71102: उदोष्ठ्यपूर्वस्य

Padacheda: उत् | S | 1 | 1 |

ओष्ठ्यपूर्वस्य | S | 6 | 1 |

Sutrartha

यस्मिन् धातौ अन्ते दीर्घः ॠकारः अस्ति, तस्मात् पूर्वः च ओष्ठ्यवर्णः अस्ति, तस्य धातोः ॠकारस्य उकारादेशः भवति ।

‘ओष्ठ्यवर्णः’ इत्युक्ते सः वर्णः यस्य उच्चारणार्थम् ओष्ठयोः प्रयोगः क्रियते । उपूपध्मानीयानाम् ओष्ठौ अनेन वचनेने पवर्गः, उकारः तथा उपध्मानीयः ओष्ठ्यवर्णाः सन्ति । एतेषु कश्चन एकः ऋकारान्त-धातोः उपधायामस्ति चेत् तस्य धातोः ऋकारस्य ऋत इद्धातोः (7.1.100) इत्यनेन प्राप्तम् इकारादेशं बाधित्वा वर्तमानसूत्रेण ‘उकारादेशः’ विधीयते । यथा, ‘पॄ’ (पालनपोषणयोः) इति जुहोत्यादिगणस्य धातुः । अस्य क्त-प्रत्यये परे इयम् प्रक्रिया जायते - पॄ + क्त [निष्ठा (3.2.102) इति क्त-प्रत्ययः] → पुर् त [ॠत इद्धातोः (7.1.100) इति ॠकारस्य इकारे प्राप्ते अपवादत्वेन उदोष्ठ्यपूर्वस्य (7.1.102) इति ऋकारस्य उकारः । उरण् रपरः (1.1.51) इति सः रपरः] → पूर् त [हलि च (8.2.77) इति उपधादीर्घः] → पूर्त [रदाभ्यां निष्ठातो नः पूर्वस्य च दः (8.2.42) इति तकारस्य नकारे प्राप्ते न ध्याख्यापॄमूर्च्छिमदाम् (8.2.57) इति तस्य निषेधः] अत्र एकं वार्तिकं ज्ञातव्यम् - <!इत्वोत्वाभ्यां गुणवृद्धी विप्रतिषेधेन !> । इत्युक्ते, गुणः / वृद्धिः इत्यस्य तथा इत् / उत् इत्यस्य - उभयोः कार्ययोः समानस्थले प्रसक्तिः अस्ति चेत् गुण/वृद्धिः एव भवति । यथा, पॄ अस्य धातोः ण्वुल्-प्रत्ययान्तरूपस्य प्रक्रिया इयम् - पॄ + ण्वुल् [ण्वुलृतृचौ (3.1.133) इति ण्वुल्-प्रत्ययः] → पॄ + अक [युवोरनाकौ (7.1.1) इति वु-इत्यस्य अक-आदेशः] अत्र उदोष्ठ्यपूर्वस्य (7.1.102) इत्यनेन ॠकारस्य उर्-आदेशः विधीयते । तथा च, अचो ञ्णिति (7.2.115) इत्यनेन अङ्गस्य वृद्धि-आदेशः अपि विधीयते । एतयोः द्वयोः कार्ययोः**उदोष्ठ्यपूर्वस्य** (7.1.102)इत्यनेन निर्दिष्टः उर्-आदेशः ‘अन्तरङ्गः’ अस्ति, अतः पूर्वपरनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः अनया परिभाषया तस्यैव प्रसक्तिः स्यात् । परन्तु <!इत्वोत्वाभ्यां गुणवृद्धी विप्रतिषेधेन !> अनेन वार्तिकेन एतत् निर्दिश्यते यत् उत्-आदेशस्य तथा च गुणादेशस्य (नो चेत् वृद्ध्यादेशस्य) च समानस्थले प्रयोगः सम्भवति चेत् गुणादेशः (वृद्ध्यादेशः वा) एव भवति । अतः अत्र ऋकारस्य वृद्ध्यादेशे आकारः विधीयते, स च उरण् रपरः (1.1.51) इति रपरः भवति । → पार् + अक [ अचो ञ्णिति (7.2.115) इति वृद्धि-एकादेशः, सः च उरण् रपरः (1.1.51) इति रपरः] → पारक

Sutrartha (English)

If a verb root ends in a दीर्घ ॠकार before which an ओष्ठ्य letter is present, the ॠकार of that verb root is converted to उकार.

Vasu English Summary

उर् is substituted for the long ॠ of a root when it is preceded by a labial consonant belonging to the root.

Vasu English Translation

उर् is substituted for the long ॠ of a root when it is preceded by a labial consonant belonging to the root. As पूर्त and पुपूर्षति from पॄ, so also मुमूर्षति ॥ The lengthening is by (8.2.77). The rule applies when the dento-labial व precedes: as वुवूर्षति ऋत्विजम् from वॄ; so also प्रावुवूर्षति कम्बलम् ॥ The labial consonant must be the consonant of the root. Therefore when ॠ ‘to go’ is preceded by सम्, the rule will not apply, for म् is not part of the root: as समीर्णम् by (7.1.100).

Vart:- The Guna and Vriddhi do take place in supersession of इर् and उर् substitution. Thus आस्तरणम् and आस्तारकः (from स्तॄ with ल्युट् and ण्वुल्), निपरणम्, निपारकः from पॄ, निगरणम्, निगारकः from गॄ ॥

Bhashya

उदोष्ठ्यपूर्वस्य उपधायाश्च ॥ ॠत इद्धातोः ॥ ॥ इत्त्वोत्त्वाभ्यां(1) गुणवृद्धी विप्रतिषेधेन ॥ इत्वोत्वाभ्यां गुणवृद्धी भवतो विप्रतिषेधेन । इत्त्वोत्त्वयोरवकाशः - आस्तीर्णम्(2) । निपूर्ताः पिण्डाः । गुणवृद्ध्योरवकाशः - चयनं चायकः । लवनं लावकः । इहोभयं प्राप्नोति आस्तरणम्, आस्तारकः(2) । निपरणं निपारकः । - गुणवृद्धी भवतो विप्रतिषेधेन ॥ अयुक्तोऽयं विप्रतिषेधो योऽयं गुणस्येत्त्वोत्वयोश्च ॥ कथम् ? ॥ नित्यो गुणः ॥ इति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते महाभाष्ये (शब्दानुशासने) सप्तमस्य प्रथमे द्वितीयमाह्निकम् ॥ पादश्च समाप्तः ॥ 7.1.1 ॥

Kashika

ओष्ठ्यः पूर्वो यस्माद् ॠकारादसावोष्ठ्यपूर्वः, तदन्तस्य धातोरङ्गस्य उकारादेशो भवति। पूर्ताः पिण्डाः। पुपूर्षति। मुमूर्षति। दन्त्योष्ठ्यपूर्वोऽप्योष्ठ्यपूर्वो भवतीत्यत्रापि भवति — वुवूर्षति ऋत्विजम्, प्रावुवूर्षति कम्बलम्। ओष्ठ्यो ह्यत्र प्रत्यासत्तेरङ्गावयव एव गृह्यते, तेन ॠ गतौ इत्यस्य संपूर्वस्य समीर्णमिति भवति॥ इत्त्वोत्त्वाभ्यां गुणवृद्धी भवतो विप्रतिषेधेन॥ आस्तरणम्। आस्तारकः। निपरणम्। निपारकः। निगरणम्। निगारकः॥

Siddhanta Kaumudi

अङ्गावयवौष्ठ्यपूर्वो य ॠत्तदन्तस्याङ्गस्य उत्स्यात् । गुणवृद्धी परत्वादिमं बाधेते । पिपर्ति । उत्वम् । रपरत्वम् । हलि च (SK354) इति दीर्घः । पिपूर्तः । पिपुरति । पपार । किति लिटि ॠच्छात्यॄताम् (SK2383)ल इति गुणे प्राप्ते ॥

Laghu Siddhanta Kaumudi

अङ्गावयवौष्ठ्यपूर्वो य ॠत् तदन्तस्याङ्गस्य उत् स्यात्॥

Balamanorama

उदोष्ठ्यपूर्वस्य - उदोष्ठ ।ऋत इद्धातो॑रित्त ऋत इत्यनुवर्तते । अङ्गस्येत्यधिकृतमिहानुवृत्तमावर्तते । एकमवयवषष्ठन्तमोष्टयस्य विशेषणम् । अपरं तु ऋता विशेष्यते । तदन्तविधिः । तदाह — अङ्गावयववौष्ठएत्यादिना । अङ्गावयवेति किम् । समीर्णः । ‘ऋ गतौ’ क्र्यादिः । तस्मात्संपूर्वात् क्तप्रत्यये श्र्युकः किती॑तीण्निषेधेऋत इद्धातो॑रिति इत्त्वे रपरत्वेहलि चे॑ति दीर्घेरदाभ्या॑मिति निष्टानत्वे तस्य णत्वे समीर्ण ति रूपम् । तत्र मकारात्मकौष्टपूर्वत्वादित्त्वं बाधित्वा उत्त्वं स्यात् ।अङ्गावयवे॑त्युक्तौ तु मकारस्य ओष्ठस्य अङ्गावयवत्वाऽभावादुत्त्वं न भवति । तथा च प्रकृतेऽपि पृतीत्यत्र इदमुत्त्वं स्यादिति शङ्का प्राप्ता । तां परिहरति — गुणवृद्धी इति । इममिति । उत्त्वविधिमित्यर्थः । पिपर्तीति । उत्त्वात्परकत्वाद्गुण इति भावः । पिपृ तस् इति स्थिते आह -उत्त्वमिति । ङित्त्वेन गुणाऽभावादुदोष्ठएत्युत्त्वमिति भावः । पिपुरतीति । अभ्यस्तत्वाददादेशे ङित्त्वाद्गुणाऽऽभावादुत्त्वमिति भावः । पिपर्षि पिपूर्थ । पिपर्मि पिपूर्वः । पिपूर्मः । लिटि णल्याह — पपारेति । उत्त्वात्परत्वाद्वृद्धिरिति भावः ।अर्तिपिपत्र्योश्चे॑त्यभ्यासस्य नेत्त्वम्, तत्र श्लावित्यनुवृत्तेः । प्राप्ते इति । गुणे नित्यं प्राप्ते इत्यर्थः ।

Tattvabodhini

उदोष्ठ्यपूर्वस्य - उदोष्ठ । अह्गावयवेति किम् ।ऋ गतौ॑ क्र्यादिस्तस्मात् क्तप्रत्ययेश्र्युकः किती॑ति इण्निषेधात्समीर्ण इति भवति । अन्यथा तुसमूर्ण॑ इति स्यात् ।

Padamanjari

पूती इति । पृ पालनपूरणयोः न ध्याख्यापृमुर्च्छिमदाम् इति निष्ठानत्वप्रतिषेधः । मुमूर्षतीति । मृङ् प्राणत्यागे । सुस्मूर्षतीति । स्मृ चिन्तायाम् । सुस्वूर्षतीति पाठे स्वृ शब्दोपतापयोः, सनीवन्तर्ध इत्यादिनेडभावपक्षे रुपम् । पुर्व एव तु युक्तः पाठः, पृथगुदाहरणस्य वक्ष्यमाणत्वात् । दन्त्योष्ठ।ल्पूर्वोऽपीत्यादि । ओष्ठ।ल्त्वमात्रं विवक्षितं नेतरव्यावृत्तिरिति भावः । ओष्ठ।लेऽत्रेत्यादि । यथा हलः इत्यत्राङ्गेन हल् विशेष्यते, तेन सम्प्रसारणम्, तेन च पुनरङ्गम तथेहाप्यङ्गस्यावयव ओष्ठयः पूर्वो यस्मातदन्तस्याङ्गस्येति । इत्वोत्वाभ्यामित्यादि । इत्वोत्वयोर्दर्शितान्युदाहरणान्यवकाशः, गुणवृद्ध्योरवकाशः - चयनं चायकः, उभयप्रसङ्गे विप्रतिषेधः । आस्तरणमिति । नात्र गुणस्य नित्यत्वम् लक्षणभेदात् । पूर्वं हीगन्तलक्षणो गुणः प्राप्नोति, इत्वोत्वयोः कृतयोर्लघूपधलक्षणः ॥

Nyaas

ॠत इद्धातोः] (7.1.100) इतीत्त्वे प्राप्त उत्त्वं विधीयते। `पूर्त्तः [पूर्त्ताः - काशिका, पदमञ्जरी च] इति। पृ? पालनपूरणयोः (धातुपाठः-1086), क्तः। न ध्याख्या (8.2.57) इत्यादिना प्रतिविषद्धत्वान्न निष्ठानत्वं भवति। वुवूर्षति इति। वृ? वरणे (धातुपाठः-1490)। मुमूर्षति इति। मृ? हिंसायाम् (धातुपाठः-1492)। सूस्वूर्षति इति। स्थृ? शब्दोपतापयोः (धातुपाठः-932), अज्झनगमां सनि (6.4.16) इति दीर्घत्वं ऋकारान्तत्वमस्य। अथेह कथमुत्त्वम् - वृङ्? सम्भक्तौ (धातुपाठः-1509), वृञ्? वरणे (धातुपाठः-1254) - प्रावुवूर्षते, प्रावुवूर्षतीति, न ह्यत्र ऋकार ओष्ठपूर्वः किं तर्हि? दन्त्योष्ठपूर्वं इति? तदेतदाह - दन्त्यौष्ठपुर्वोऽप्योष्ठपूर्वो भवति इत्यादि। यो ह्रुभयस्थाने निष्पद्यते लभतेऽसावन्यतरव्यपदेशम्। तेन दन्त्यौष्ठओ यो भवति सोऽप्योष्ठओ भवत्येव। दन्त्यौष्ठपूर्वोऽपयोष्ठपूर्व एव। अथ समीर्णमित्यत्र कस्मान्नि भवति, अस्ति ह्यत्राप्योष्ठग्रपूर्वता? इत्याह - ओष्ठओ ह्यत्र इत्यादि। ओष्ठओ ह्यत्राङ्गावयवोऽपि। तत्रेह प्रत्यासत्तेरङ्गावयवो गृह्रते, नोपसर्गवयवः। प्रत्यासन्नत्वं पुनाप्रसङ्गस्य प्रकृतत्वात्? उपसर्गस्य तु नास्ति प्रत्यासन्नत्वम्; विपर्ययात्। इत्त्वोत्त्वाभ्याम् इत्यादि। इत्त्वोत्त्वयोरवकाशः - आस्तीर्णम्, पूर्त इति; गुणवृद्ध्योरवकाशः - चयनम्, चायक इति; इहोमयं प्राप्नोति - आस्तरणम्, आस्तारकः, निपरणम्, निपारक इति, अत्र गुणवृद्धी भवतो विप्रतिषेधेन॥

Prakriyasarvasvam

अङ्गगतौष्ठ्यपूर्वो य ऋकारस्तदन्तस्य धातोरुत् स्यात् । पुर् त । ‘हलि च’ (८-२-७७) इति दीर्घः । पूर्तः । ‘राल्लोप’ (६-४-२१) इति छलोपः । मूर्त्तः । मत्तः ॥

Sutra Prayogas

  • मुमूर्षया (भट्टिकाव्यम्): मृङः सनि उदोष्ठ्यपूर्वस्य इत्युत्वम् ।

  • प्रावुवूर्षु (भट्टिकाव्यम्): उदोष्ट्यपूर्वस्य इत्युत्वम्।

  • सुस्मूर्षमाणो (भट्टिकाव्यम्): उदोष्ठ्यपूर्वस्य इत्युत्त्वम्।

  • संवुवूर्षुः (भट्टिकाव्यम्): उदोष्ठ्यपूर्वस्य इत्युत्वपक्षे गुण एव ।