *Parasmaipada*. In fact, whereever there is want of इट्, whether by complete prohibition or optional prohibition, all that is regulated by (7.2.13): this is the view adopted by the *Kasika*. But another view is that the prohibition of this *sutra* applies to the इट् of (7.2.13) only, but does not debar the option of (7.2.44); so they have two forms विदुधोथ and विदुधविथ ॥ This view is applied by them to (7.2.46), as सस्वर्थ or सस्वरिथ (7.2.44). Why have we used the word वत् in तास्वत् ? The force of वत् is that the root should have a form in तास् and then be *anit*; and if a root has no Periphrastic Future form, and thus its तास् is *anit*, such a root is not governed by this *sutra*. As जघसिथ and उवयिथ ॥ Here the roots घस् and वय् the substitutes अद् and वेञ् respectively have no Periphrastic Future form, and hence this rule does not apply to them. Kashika ------- तासौ ये नित्यानिटो धातवोऽजन्ताः, तेभ्यस्तासाविव थलीडागमो न भवति। याता — ययाथ। चेता — चिचेथ। नेता — निनेथ। होता — जुहोथ। अच इति किम्? भेत्ता — बिभेदिथ। तास्वदिति किम्? लूत्वा — लुलविथ। थलीति किम्? याता — ययिव। ययिम। अनिड्ग्रहणं नित्यमित्यनेन विशेषणार्थम्। नित्यग्रहणं किम्? विधोता, विधविता — विदुधविथ। तासि विभाषितेट्, थलि नित्यमिडागमो भवति। तास्वदिति वतिनिर्देशः किमर्थः? तासौ सतस्थलि प्रतिषेधार्थः। यो हि तासावसन्, असत्त्वात् च नित्यानिट्, तस्य थलि प्रतिषेधो न भवति। जघसिथ। उवयिथ। उत्तरसूत्रेऽपि तास्वदिति वर्तते। अदादेशो हि घसिर्वेञादेशश्च वयिस्तासौ नास्ति॥ Siddhanta Kaumudi ----------------- उपदेशेऽजन्तो यो धातुस्तासौ नित्यानिट् ततः परस्य थल इण्न स्यात् ॥ Laghu Siddhanta Kaumudi ----------------------- उपदेशेऽजन्तो यो धातुस्तासौ नित्यानिट् ततस्थल इण् न॥ Balamanorama ------------ **अचस्तास्वत् थल्यनिटो नित्यम्** - अत तस्य थलीडागमस्य भारद्वाजनियमाद्विकल्पं वक्ष्यस्तदुपयोगत्वेन सूत्रद्वयमुपन्यस्यति -अचस्तास्वत् । अधातोस्थलोऽभावाद्धातोरिति लभ्यते । 'अच ' इति तद्विशेषणम् । तदन्तविधिः । 'उपदेशेऽत्वत' इत्युत्तरसूत्रादुपदेश इत्यपकृष्यत इतिऋतो भारद्वाजस्ये॑ति सूत्रभाष्ये स्थितम् । उपदेशे अजन्तादित्यन्वयः । 'अनिट' इति बहुव्रीहेः पञ्चमी । नित्यमिड्विहीनादित्यन्वयः । 'तासि च कॢप' इत्यतस्तासीत्यनुवर्तते । तासौ नित्यमनिट इत्यन्वयः । थलीति षष्ठर्थे सप्तमी ।गमेरिट् परस्मैपदेष्वि॑त्यत इडिति,न वृद्भ्यश्चतुभ्र्य॑ इत्यतो नेति चानुवर्तते ।तास्व॑दिति सप्तम्यान्तद्वतिः । तदाह — उपदेशे योऽजन्त इत्यादि, इण्न स्यादित्यन्तम् ।तास्व॑ — दिति सेषः । यथा तासि नेट् तथा थल्यपि नेडित्यर्थः । चिचेथ जुहोथेत्याद्युदाहरणम् । अत्र क्रादिनियमप्राप्त इण्न भवति । अजन्तात्किम् । बिभेदिथ । उपदेश इति किम् । 'ह्मञ्' जहर्थ । इह गुणे रपरत्वेऽजन्तत्वाऽभावादिण्निषेधो न स्यादित्युपदेशग्रहणम् । नित्यग्रहणं किम् । 'स्वृ गतौ' सस्वरिथ ।स्वरितसूती॑ति तासौ विकल्पितेट्कत्वान्न निषेधः । तासौ किम् । लूत्वा लुलविथ । थलः किम् ।पपिव पिम । इह तासीत्यनुव#ऋत्त्यैव सिद्धेःतास्व॑दिति नातीवोपयुज्यत इति केचित् । वस्तुतस्तु यस्तासौ विद्यते तस्मादेव परस्य थल इण्निषेधार्थ तास्वदित्यावश्यकम् । तेनलिटन्यतरस्या॑मित्यदो घस्लृभावे जघसिथेत्यत्र न निषेधः, घसस्तासावभावादति — अद भक्षम इति धातौ मूल एव वक्ष्यते ।यस्तासावस्ति अनिट् चे॑ति भाष्यम् । एव वेञो वयादेशेऽपि न निषेध ति बोध्यम् । Tattvabodhini ------------- **अचस्तास्वत् थल्यनिटो नित्यम्** - अचस्तास्वत् । उत्तरसूत्रादुपदेश इत्यपकृष्यते, तच्चाऽजन्तस्य विशेषणमित्याह — उपदेशेऽजन्त इति । धातुरित्याक्षेपाल्लभ्यते । न ह्रधातोस्थल् संभवति । नित्यग्रहणमनिटो विशेषणम् । क्व नित्यमनिडित्यपेक्षायां संनिधानात्तासावेवेति विज्ञायते,तासि च कॢपःर॑ इति सन्निहितं वाऽनुवर्तते ।न वृद्भ्यः॑ इत्यस्मान्नेत्यनुवर्तते , तदाह — तासौ नित्यानिट् ततः परस्येत्यादि । तासाविव तास्वदिति सप्तम्यन्ताद्वतिः । यथा तासौ न भवति एवं थल्यपीत्यर्थः । अचेति किम् । बिभेदिथ । रुरोधिथ । उपदेशे इति किम् । जहर्थ । इह परत्वान्नित्यत्वच्च गुणे रपरत्वे च कृते अजन्तत्वाऽभावादेतस्याऽप्रवृत्ताविट् प्रसज्येतेत्युपदेश इत्युक्तम् । थलीति किम् । पपिव पपिम । नित्यमनिटः किम् । सस्वरिथ । सस्वर्थ । नाऽयं तासौ नित्यमनिट्,स्वरतिसूती॑ति विकल्पितेट्त्वात् । इह तासीति नेति चानुवृत्त्यैवेष्टसिद्धेस्तास्वदित्येतन्नातीवोपयुज्यत इति केचित् । अन्ये तु — यस्य तासौ विद्यमानत्वं तस्मादेव परस्य थल इण्निषेध इत्येतल्लाभार्थं तत् ।तेन उवयिथ, जघसिथेत्यत्र न निषेध इत्याहुः । Padamanjari ----------- यस्थलि क्रादिनियमादिट् प्राप्तः स निषिध्यते । पञ्चसूत्र्येत आरभ्य तास्वदित्येष डेर्वतिः ॥ उपदेशग्रहोऽप्यत्र वक्ष्यमाणोऽपकृष्यते । गुणे नित्ये कृतेऽप्येष ऋदन्ते प्राप्नुयात्कथम् ॥ क्व नित्यमनिट् इत्यपेक्षायां तासेः सन्निधानातत्रैवेति विज्ञायते, यद्वापूर्वसूत्रात् तासि इति वर्तते । यातेति । तासावनिट्प्रदर्शनार्थमुपन्यस्तम् । लूत्वेति । तास्वत् इत्यनुच्यमाने यत्र क्वापि नित्यानिटस्थलि प्रतिषेधः स्यात् । लुनातिश्चायम् र्श्युकः कितीति प्रतिषेधात्किति नित्यानिट्कः । ययिव, ययिमेति । आतो लोप इटि च । अनिड्ग्रहणं नित्यमित्यनेन विशेषणार्थमिति । असत्यनिड्ग्रहणे नित्यमित्यनेन प्रतिषेध तएव विश्ष्येत - नित्यमण्न भवतीति । यद्यप्यत्र विकल्पे न प्रकृतः, तथापीदमेव नित्यग्रहणं पूर्वस्व विधेरनित्यत्वं ज्ञापयेत् । सेड्निवृत्यर्थ त्वनिड्ग्रहणं न भवति, कथम् तास्वदित्युच्यते, यथा तासौ न भवति एवं थल्यपीति । न च यस्तासौ सेट् तस्य एथलि प्रतिषेधो भवन् तास्वत्कृतो भवति । विधोता, विधवितेति । स्वरत्यादिसूत्रेण तासाविड्विकल्पितः । एक्रमेरपि चक्रमिथेति भाव्यम्, न हि तासौ नित्यानिट् क्रमिः, आत्मनेपदे इडभावात्परस्मैपदे सेटत्वात् । तासौ विभाषेटस्थलि नित्यमिडागमो भवतीति । यावान्कश्चिदिडभावः प्रतिषेधनिबन्धनो विकल्पनिबन्धनो वा स सर्वः क्रादिसूत्रेण नियम्यते इत्यस्मिन्पक्षे इति भावः । यद् तु प्रतिषेधाधिकारेण क्रादीनामेवेण्न भवतीतिनियमात्प्रतिषेध एव सर्वो निवर्तते, स्वरत्यादि लक्षणस्तु विकल्पो भवत्येव इति पक्षः, तदा विदुधोथ, विदुधविथेत्युभयं भवति । यद्येवम्, नित्यमनिट इति न वक्तव्यमस्तुः यस्तासौ विकल्पितेट् तस्याप्ययं प्रतिषेधः ऋतो भारद्वाजस्य इति नियमाद्विकल्प एवावस्थास्यते नैवं शक्यम्, स्वरतौ हि दौषः स्यात् । भारद्वाजपक्षेऽपि तस्य प्रतिषेधात् सस्वर्थेत्येव स्यात् । यदा तु विकल्पितेटस्थलि प्रतिषेधोऽयं न भवति, तदा सस्वर्थ, सस्वरिथेत्युभयं भवति । तास्वदिति वतिनिर्देश इति । तास्वदित्यस्य निर्देश इत्यर्थः । तास्वदित्यनुच्यमाने प्रकृतस्य तासीत्यस्यानुवृतावप्येतावदेव लभ्येत - तासौ नित्यमनिटस्थलीण् न भवतीति, ततश्च यस्तासावसन, असत्वादेव नित्यानिट्, तस्यापि प्रसज्येत । तास्वदित्युच्यमाने तु वतेः सादृश्योगोचरात् । यथाभूतस्य तासौ नेट् तथाभूतस्य थल्यपि ॥ इटा न भाव्यमित्येष दोषो नैव प्रसज्यते । इटस्तास्यसतो धातोर्निषेधे विहिते थलि । अभावः सदृशो न स्यात् थलि तास्यसतो भवेत् ॥ अधसिथेति । स्थानिवद्भावात् इडत्यर्तिव्ययतीनाम् इत्येवैष सिद्ध इत्याहुः । थौतरसूत्रेऽपीति । एतेनोतरार्थं तास्वदित्युच्यत तैति दर्शयति । अदादेशो हीति । ननु चास्य स्थानी तासावस्ति, अस्ति चानिडिति तदादेशस्यापि स्थानिवद्भावात् सत्वानिट्त्वे स्याताम् नैतदस्ति, स्थानिवद्भावः शास्त्रीयेषु प्रवर्तते, न च तासौ सत्वं नाम शास्त्रीयं कार्यम् ॥ Nyaas ----- क्रादिनियमादिटि प्राप्तेज्जन्तानां तासौ नित्यानिटां थलि प्रतिषेधो विधीयते। `पाता` इत्यादि। लुडुपन्यासस्तासौ नित्यानिट्त्वप्रदर्शनार्थः`; अनिट्त्वं [`अनिट्प्रतिषेधात्` - इत्येव मुद्रितः पाठः] च `एकाचः` (7.2.10) इत्यादिनेट्? प्रतषेधात्। `लूत्वा, लुलविथ` इति। तास्वदिति वचनादिह न भवति प्रतिषेधः। तस्मस्वनुच्यमान[`तस्मसत्वनुच्यमान इहापि प्रतिषेध स्यात् - भवति, लुनाति। किति नित्यमनिटः `श्रयुकः किति` इति प्रतिषेधात्` - इति मुद्रितः पाठः] इहापि प्रतिषेधः स्यात्। भवति लुनातिः किति नित्यमनिट्। `श्रयुकः किति` (7.2.11) इति प्रतिषेधात्? `पपिव, पपिम` इति। **आतो लोप इटि च** (6.4.64) इत्याकारलोपः। `अनिङ्ग्रहणं नित्यमित्यनेन` इत्यादि। नित्यमित्यनेनानिट्त्वं धातोः कथं नाम विशेष्येतेत्येवमर्थमनिङ्ग्रहणमित्यर्थः। अथ सविता, लुलवथेति तासौ सेटस्थलौट्प्रतिषेधो मा भूदित्येवमर्थमनिड्ग्रहणं कस्मान्न भवति? नार्हत्येवमर्थं भवितुम्। तथा हि - तास्वत्? थलीण्न भवतीत्युच्यते; न च यस्तासौ सेट्? तस्य प्रतिषेधो भवंस्तास्वदिति व्यपदेष्टुं शक्यते, यो ह्रमिजभावस्थलि विधीयते तस्य तासाविडमावेनैव सादृश्यं वतिराचष्टे। एवं तु वतिग्रहणादेव तासौ सेटस्थलि प्रतिषेधो न भविष्यति; अन्यथा वतिना यत्? सादृश्यं समाख्ययते तन्न स्यात्। तस्माद्युक्तमुक्तेमेवानिद्ग्रणस्य प्रयोजनम्। अथाक्रयमाणेऽनिङ्ग्रहणे नित्यमिति कस्य विशेषणं विज्ञायते? प्रतिषेधस्य। ननु च नित्य एव प्रतिषेधः प्रकृतः, तत्र यदि नित्यग्रहणे न प्रतिषेधो विशिष्येत, तदा नित्यग्रहणमनर्थकं स्यात्? नैतदस्ति; पूर्वसूत्रे प्रतिषेधस्यानित्यत्वं यथा स्यादित्येवमर्थं स्यात्। अवं च पूर्वसूत्रेण पक्ष इडागमः स्यादेव। तस्मात्? पूर्वोक्तमेवानिड्ग्रहणस्य प्रयोजनम्। `तासौ विबाषितेट्` इति। स्वरत्यादिसूत्रेम (7.2.44) धूञ इङ्? विकल्पितः। तस्य नित्यग्रहणाद्विभाषितेटस्थलि नित्यमिडागमो भवति। असति च नित्यग्रहणे प्रतिषेधः स्यादेव। पाक्षिकेणापीडभावेनानिङ्व्यपदेशो भवत्येव। तथा हि - गुहेर्विभाषितेटोऽपि **शल इगुपधादनिटः क्सः** (3.1.45) इति क्सो भवत्येव - अधुक्षदिति। अथ वतिना निर्देशः किमर्थः, न तासावित्येवोच्येत? इत्यत आह - `तास्वत्` इत्यादि। असति वतिना निर्देशे योऽपि तासावसन्? असत्त्वाच्च नित्यमनिट्, तस्यापि थलि प्रतिषेधः स्यात्। वतिना निर्देशे तु सति, वतेः सर्वसादृश्यार्थत्वाद्यथाभूतस्य तासाविण्न भवति तथाभूतस्यैव थल्पपीटा न भवितव्यमिति न भवत्येव दोषप्रसङ्गः। यदि हि यस्तासावसत्? असत्त्वाच्च नित्यमनिट्? तस्यापि थलि प्रतिषेधः स्यात्। एवं च सति तसावसत इडभावः, इतरत्र तु सत इति यथाभूतस्य तासादिडभावस्तथाभूतस्थापि थलि न स्यात्। यो हि तासावसन्नसत्त्वाच्च नित्यमनिट्, तस्य थलि प्रतिषेदो न भवति - जघसिथेति - उत्तरसूत्रेणेत्यभिप्राय इत्यत आह - `उत्तरसूत्रेऽपि` इत्यादि। तदेवमुत्तरार्थो वतिना निर्देशोऽयं भवति। इह तु नार्थो वतिनिर्देशेन, अनजन्तत्वादेव घसेर्वयेश्च परतिषेधो न भवतीति। `जघसिथ` इति। `लिटन्यतरस्याम्` (2.4.4।0) इत्यदेर्घस्लादेशः। `उदयिथ` इति। **वेञो वयिः** (2.4.41) इति वयिरादेशः; `लिटभ्यासस्योभथेषाम्` (6.1.17) इति सम्प्रसरणम्। कस्मात्? पूनर्घसेः, वयेश्च तासावसत्त्वान्नित्यानिट्त्वम्? इत्याह - `अदादेशो हि` इत्यादि। नास्तित्वं तयोः पुनस्तासावविधानाद्वेदितव्यम्॥ Prakriyasarvasvam ----------------- अजन्तो यो धातुस्तासौ नित्यमनिट्, ततः परस्य थलस्तासौ इव इट् न स्यात् ।