72019: धृषिशसी वैयात्ये ======================= **Padacheda:** धृषिशसी | S | 1 | 2 | वैयात्ये | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The participial affix does not get इट् augment after the roots 1. धृष् and 2. शस् when meaning 'bold, impudent and arrogant'. Vasu English Translation ------------------------ The participial affix does not get इट् augment after the roots 1. धृष् and 2. शस् when meaning 'bold, impudent and arrogant'. As धृष्टः, विशस्तः ॥ The root धृष् is exhibited in the *Dhatupatha* as ञिधृषा 'to be impudent' (5.2.2), and as it has an indicatory आ, its past participle would be अनिट् by (7.2.16). शस् is शसु in the *Dhatupatha* (1.763), and as it has an indicatory उ by (7.2.56). read with (7.2.15), its *Nishtha* is also *Anit*. The special mention of these roots here, is for the sake of making a *niyama* rule; namely, अनिट् only then when meaning 'impudent', and सेट् in other senses : as धर्षितः, विशसितः "धृष् never forms past participle with the force of भाव (Impersonal action) or आदिकर्म (beginning of action), and therefore (7.2.17) cannot apply to it" - *This is *Kasika*. According to *Bhattoji* *Dikshit* who quotes *Haradatta* and *Madhava_, धृष् forms participles in those senses, when option is allowed, as, धृष्टं or धर्षितं, प्रधृष्टः or प्रधर्षितः not meaning 'impudent'. Bhashya ------- धुषिशसी वैयात्ये किमिदं वैयात्य इति ? ॥ वियातभावो(1) वैयात्यम् ॥ Kashika ------- वियातस्य भावो वैयात्यम्, प्रागल्भ्यम्, अविनीतता। तत्र धृष् शस् इत्येतयोर्निष्ठायामिडागमो न भवति। धृष्टोऽयम्। विशस्तोऽयम्। धृषेः **आदितश्च** (७.२.१६) इति प्रतिषेधः सिद्ध एव, शसेरपि **उदितो वा** (७.२.५६), **यस्य विभाषा** (७.२.१५) इति? नियमार्थं वचनम्। धृषिशस्योर्वैयात्य एवेड् न भवति। भावादिकर्मणोरपि वैयात्ये धृषिर्नास्ति। धृष्टः। विशस्तः। वैयात्य इति किम्? धर्षितः। विशसितः॥ Siddhanta Kaumudi ----------------- एतौ निष्ठायामविनये एवानिटौ स्तः । धृष्टः । विशस्तः । अन्यत्र धर्षितः । विशसितः । भावादिकर्मणोस्तु वैयात्ये धृषिर्नास्ति । अत एव नियमार्थमिदं सूत्रमिति वृत्तिः । धृषेरादित्त्वे फलं चिन्त्यमिति हरदत्तः । माधवस्तु भावादिकर्मणोरवैयात्ये विकल्पमाह । धृष्टम् । धर्षितम् । प्रधृष्टः । प्रधर्षितः ॥ Balamanorama ------------ **धृषिशसी वैयात्ये** - धृषिशसी । वियातः = अविनीतः, तस्य भावो वैयात्यम् । तत्रञि धृषा प्रागल्भ्ये॑ इत्यस्य आदित्तवादेवेण्निषेधः सिद्धः,शसु हिंसाया॑मित्यस्य तुउदितो वे॑ति क्त्वायां वेट्कत्वात्यस्य विभाषे॑तीण्निषेधः सिद्धः, अतो नियमार्थमित्याह — अविनय एवेति । धृष्टो विशस्त इति । अविनीत इत्यर्थः । अन्यत्रेति । वैयात्याऽभावे इत्यर्थः । धर्षित इति । बालात्कृत इत्यर्थः । विससित इति । हिंसित इत्यर्थः । अत्र वैयात्याऽभावादिण्निषेधो नेति भावः । ननु धृषेरादित्त्वात्विभाषा भावादिकर्मणो॑रिति भावे आदिकर्मणि च इड्विकल्पे प्राप्ते तदंशे नित्यार्थोऽत्र विधिरस्तु, ततश्च भावादिकर्मभ्यामन्यत्र वैयात्याऽभावेऽपिआदितश्चे॑तीण्निषेद एव स्यादित्यत आह — भावादिकर्मणोस्त्विति । नास्तीति । अनभिधानादिति भावः । तत्र वृद्धसंमतिमाह — अत एवेति । भावकर्मणोर्धृषेरनभिधानादेवेत्यर्थः । अन्यथा धृषेरादित्त्वात्विभाषा भावादिकर्मणो॑रिति भावे आदिकर्मणि च इड्विकल्पे प्राप्ते तदंशे नित्यार्थतया विधानार्थत्वापत्तेरिति भावः । चिन्त्यमिति । धृषेरादित्त्वं हि नवैयात्ये आदित्त्वलक्षणेण्निषेधार्थं , 'धृषिशसी वैयात्ये' इत्येव सिद्धेः, नापि वैयात्यादन्यत्र आदित्त्वलक्षणेण्निषेधार्थम्, धृषेर्वैयात्य एव इष्निषेधनियमेन ततोऽन्यत्र आदित्त्वलक्षणनिषेधाऽभावात् । नापि धृषेर्वैयात्ये भावादिकर्मणोर्विषयेविभाषा भावादिकर्मणो॑रिति इड्विकल्पार्थं, भावादिकर्णोर्वैयात्ये धृषेरनभिधानात् । तस्माद्धृषेरादित्त्वं व्यर्थमिति हरदत्त आहेत्यर्थः । माध्वस्त्विति । अवैयात्ये भावादिकर्मणोरनभिधाने प्रमाणाऽभावादिति भावः । तत्र अवैयात्ये भावे उदाहरति — धृष्टं धर्षितमिति । आदिकर्मण्युदाहरति — प्रधृष्टओः प्रधर्षित इति । Tattvabodhini ------------- **धृषिशसी वैयात्ये** - धृषिशसी । ञिधृषा प्रागल्भे । शसु हिंसायाम् । अनयोःआदितश्च॑यस्य विभाषे॑ति सूत्राभ्यामिट्प्रतिषेधे सिद्धेऽप्यनयोर्वैयात्य एवाऽनिट्त्वं नान्यत्रेति नियमार्थमित्याह - अविनये एवेति । विरुद्धं यातो वियातः = अविनीतः, तस्य भावो वैयात्यम् । ननु धृषेःविभाषा भावादिकर्मणो॑रिति विकल्पे प्राप्ते नित्यार्थं कस्मान्न भवतीत्याशङ्कायामाह — नास्तीति । अनभिधानादिति भावः । अत्र प्रमाणमाह — अत एवेति । माधवस्त्विति । एवं च आदित्त्वस्य फलवत्तवाद्धरदत्तोक्तं यच्चिन्त्यं तदेव चिन्त्यमिति भावः । Padamanjari ----------- एञिधृषा प्रागल्भ्ये, शसु हिंसायाम्, षष्ठ।ल्र्थे प्रथमा । विरुपं यातम् - ग्मनम्, चेष्टतं यस्य स वियातः - अविनीतः । शसेरपीत्यादौ ग्रन्थे इट्प्रतिषेधः सिद्ध इत्यनुषङ्गः । अथ धृषेः विभाषा भावादिकर्मणोः इति विकल्पे प्राप्ते नित्यार्थं ग्रहणं कस्मान्न भवति तत्राह - भावादिकर्मणोरपीति । एवं चास्य आदित्वे प्रयोजनं चिन्त्यम् । धर्षितः - अभिभूतः पूर्ववदकित्वम् । विशसितः - विकृतः ॥ Nyaas ----- `वियातस्य भावो वैयात्यम्` इति। यातम्=यातिः, प्राप्तिः विरूपं यातं यस्यासन्मार्गविषयत्वात्? स वियातः=अविनीत इत्युच्यते; तद्भावो वैयात्यम्। ब्राआहृणादित्वात्? (5.1.123) ष्यञ्। `षुष्टः` इति। `ञि धृषा प्रगल्भ्ये` (धातुपाठः-1269)। `विश्तः` इति। `शसु हिंसायाम्` (धातुपाठः-727), शसेरपि `उदतो वा` (7.2.56) इति विकल्पविधानात्? **यस्य विभाषा** (7.2.15) इतीट्प्रतिषेधः सिद्ध एवेति सम्बध्यते। यदि तर्हि सिद्ध एव प्रतिषेधः तत्? किमर्थं वचनम्? इत्याह - `नियमार्थम्` इत्यादि। वैयात्य एव वर्तमानोर्यथा स्यात्, अन्यत्र मा भूत्। अथ धृषेः `विभाषा भादिवादिकर्मणोः` (7.2.17) इति विकल्पे प्राप्ते नित्यार्थ वचनमिति कस्मान्न भवति? इत्याह - `भावादिकर्णणोरप , इत्यादि। अत्र चाभित्रानशक्तिस्वाभाव्यं हेतः। `धार्षितः` इति। `धर्षितः इति। पूर्ववत्? कित्त्वे प्रतिषिद्दे गूणः॥ Sutra Prayogas -------------- * **धृष्टान्** (भट्टिकाव्यम्): `धृपि - शसी वैयात्ये` इति इट्प्रतिषेधः।