71102: उदोष्ठ्यपूर्वस्य ======================= **Padacheda:** उत् | S | 1 | 1 | ओष्ठ्यपूर्वस्य | S | 6 | 1 | Sutrartha --------- **यस्मिन् धातौ अन्ते दीर्घः ॠकारः अस्ति, तस्मात् पूर्वः च ओष्ठ्यवर्णः अस्ति, तस्य धातोः ॠकारस्य उकारादेशः भवति ।** 'ओष्ठ्यवर्णः' इत्युक्ते सः वर्णः यस्य उच्चारणार्थम् ओष्ठयोः प्रयोगः क्रियते । **उपूपध्मानीयानाम् ओष्ठौ** अनेन वचनेने पवर्गः, उकारः तथा उपध्मानीयः ओष्ठ्यवर्णाः सन्ति । एतेषु कश्चन एकः ऋकारान्त-धातोः उपधायामस्ति चेत् तस्य धातोः ऋकारस्य **ऋत इद्धातोः** (7.1.100) इत्यनेन प्राप्तम् इकारादेशं बाधित्वा वर्तमानसूत्रेण 'उकारादेशः' विधीयते । यथा, 'पॄ' (पालनपोषणयोः) इति जुहोत्यादिगणस्य धातुः । अस्य क्त-प्रत्यये परे इयम् प्रक्रिया जायते - पॄ + क्त [**निष्ठा** (3.2.102) इति क्त-प्रत्ययः] → पुर् त [**ॠत इद्धातोः** (7.1.100) इति ॠकारस्य इकारे प्राप्ते अपवादत्वेन **उदोष्ठ्यपूर्वस्य** (7.1.102) इति ऋकारस्य उकारः । **उरण् रपरः** (1.1.51) इति सः रपरः] → पूर् त [**हलि च** (8.2.77) इति उपधादीर्घः] → पूर्त [**रदाभ्यां निष्ठातो नः पूर्वस्य च दः** (8.2.42) इति तकारस्य नकारे प्राप्ते **न ध्याख्यापॄमूर्च्छिमदाम्** (8.2.57) इति तस्य निषेधः] अत्र एकं वार्तिकं ज्ञातव्यम् - । इत्युक्ते, गुणः / वृद्धिः इत्यस्य तथा इत् / उत् इत्यस्य - उभयोः कार्ययोः समानस्थले प्रसक्तिः अस्ति चेत् गुण/वृद्धिः एव भवति । यथा, पॄ अस्य धातोः ण्वुल्-प्रत्ययान्तरूपस्य प्रक्रिया इयम् - पॄ + ण्वुल् [**ण्वुलृतृचौ** (3.1.133) इति ण्वुल्-प्रत्ययः] → पॄ + अक [**युवोरनाकौ** (7.1.1) इति वु-इत्यस्य अक-आदेशः] अत्र **उदोष्ठ्यपूर्वस्य** (7.1.102) इत्यनेन ॠकारस्य उर्-आदेशः विधीयते । तथा च, **अचो ञ्णिति** (7.2.115) इत्यनेन अङ्गस्य वृद्धि-आदेशः अपि विधीयते । एतयोः द्वयोः कार्ययोः**उदोष्ठ्यपूर्वस्य** (7.1.102)इत्यनेन निर्दिष्टः उर्-आदेशः 'अन्तरङ्गः' अस्ति, अतः **पूर्वपरनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः** अनया परिभाषया तस्यैव प्रसक्तिः स्यात् । परन्तु अनेन वार्तिकेन एतत् निर्दिश्यते यत् उत्-आदेशस्य तथा च गुणादेशस्य (नो चेत् वृद्ध्यादेशस्य) च समानस्थले प्रयोगः सम्भवति चेत् गुणादेशः (वृद्ध्यादेशः वा) एव भवति । अतः अत्र ऋकारस्य वृद्ध्यादेशे आकारः विधीयते, स च **उरण् रपरः** (1.1.51) इति रपरः भवति । → पार् + अक [ **अचो ञ्णिति** (7.2.115) इति वृद्धि-एकादेशः, सः च **उरण् रपरः** (1.1.51) इति रपरः] → पारक Sutrartha (English) ------------------- If a verb root ends in a दीर्घ ॠकार before which an ओष्ठ्य letter is present, the ॠकार of that verb root is converted to उकार. Vasu English Summary -------------------- उर् is substituted for the long ॠ of a root when it is preceded by a labial consonant belonging to the root. Vasu English Translation ------------------------ उर् is substituted for the long ॠ of a root when it is preceded by a labial consonant belonging to the root. As पूर्त and पुपूर्षति from पॄ, so also मुमूर्षति ॥ The lengthening is by (8.2.77). The rule applies when the dento-labial व precedes: as वुवूर्षति ऋत्विजम् from वॄ; so also प्रावुवूर्षति कम्बलम् ॥ The labial consonant must be the consonant of the root. Therefore when ॠ 'to go' is preceded by सम्, the rule will not apply, for म् is not part of the root: as समीर्णम् by (7.1.100). Vart:- The *Guna* and *Vriddhi* do take place in supersession of इर् and उर् substitution. Thus आस्तरणम् and आस्तारकः (from स्तॄ with ल्युट् and ण्वुल्), निपरणम्, निपारकः from पॄ, निगरणम्, निगारकः from गॄ ॥ Bhashya ------- उदोष्ठ्यपूर्वस्य उपधायाश्च ॥ ॠत इद्धातोः ॥ ॥ इत्त्वोत्त्वाभ्यां(1) गुणवृद्धी विप्रतिषेधेन ॥ इत्वोत्वाभ्यां गुणवृद्धी भवतो विप्रतिषेधेन । इत्त्वोत्त्वयोरवकाशः - आस्तीर्णम्(2) । निपूर्ताः पिण्डाः । गुणवृद्ध्योरवकाशः - चयनं चायकः । लवनं लावकः । इहोभयं प्राप्नोति आस्तरणम्, आस्तारकः(2) । निपरणं निपारकः । - गुणवृद्धी भवतो विप्रतिषेधेन ॥ अयुक्तोऽयं विप्रतिषेधो योऽयं गुणस्येत्त्वोत्वयोश्च ॥ कथम् ? ॥ नित्यो गुणः ॥ इति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते महाभाष्ये (शब्दानुशासने) सप्तमस्य प्रथमे द्वितीयमाह्निकम् ॥ पादश्च समाप्तः ॥ 7.1.1 ॥ Kashika ------- ओष्ठ्यः पूर्वो यस्माद् ॠकारादसावोष्ठ्यपूर्वः, तदन्तस्य धातोरङ्गस्य उकारादेशो भवति। पूर्ताः पिण्डाः। पुपूर्षति। मुमूर्षति। दन्त्योष्ठ्यपूर्वोऽप्योष्ठ्यपूर्वो भवतीत्यत्रापि भवति — वुवूर्षति ऋत्विजम्, प्रावुवूर्षति कम्बलम्। ओष्ठ्यो ह्यत्र प्रत्यासत्तेरङ्गावयव एव गृह्यते, तेन **ॠ गतौ** इत्यस्य संपूर्वस्य समीर्णमिति भवति॥ इत्त्वोत्त्वाभ्यां गुणवृद्धी भवतो विप्रतिषेधेन॥ आस्तरणम्। आस्तारकः। निपरणम्। निपारकः। निगरणम्। निगारकः॥ Siddhanta Kaumudi ----------------- अङ्गावयवौष्ठ्यपूर्वो य ॠत्तदन्तस्याङ्गस्य उत्स्यात् । गुणवृद्धी परत्वादिमं बाधेते । पिपर्ति । उत्वम् । रपरत्वम् । हलि च (SK354) इति दीर्घः । पिपूर्तः । पिपुरति । पपार । किति लिटि ॠच्छात्यॄताम् (SK2383)ल इति गुणे प्राप्ते ॥ Laghu Siddhanta Kaumudi ----------------------- अङ्गावयवौष्ठ्यपूर्वो य ॠत् तदन्तस्याङ्गस्य उत् स्यात्॥ Balamanorama ------------ **उदोष्ठ्यपूर्वस्य** - उदोष्ठ ।ऋत इद्धातो॑रित्त ऋत इत्यनुवर्तते । अङ्गस्येत्यधिकृतमिहानुवृत्तमावर्तते । एकमवयवषष्ठन्तमोष्टयस्य विशेषणम् । अपरं तु ऋता विशेष्यते । तदन्तविधिः । तदाह — अङ्गावयववौष्ठएत्यादिना । अङ्गावयवेति किम् । समीर्णः । 'ऋ गतौ' क्र्यादिः । तस्मात्संपूर्वात् क्तप्रत्यये श्र्युकः किती॑तीण्निषेधेऋत इद्धातो॑रिति इत्त्वे रपरत्वेहलि चे॑ति दीर्घेरदाभ्या॑मिति निष्टानत्वे तस्य णत्वे समीर्ण ति रूपम् । तत्र मकारात्मकौष्टपूर्वत्वादित्त्वं बाधित्वा उत्त्वं स्यात् ।अङ्गावयवे॑त्युक्तौ तु मकारस्य ओष्ठस्य अङ्गावयवत्वाऽभावादुत्त्वं न भवति । तथा च प्रकृतेऽपि पृतीत्यत्र इदमुत्त्वं स्यादिति शङ्का प्राप्ता । तां परिहरति — गुणवृद्धी इति । इममिति । उत्त्वविधिमित्यर्थः । पिपर्तीति । उत्त्वात्परकत्वाद्गुण इति भावः । पिपृ तस् इति स्थिते आह -उत्त्वमिति । ङित्त्वेन गुणाऽभावादुदोष्ठएत्युत्त्वमिति भावः । पिपुरतीति । अभ्यस्तत्वाददादेशे ङित्त्वाद्गुणाऽऽभावादुत्त्वमिति भावः । पिपर्षि पिपूर्थ । पिपर्मि पिपूर्वः । पिपूर्मः । लिटि णल्याह — पपारेति । उत्त्वात्परत्वाद्वृद्धिरिति भावः ।अर्तिपिपत्र्योश्चे॑त्यभ्यासस्य नेत्त्वम्, तत्र श्लावित्यनुवृत्तेः । प्राप्ते इति । गुणे नित्यं प्राप्ते इत्यर्थः । Tattvabodhini ------------- **उदोष्ठ्यपूर्वस्य** - उदोष्ठ । अह्गावयवेति किम् ।ऋ गतौ॑ क्र्यादिस्तस्मात् क्तप्रत्ययेश्र्युकः किती॑ति इण्निषेधात्समीर्ण इति भवति । अन्यथा तुसमूर्ण॑ इति स्यात् । Padamanjari ----------- पूती इति । पृ पालनपूरणयोः न ध्याख्यापृमुर्च्छिमदाम् इति निष्ठानत्वप्रतिषेधः । मुमूर्षतीति । मृङ् प्राणत्यागे । सुस्मूर्षतीति । स्मृ चिन्तायाम् । सुस्वूर्षतीति पाठे स्वृ शब्दोपतापयोः, सनीवन्तर्ध इत्यादिनेडभावपक्षे रुपम् । पुर्व एव तु युक्तः पाठः, पृथगुदाहरणस्य वक्ष्यमाणत्वात् । दन्त्योष्ठ।ल्पूर्वोऽपीत्यादि । ओष्ठ।ल्त्वमात्रं विवक्षितं नेतरव्यावृत्तिरिति भावः । ओष्ठ।लेऽत्रेत्यादि । यथा हलः इत्यत्राङ्गेन हल् विशेष्यते, तेन सम्प्रसारणम्, तेन च पुनरङ्गम तथेहाप्यङ्गस्यावयव ओष्ठयः पूर्वो यस्मातदन्तस्याङ्गस्येति । इत्वोत्वाभ्यामित्यादि । इत्वोत्वयोर्दर्शितान्युदाहरणान्यवकाशः, गुणवृद्ध्योरवकाशः - चयनं चायकः, उभयप्रसङ्गे विप्रतिषेधः । आस्तरणमिति । नात्र गुणस्य नित्यत्वम् लक्षणभेदात् । पूर्वं हीगन्तलक्षणो गुणः प्राप्नोति, इत्वोत्वयोः कृतयोर्लघूपधलक्षणः ॥ Nyaas ----- `ॠत इद्धातोः] (7.1.100) इतीत्त्वे प्राप्त उत्त्वं विधीयते। `पूर्त्तः` [`पूर्त्ताः` - काशिका, पदमञ्जरी च] इति। `पृ? पालनपूरणयोः` (धातुपाठः-1086), क्तः। `न ध्याख्या` (8.2.57) इत्यादिना प्रतिविषद्धत्वान्न निष्ठानत्वं भवति। `वुवूर्षति` इति। `वृ? वरणे` (धातुपाठः-1490)। `मुमूर्षति` इति। `मृ? हिंसायाम्` (धातुपाठः-1492)। `सूस्वूर्षति` इति। `स्थृ? शब्दोपतापयोः` (धातुपाठः-932), **अज्झनगमां सनि** (6.4.16) इति दीर्घत्वं ऋकारान्तत्वमस्य। अथेह कथमुत्त्वम् - `वृङ्? सम्भक्तौ` (धातुपाठः-1509), `वृञ्? वरणे` (धातुपाठः-1254) - प्रावुवूर्षते, प्रावुवूर्षतीति, न ह्यत्र ऋकार ओष्ठपूर्वः किं तर्हि? दन्त्योष्ठपूर्वं इति? तदेतदाह - `दन्त्यौष्ठपुर्वोऽप्योष्ठपूर्वो भवति` इत्यादि। यो ह्रुभयस्थाने निष्पद्यते लभतेऽसावन्यतरव्यपदेशम्। तेन दन्त्यौष्ठओ यो भवति सोऽप्योष्ठओ भवत्येव। दन्त्यौष्ठपूर्वोऽपयोष्ठपूर्व एव। अथ समीर्णमित्यत्र कस्मान्नि भवति, अस्ति ह्यत्राप्योष्ठग्रपूर्वता? इत्याह - `ओष्ठओ ह्यत्र` इत्यादि। ओष्ठओ ह्यत्राङ्गावयवोऽपि। तत्रेह प्रत्यासत्तेरङ्गावयवो गृह्रते, नोपसर्गवयवः। प्रत्यासन्नत्वं पुनाप्रसङ्गस्य प्रकृतत्वात्? उपसर्गस्य तु नास्ति प्रत्यासन्नत्वम्; विपर्ययात्। `इत्त्वोत्त्वाभ्याम्` इत्यादि। इत्त्वोत्त्वयोरवकाशः - आस्तीर्णम्, पूर्त इति; गुणवृद्ध्योरवकाशः - चयनम्, चायक इति; इहोमयं प्राप्नोति - आस्तरणम्, आस्तारकः, निपरणम्, निपारक इति, अत्र गुणवृद्धी भवतो विप्रतिषेधेन॥ Prakriyasarvasvam ----------------- अङ्गगतौष्ठ्यपूर्वो य ऋकारस्तदन्तस्य धातोरुत् स्यात् । पुर् त । 'हलि च' (८-२-७७) इति दीर्घः । पूर्तः । 'राल्लोप' (६-४-२१) इति छलोपः । मूर्त्तः । मत्तः ॥ Sutra Prayogas -------------- * **मुमूर्षया** (भट्टिकाव्यम्): `मृङः सनि उदोष्ठ्यपूर्वस्य` इत्युत्वम् । * **प्रावुवूर्षु** (भट्टिकाव्यम्): `उदोष्ट्यपूर्वस्य` इत्युत्वम्। * **सुस्मूर्षमाणो** (भट्टिकाव्यम्): `उदोष्ठ्यपूर्वस्य` इत्युत्त्वम्। * **संवुवूर्षुः** (भट्टिकाव्यम्): `उदोष्ठ्यपूर्वस्य` इत्युत्वपक्षे गुण एव ।