72019: धृषिशसी वैयात्ये

Padacheda: धृषिशसी | S | 1 | 2 |

वैयात्ये | S | 7 | 1 |

Sutrartha


Vasu English Summary

The participial affix does not get इट् augment after the roots 1. धृष् and 2. शस् when meaning ‘bold, impudent and arrogant’.

Vasu English Translation

The participial affix does not get इट् augment after the roots 1. धृष् and 2. शस् when meaning ‘bold, impudent and arrogant’. As धृष्टः, विशस्तः ॥ The root धृष् is exhibited in the Dhatupatha as ञिधृषा ‘to be impudent’ (5.2.2), and as it has an indicatory आ, its past participle would be अनिट् by (7.2.16). शस् is शसु in the Dhatupatha (1.763), and as it has an indicatory उ by (7.2.56). read with (7.2.15), its Nishtha is also Anit. The special mention of these roots here, is for the sake of making a niyama rule; namely, अनिट् only then when meaning ‘impudent’, and सेट् in other senses : as धर्षितः, विशसितः “धृष् never forms past participle with the force of भाव (Impersonal action) or आदिकर्म (beginning of action), and therefore (7.2.17) cannot apply to it” - This is *Kasika. According to Bhattoji Dikshit who quotes Haradatta and *Madhava_, धृष् forms participles in those senses, when option is allowed, as, धृष्टं or धर्षितं, प्रधृष्टः or प्रधर्षितः not meaning ‘impudent’.

Bhashya

धुषिशसी वैयात्ये किमिदं वैयात्य इति ? ॥ वियातभावो(1) वैयात्यम् ॥

Kashika

वियातस्य भावो वैयात्यम्, प्रागल्भ्यम्, अविनीतता। तत्र धृष् शस् इत्येतयोर्निष्ठायामिडागमो न भवति। धृष्टोऽयम्। विशस्तोऽयम्। धृषेः आदितश्च (७.२.१६) इति प्रतिषेधः सिद्ध एव, शसेरपि उदितो वा (७.२.५६), यस्य विभाषा (७.२.१५) इति? नियमार्थं वचनम्। धृषिशस्योर्वैयात्य एवेड् न भवति। भावादिकर्मणोरपि वैयात्ये धृषिर्नास्ति। धृष्टः। विशस्तः। वैयात्य इति किम्? धर्षितः। विशसितः॥

Siddhanta Kaumudi

एतौ निष्ठायामविनये एवानिटौ स्तः । धृष्टः । विशस्तः । अन्यत्र धर्षितः । विशसितः । भावादिकर्मणोस्तु वैयात्ये धृषिर्नास्ति । अत एव नियमार्थमिदं सूत्रमिति वृत्तिः । धृषेरादित्त्वे फलं चिन्त्यमिति हरदत्तः । माधवस्तु भावादिकर्मणोरवैयात्ये विकल्पमाह । धृष्टम् । धर्षितम् । प्रधृष्टः । प्रधर्षितः ॥

Balamanorama

धृषिशसी वैयात्ये - धृषिशसी । वियातः = अविनीतः, तस्य भावो वैयात्यम् । तत्रञि धृषा प्रागल्भ्ये॑ इत्यस्य आदित्तवादेवेण्निषेधः सिद्धः,शसु हिंसाया॑मित्यस्य तुउदितो वे॑ति क्त्वायां वेट्कत्वात्यस्य विभाषे॑तीण्निषेधः सिद्धः, अतो नियमार्थमित्याह — अविनय एवेति । धृष्टो विशस्त इति । अविनीत इत्यर्थः । अन्यत्रेति । वैयात्याऽभावे इत्यर्थः । धर्षित इति । बालात्कृत इत्यर्थः । विससित इति । हिंसित इत्यर्थः । अत्र वैयात्याऽभावादिण्निषेधो नेति भावः । ननु धृषेरादित्त्वात्विभाषा भावादिकर्मणो॑रिति भावे आदिकर्मणि च इड्विकल्पे प्राप्ते तदंशे नित्यार्थोऽत्र विधिरस्तु, ततश्च भावादिकर्मभ्यामन्यत्र वैयात्याऽभावेऽपिआदितश्चे॑तीण्निषेद एव स्यादित्यत आह — भावादिकर्मणोस्त्विति । नास्तीति । अनभिधानादिति भावः । तत्र वृद्धसंमतिमाह — अत एवेति । भावकर्मणोर्धृषेरनभिधानादेवेत्यर्थः । अन्यथा धृषेरादित्त्वात्विभाषा भावादिकर्मणो॑रिति भावे आदिकर्मणि च इड्विकल्पे प्राप्ते तदंशे नित्यार्थतया विधानार्थत्वापत्तेरिति भावः । चिन्त्यमिति । धृषेरादित्त्वं हि नवैयात्ये आदित्त्वलक्षणेण्निषेधार्थं , ‘धृषिशसी वैयात्ये’ इत्येव सिद्धेः, नापि वैयात्यादन्यत्र आदित्त्वलक्षणेण्निषेधार्थम्, धृषेर्वैयात्य एव इष्निषेधनियमेन ततोऽन्यत्र आदित्त्वलक्षणनिषेधाऽभावात् । नापि धृषेर्वैयात्ये भावादिकर्मणोर्विषयेविभाषा भावादिकर्मणो॑रिति इड्विकल्पार्थं, भावादिकर्णोर्वैयात्ये धृषेरनभिधानात् । तस्माद्धृषेरादित्त्वं व्यर्थमिति हरदत्त आहेत्यर्थः । माध्वस्त्विति । अवैयात्ये भावादिकर्मणोरनभिधाने प्रमाणाऽभावादिति भावः । तत्र अवैयात्ये भावे उदाहरति — धृष्टं धर्षितमिति । आदिकर्मण्युदाहरति — प्रधृष्टओः प्रधर्षित इति ।

Tattvabodhini

धृषिशसी वैयात्ये - धृषिशसी । ञिधृषा प्रागल्भे । शसु हिंसायाम् । अनयोःआदितश्च॑यस्य विभाषे॑ति सूत्राभ्यामिट्प्रतिषेधे सिद्धेऽप्यनयोर्वैयात्य एवाऽनिट्त्वं नान्यत्रेति नियमार्थमित्याह - अविनये एवेति । विरुद्धं यातो वियातः = अविनीतः, तस्य भावो वैयात्यम् । ननु धृषेःविभाषा भावादिकर्मणो॑रिति विकल्पे प्राप्ते नित्यार्थं कस्मान्न भवतीत्याशङ्कायामाह — नास्तीति । अनभिधानादिति भावः । अत्र प्रमाणमाह — अत एवेति । माधवस्त्विति । एवं च आदित्त्वस्य फलवत्तवाद्धरदत्तोक्तं यच्चिन्त्यं तदेव चिन्त्यमिति भावः ।

Padamanjari

एञिधृषा प्रागल्भ्ये, शसु हिंसायाम्, षष्ठ।ल्र्थे प्रथमा । विरुपं यातम् - ग्मनम्, चेष्टतं यस्य स वियातः - अविनीतः । शसेरपीत्यादौ ग्रन्थे इट्प्रतिषेधः सिद्ध इत्यनुषङ्गः । अथ धृषेः विभाषा भावादिकर्मणोः इति विकल्पे प्राप्ते नित्यार्थं ग्रहणं कस्मान्न भवति तत्राह - भावादिकर्मणोरपीति । एवं चास्य आदित्वे प्रयोजनं चिन्त्यम् । धर्षितः - अभिभूतः पूर्ववदकित्वम् । विशसितः - विकृतः ॥

Nyaas

वियातस्य भावो वैयात्यम् इति। यातम्=यातिः, प्राप्तिः विरूपं यातं यस्यासन्मार्गविषयत्वात्? स वियातः=अविनीत इत्युच्यते; तद्भावो वैयात्यम्। ब्राआहृणादित्वात्? (5.1.123) ष्यञ्। षुष्टः इति। ञि धृषा प्रगल्भ्ये (धातुपाठः-1269)। विश्तः इति। शसु हिंसायाम् (धातुपाठः-727), शसेरपि उदतो वा (7.2.56) इति विकल्पविधानात्? यस्य विभाषा (7.2.15) इतीट्प्रतिषेधः सिद्ध एवेति सम्बध्यते। यदि तर्हि सिद्ध एव प्रतिषेधः तत्? किमर्थं वचनम्? इत्याह - नियमार्थम् इत्यादि। वैयात्य एव वर्तमानोर्यथा स्यात्, अन्यत्र मा भूत्। अथ धृषेः विभाषा भादिवादिकर्मणोः (7.2.17) इति विकल्पे प्राप्ते नित्यार्थ वचनमिति कस्मान्न भवति? इत्याह - भावादिकर्णणोरप , इत्यादि। अत्र चाभित्रानशक्तिस्वाभाव्यं हेतः। `धार्षितः इति। `धर्षितः इति। पूर्ववत्? कित्त्वे प्रतिषिद्दे गूणः॥

Sutra Prayogas

  • धृष्टान् (भट्टिकाव्यम्): धृपि - शसी वैयात्ये इति इट्प्रतिषेधः।