71088: भस्य टेर्लोपः

Padacheda: भस्य | S | 6 | 1 |

टेः | S | 6 | 1 |

लोपः | S | 1 | 1 |

Sutrartha

पथिन्, मथिन्, ऋभुक्षिन् - एतेषाम् भसंज्ञकस्य अङ्गस्य ‘टि’ संज्ञकस्य लोपः भवति ।

किम् नाम भसंज्ञकम् ? यचि भम् (1.4.18) इत्यनेन असर्वनामसंज्ञके अजादि/यकारादि-प्रत्यये परे अङ्गस्य भसंज्ञा भवति । किम् नाम टिसंज्ञकम्? अचोऽन्त्यादि टि (1.1.64) इत्यनेन शब्दे यः अन्तिमः स्वरः, तस्मात् आरभ्य शब्दस्य अन्तपर्यन्तम् यत् विद्यमानः अंशः टिसंज्ञां प्राप्नोति । पथिन् (मार्गः), मथिन् (मथने प्रयुक्तः दण्डः), ऋभुक्षिन् (इन्द्रः) इतेषाम् भसंज्ञकस्य अङ्गस्य टि-संज्ञकस्य लोपः भवति । यथा - 1) पथिन् + टा [तृतीयैकवचनस्य प्रत्ययः । अस्मिन् प्रत्यये परे पथिन्-इत्यस्य भसंज्ञा भवति ।] → पथ् आ [पथिन्-इत्यस्य टिसंज्ञकः ‘इन्’ इत्यस्य भस्य टेर्लोपः (7.1.88) इत्यनेन लोपः] → पथा । 2) मथिन् + आम् [षष्ठ्येकवचनस्य प्रत्ययः । अस्मिन् प्रत्यये परे मथिन्-इत्यस्य भसंज्ञा भवति ।] → मथ् आम् [मथिन्-इत्यस्य टिसंज्ञकः ‘इन्’ इत्यस्य भस्य टेर्लोपः (7.1.88) इत्यनेन लोपः] → मथाम् । 3) ऋभुक्षिन् + शस् [द्वितीयैकवचनस्य प्रत्ययः । अस्मिन् प्रत्यये परे ऋभुक्षिन्-इत्यस्य भसंज्ञा भवति ।] → ऋभुक्ष् + अस् [ऋभुक्षिन्-इत्यस्य टिसंज्ञकः ‘इन्’ इत्यस्य भस्य टेर्लोपः (7.1.88) इत्यनेन लोपः] → ऋभुक्षः [विसर्गनिर्माणम्] 4) सुपथिन् + औट् [द्वितीयाद्विवचनस्य प्रत्ययः । अस्मिन् प्रत्यये परे ऋभुक्षिन्-इत्यस्य भसंज्ञा भवति ।] → सुपथिन् + शी [नपुंसकाच्च (7.1.19) इति औट्-इत्यस्य शी-आदेशः] → सुपथ् +ई [सुपथिन्-इत्यस्य टिसंज्ञकः ‘इन्’ इत्यस्य भस्य टेर्लोपः (7.1.88) इत्यनेन लोपः] → सुपथी

Sutrartha (English)

The टि of the भसंज्ञक अङ्ग of पथिन्, मथिन् and ऋभुक्षिन् is removed.

Vasu English Summary

The last vowel, with the consonant that follows it, is dropped in . पथिन् 2. मथिन् and 3. ऋभुक्षिन् before a weak case-ending beginning with a vowel (before which the अङ्ग (stem) is called भ – यचि भम् (1.4.18).

Vasu English Translation

The last vowel, with the consonant that follows it, is dropped in . पथिन् 2. मथिन् and 3. ऋभुक्षिन् before a weak case-ending beginning with a vowel (before which the अङ्ग (stem) is called भ – यचि भम् (1.4.18). As पथः, पथा, पथे, मथः, मथा, मथे, ऋभुक्षः, ऋभुक्षा, ऋभुक्षे ॥ The anuvritti of sarvanamasthana, of course, is inappropriate here: though its anuvritti is current as will be seen in the next sutra.

Kashika

पथ्यादीनां भसंज्ञकानां टेर्लोपो भवति। पथः। पथा। पथे। मथः। मथा। मथे। ऋभुक्षः। ऋभुक्षा। ऋभुक्षे। सर्वनामस्थान इत्यनुवर्तमानमपि विरोधादिह न संबध्यते॥

Siddhanta Kaumudi

भसंज्ञकस्य पथ्यादेष्टेर्लोपः स्यात् । पथः । पथा । पथिभ्यामित्यादि । एवं मन्थाः । ऋभुक्षाः । स्त्रियां नान्तलक्षणे ङीपि भत्वाट्टिलोपः । सुपथी । सुमथी । नगरी । अनृभुक्षी सेना । आत्वं नपुंसकेन भवति न लुमता (SK263) इति प्रत्ययलक्षणनिषेधात् । सुपथि वनम् ॥<!संबुद्धौ नपुंसकानां नलोपो वा वाच्यः !> (वार्तिकम्) ॥ हे सुपथिन् । सुपथि । नलोपः सुप्स्वर (SK353) इति नलोपस्यासिद्धत्वाद्ध्रस्वस्य गुणो न । द्विवचने भत्वाट्टिलोपः । सुपथी । शौ सर्वनामस्थानत्वात् सुपन्थानि । पुनरपि । सुपथि । सुपथी । सुपन्थानि । सुपथा । सुपथे । सुपथिभ्यामित्यादि ॥

Laghu Siddhanta Kaumudi

भस्य पथ्यादेष्टेर्लोपः। पथः। पथा। पथिभ्याम्॥ एवं मथिन्, ऋभुक्षिन्॥

Balamanorama

भस्य {टे}र्लोपः - एवं पन्थानः । पन्थानम् पन्थानौ । शसादावचि विशेषमाह — भस्य टेर्लोपः । पथ्यादेरिति । पथिमत्यृभुक्षामित्यनुवर्तत इति भावः । पथः पथेति । पथिन् अस् पथिन् आ इति स्थिते इनो लोपे रूपद्वयमिति भावः । पथिभ्यामिति । नलोपे रूपम् । इत्यादीति । पथिभिः । पथे । पथिभ्यः । पथः पथोः पथाम् । पथि, पथोः पथिषु । एवं मन्था ऋभुक्षा इति । मन्थदण्डवाची मथिन्शब्दः । तस्य आत्त्वम्, अत्त्वं , न्थादेशः, टिलोपश्च । मन्थाः मन्थानौ मन्थानः । मन्थानम् मन्थानौ मथः । मथा मथिभ्याम् । मथे । मथः मथोः मेथाम् । मथि । मथिषु । ऋभुक्षिन्शब्दस्तु इन्द्रवाची । तत्र ‘थो न्थः’ इतिवर्जमात्त्वादि भवति । षात्परत्वाण्णत्वं च । ऋभुक्षाः ऋभुक्षाणौ इत्यादि । यत्तु अत्र पन्थानमात्मन इच्छति पथीयति ।सुप आत्मनः क्यच्, ‘नः क्ये’ इति पदत्वान्नलोपःआकृत्सार्वधातुकयोः॑ इति दीर्घः । ‘सनाद्यन्ताः’ इति धातुत्वम् । ततः क्विप् । अल्लोपयलोपौ । एकदेशविकृतस्यानन्यत्वात्पथिमथी॑त्यात्त्वं,थो न्थः॑ । ततः संयोगपूर्वत्वान्न यण् । किन्त्वियङेव । पन्थियौ । ‘भस्य टेक्लोपः’ पथ इत्यादि प्रौढमनोरमातत्त्वबोधिन्यादावुक्तम् । तदेतदनुनासिकविधौ सति प्रतिपत्तिलाघवायाऽनुनासिकस्यैव उच्चारणे कार्ये तदनुच्चारणाच्छुद्धस्यैव विधानमिति भाष्यविरोधादुपेक्ष्यम् । पथीयते क्विपि हि ईकारस्य शुद्धाकारार्थं अनुनासिकानुच्चारणस्यावश्यकत्वे तदसङ्गति स्पष्टैव । तस्मात्पथीयतेः क्वपोऽनभिधानमेवोचितमिति शब्देन्दुशेखरे स्पष्टम् ।प्रसङ्गादाह — स्त्रियामिति । सु=शोभनः पन्था अस्या इति बहुव्रीहिः । ‘ऋन्नेभ्यः’ इति ङीप् । ‘भस्य टेर्लोपः’ इति इनो लोपः । सुपथीति रूपम् । ऋक्पूः॑इत्यप्तु न,न पूजनादिति निषेधात् । न चैवमपि ‘न पूजनात्’ इति निषेधस्य षचः प्रागेव प्रवृत्तेर्वक्ष्यमाणत्वात्इनः स्त्रिया॑मिति कब्दुर्वार एवेति वाच्यम्, ‘युवोरनाकौ’ इत्यत्र सुपथीति भाष्यप्रयोगेण तस्या अनित्यत्वज्ञापनात् । नच लिङ्गविशिष्टपरिभाषयापथिमथी॑त्यात्त्वं थो न्थश्च कुतो नेति वाच्यं, विभक्तौ लिङ्गविशिष्टाऽग्रहणात् । सुमथी इति । सु=शोभनो मन्था यस्या इति विग्रहः । ङीबादि पूर्ववत् । अनृभुक्षी सेनेति । अविद्यमानः ऋभुक्षा यस्या इति विग्रहः ।नञोऽस्त्यर्थाना॑मिति समासः । ऋभुक्षाः=स्वामी । अथ सु=शोभनः पन्था अस्य वनस्येति बहुव्रीहौ सुपथिन्शब्दान्नपुंसकात् ‘स्वमोर्नपुंसकात्’ इति सोर्लुकि प्रत्ययलक्षणमाश्रित्य सुप्परत्वसत्त्वात्पथिमथी॑त्यात्त्वमाशङ्क्याह — आत्त्वं नपुंसके इति । सम्बुद्धाविति । यद्यपि भाष्ये नपुंसकानामित्येव पठितं तथापि हे चर्मन् हे चर्मेति भाष्ये सम्बुद्धावेव उदाहृतत्वात्तन्मात्रविषयत्वमस्येति भावः । सम्बुद्धेर्लुका लुप्त्वात्संबुद्धिपरत्वाऽभावात् ‘न ङिसम्बुद्ध्योः’ इति निषेधाऽप्रवृत्तेर्नित्यं नलोपप्राप्तौ विकल्पार्थोऽयमारम्भः । ननु नलोपपक्षे ‘ह्रस्वस्य गुणः’ इति सम्बुद्धौ परतो गुणे कर्तव्ये नन लुमते॑ति निषेधस्याऽनित्यत्वाद्धे वारे हे वारि इतिवद्गुणविकल्पः स्यादित्यत आह — नलोपः सुबिति । द्विवचने इति । सुपथिन्शब्दादौङः शीभावे सति असर्वनामस्थानत्वेन भत्वात् ‘भस्य टेर्लोपः’ इति इनो लोपे सुपथीति रूपमित्यर्थः । शाविति । सुपथिन्शब्दाज्जश्शसोः शिभावे सति तस्य सर्वनामस्थानत्वात् ‘इतोऽत्’ इत्यत्त्वे, ‘थो न्थः’ इति थस्य न्थादेशे नान्तत्वाद्दीर्घे सुपन्थानि इति रूपमित्यर्थः ।

Tattvabodhini

भस्य {टे}र्लोपः - पथिमथोरिति । प्रसङ्गादाह — स्त्रियामिति । नान्तलक्षण इति ।न पूजना॑दिति निषेधात्ऋक्पूरब्धू॑रित्यप्रत्ययो नेति भावः । सुपथीति ।इनः स्त्रिया॑ — मिति कप्तु न कृतः, समासान्तविधेरमनित्यत्वात् ।युवोरनाका॑विति सूत्रेसुपथी॑ति भाष्याच्च ।न पूजनां॑दिति निषेधस्य तु नायं विषयः॒॑षचः प्राचीनेष्वेव सः॑इति वक्ष्यमाणत्वात् ।पथिमथी त्यात्वं थो न्थश्च लिङ्गविशिष्टपरिभाषया प्राप्तं विभक्तौ लिङ्गविशिष्टाऽग्रहणान्न भवति । अत्रेदं बोध्यम् — पन्थानमात्मन इच्छति पथीयति । ततः क्विप् । अल्लोपयलोपौ । एकदेशविकृतस्यानन्यत्वात्पथिमथी॑त्यात्वम् ।थोः न्थः॑ । पन्थाः ।इतोऽत्सर्वनामस्थाने॑इत्यत्वं न भवति ।इत॑इति तपरकरणात् ।एरनेकाचः॑इति यणं बाधित्वा परत्वान्नित्यत्वाच्च — ॒थो न्थः॑ । संयोगपूर्वकत्वान्न यण् । पन्थियौ । पन्थियः । पन्थियम् । पन्थियौ ।भस्य टेक्लोपः॑ । पथः । पथा । पथीभ्यम् । पथीभिरित्यादि । एवं मथीयतेः क्विपि तु — मन्थाःष मन्थियौ । मन्थियः । ऋभुक्षाः । ऋभुक्षियौ । ऋभुक्षियः । इत्यादि । एतेनइतोऽत्सर्वनामस्थाने॑इत्यत्रस्थानिन्यदेशे च तपरकरणं मुखसुखार्थमिति हरदत्तग्रन्थः प्रयुक्तः । आदेशे तपरकरणस्यानावश्यकत्वेऽपि स्थान#इनि तुपन्थियौ॑इत्यादिसिद्धये तस्यावश्यकत्वात् । ननु नलोपस्याऽसिद्धात्वात् ।पथिमथ्यृभुक्षाम् -॑इति नस्यात्वे पन्थ्याः, मन्थ्याः, ऋभुक्ष्या इथ्येव भवितव्यम्, न तुपन्था॑इत्यादिति चेत् । अत्राहुः — नलोपस्यान्तर्वर्ती सुब्विमित्तम् । आत्वस्य तु बहिर्वर्ती सुप् । प्रत्यासत्त्या हि अत्र एक एव सुब्निमित्तभूतस्तत्रैवनलोपः सुप्स्वरे॑ति नलोपस्यासिद्धत्वं नान्यचत्रेति नात्र नकारस्यात्वं, किं त्वीकारस्येति ।

Padamanjari

पथ्यादीति । प्रत्येकमभिसम्बन्धाद् भस्य इत्येकवचनम् । विरोधादिति ॥ सर्वनामस्थाने भसंज्ञाया अभावो विरोधः । इह न सम्बद्ध्यत इति । उतरार्थं त्वनुवर्तत एवेति भावः ॥

Nyaas

सर्वनामस्थाने इत्यादि। यचि भम् (1.4.18) प्रत्यत्र स्वादिष्वसर्वनामस्थाने (1.4.17) इत्यतः असर्वनामस्थाने इत्यनुवर्तमाने भसंज्ञा विहिता, तत्र यदि सर्वनामस्थाने परतः पथ्यादीनां टिलोपः स्यात्, तदा भसंज्ञकास्ते न स्युः, अथ भसंज्ञकास्ते स्युस्तदा सर्वनामसथानं परं तेब्यो न स्यादिति भसंज्ञकानां सर्वनामस्थानस्य च सहानवस्थानलक्षणो विरोधः। तस्माद्यद्यप्युत्तरार्थं सर्वनामस्थानग्रहणमनुवर्तते, तथापीह नाभिसम्बध्यते॥

Prakriyasarvasvam

भस्य पथ्यादेष्टेर्लोपः स्यात् । पथः । पथा । पथिभ्याम् । पथिषु । एवं मन्थाः, ऋभुक्षाः इत्यादि । पञ्चन् जस् । नान्तसंख्यात्वात् षट्त्वे ‘षड्भ्यो लुक्’ (७-१-२२) इति जश्शसोर्लुक् । नलोपः । पञ्च । पञ्च । पञ्चभिः । पञ्चभ्यः । पञ्चभ्यः । आमि ‘षट्चतुर्थ्यश्च’ (७-१-५५) इति नुट् । पञ्चन् नाम् ।

Sudha

भस्य टेर्लोप इति । अत्र **पथिमथ्यृभुक्षामात्**(7.1.85) इत्यतः पथिमथ्यृभुक्षाम् इत्यनुवर्तते । पथः । पथिन्+शस् अत्र शकारस्येत्संज्ञायां लोपे च **यचि भम्**(1.4.18) इति भसंज्ञायाम् **अचोऽन्त्यादि टि**(1.1.64) इति इन् इत्यस्य टिसंज्ञायां **भस्य टेर्लोपः**(7.1.88) इत्यनेन टिसंज्ञकस्य इन् इत्यस्य लोपे, स्इत्यस्य रुत्वे रेफस्य विसर्गत्वे च ‘पथः’ इति रूपम् । पथा । पथिन् + आ अत्र इनो लोपे रूपम् । पथिभ्याम् । पथिन् + भ्याम् अत्र पदसञ्ज्ञायां नलोपे सति रूपम् । पथिभिः । पथे । पथिभ्यः । पथः । पथोः । पथाम् । पथि पथोः । पथिषु । एवं मन्थाः ऋभुक्षाः इति । मन्थदण्डवाची मथिन् शब्दः । नस्य आत्वं, न्थादेशः, इकारस्याकारः रुत्वे विसर्गत्वे च मन्थाः, मन्थानौ, मन्थानः । मन्थानम्, मन्थानौ, मथः । मथा, मर्थिभ्याम् । मथे । मथः । मथोः, मथाम् । मथि, मथिषु । ऋभुक्षिन् शब्दस्तु इन्द्रवाची । तत्र **थो न्थः**(7.1.87) इति वर्जमात्वादिर्भवति । षात्परत्वाण्णत्वञ्च । ऋभुक्षाः, ऋभुक्षाणौ इत्यादि ।

Sutra Prayogas

  • पुरस्तात् (भट्टिकाव्यम्): सप्तम्यां भस्य टे- लोपः इति पुरस्तादग्रतः।