71088: भस्य टेर्लोपः ==================== **Padacheda:** भस्य | S | 6 | 1 | टेः | S | 6 | 1 | लोपः | S | 1 | 1 | Sutrartha --------- **पथिन्, मथिन्, ऋभुक्षिन् - एतेषाम् भसंज्ञकस्य अङ्गस्य 'टि' संज्ञकस्य लोपः भवति ।** किम् नाम भसंज्ञकम् ? **यचि भम्** (1.4.18) इत्यनेन असर्वनामसंज्ञके अजादि/यकारादि-प्रत्यये परे अङ्गस्य भसंज्ञा भवति । किम् नाम टिसंज्ञकम्? **अचोऽन्त्यादि टि** (1.1.64) इत्यनेन शब्दे यः अन्तिमः स्वरः, तस्मात् आरभ्य शब्दस्य अन्तपर्यन्तम् यत् विद्यमानः अंशः टिसंज्ञां प्राप्नोति । पथिन् (मार्गः), मथिन् (मथने प्रयुक्तः दण्डः), ऋभुक्षिन् (इन्द्रः) इतेषाम् भसंज्ञकस्य अङ्गस्य टि-संज्ञकस्य लोपः भवति । यथा - 1) पथिन् + टा [तृतीयैकवचनस्य प्रत्ययः । अस्मिन् प्रत्यये परे पथिन्-इत्यस्य भसंज्ञा भवति ।] → पथ् आ [पथिन्-इत्यस्य टिसंज्ञकः 'इन्' इत्यस्य **भस्य टेर्लोपः** (7.1.88) इत्यनेन लोपः] → पथा । 2) मथिन् + आम् [षष्ठ्येकवचनस्य प्रत्ययः । अस्मिन् प्रत्यये परे मथिन्-इत्यस्य भसंज्ञा भवति ।] → मथ् आम् [मथिन्-इत्यस्य टिसंज्ञकः 'इन्' इत्यस्य **भस्य टेर्लोपः** (7.1.88) इत्यनेन लोपः] → मथाम् । 3) ऋभुक्षिन् + शस् [द्वितीयैकवचनस्य प्रत्ययः । अस्मिन् प्रत्यये परे ऋभुक्षिन्-इत्यस्य भसंज्ञा भवति ।] → ऋभुक्ष् + अस् [ऋभुक्षिन्-इत्यस्य टिसंज्ञकः 'इन्' इत्यस्य **भस्य टेर्लोपः** (7.1.88) इत्यनेन लोपः] → ऋभुक्षः [विसर्गनिर्माणम्] 4) सुपथिन् + औट् [द्वितीयाद्विवचनस्य प्रत्ययः । अस्मिन् प्रत्यये परे ऋभुक्षिन्-इत्यस्य भसंज्ञा भवति ।] → सुपथिन् + शी [**नपुंसकाच्च** (7.1.19) इति औट्-इत्यस्य शी-आदेशः] → सुपथ् +ई [सुपथिन्-इत्यस्य टिसंज्ञकः 'इन्' इत्यस्य **भस्य टेर्लोपः** (7.1.88) इत्यनेन लोपः] → सुपथी Sutrartha (English) ------------------- The टि of the भसंज्ञक अङ्ग of पथिन्, मथिन् and ऋभुक्षिन् is removed. Vasu English Summary -------------------- The last vowel, with the consonant that follows it, is dropped in . पथिन् 2. मथिन् and 3. ऋभुक्षिन् before a weak case-ending beginning with a vowel (before which the अङ्ग (stem) is called भ -- यचि भम् (1.4.18). Vasu English Translation ------------------------ The last vowel, with the consonant that follows it, is dropped in . पथिन् 2. मथिन् and 3. ऋभुक्षिन् before a weak case-ending beginning with a vowel (before which the अङ्ग (stem) is called भ -- यचि भम् (1.4.18). As पथः, पथा, पथे, मथः, मथा, मथे, ऋभुक्षः, ऋभुक्षा, ऋभुक्षे ॥ The *anuvritti* of *sarvanamasthana*, of course, is inappropriate here: though its *anuvritti* is current as will be seen in the next *sutra*. Kashika ------- पथ्यादीनां भसंज्ञकानां टेर्लोपो भवति। पथः। पथा। पथे। मथः। मथा। मथे। ऋभुक्षः। ऋभुक्षा। ऋभुक्षे। सर्वनामस्थान इत्यनुवर्तमानमपि विरोधादिह न संबध्यते॥ Siddhanta Kaumudi ----------------- भसंज्ञकस्य पथ्यादेष्टेर्लोपः स्यात् । पथः । पथा । पथिभ्यामित्यादि । एवं मन्थाः । ऋभुक्षाः । स्त्रियां नान्तलक्षणे ङीपि भत्वाट्टिलोपः । सुपथी । सुमथी । नगरी । अनृभुक्षी सेना । आत्वं नपुंसकेन भवति न लुमता (SK263) इति प्रत्ययलक्षणनिषेधात् । सुपथि वनम् ॥ (वार्तिकम्) ॥ हे सुपथिन् । सुपथि । नलोपः सुप्स्वर (SK353) इति नलोपस्यासिद्धत्वाद्ध्रस्वस्य गुणो न । द्विवचने भत्वाट्टिलोपः । सुपथी । शौ सर्वनामस्थानत्वात् सुपन्थानि । पुनरपि । सुपथि । सुपथी । सुपन्थानि । सुपथा । सुपथे । सुपथिभ्यामित्यादि ॥ Laghu Siddhanta Kaumudi ----------------------- भस्य पथ्यादेष्टेर्लोपः। पथः। पथा। पथिभ्याम्॥ एवं मथिन्, ऋभुक्षिन्॥ Balamanorama ------------ **भस्य {टे}र्लोपः** - एवं पन्थानः । पन्थानम् पन्थानौ । शसादावचि विशेषमाह — भस्य टेर्लोपः । पथ्यादेरिति । पथिमत्यृभुक्षामित्यनुवर्तत इति भावः । पथः पथेति । पथिन् अस् पथिन् आ इति स्थिते इनो लोपे रूपद्वयमिति भावः । पथिभ्यामिति । नलोपे रूपम् । इत्यादीति । पथिभिः । पथे । पथिभ्यः । पथः पथोः पथाम् । पथि, पथोः पथिषु । एवं मन्था ऋभुक्षा इति । मन्थदण्डवाची मथिन्शब्दः । तस्य आत्त्वम्, अत्त्वं , न्थादेशः, टिलोपश्च । मन्थाः मन्थानौ मन्थानः । मन्थानम् मन्थानौ मथः । मथा मथिभ्याम् । मथे । मथः मथोः मेथाम् । मथि । मथिषु । ऋभुक्षिन्शब्दस्तु इन्द्रवाची । तत्र 'थो न्थः' इतिवर्जमात्त्वादि भवति । षात्परत्वाण्णत्वं च । ऋभुक्षाः ऋभुक्षाणौ इत्यादि । यत्तु अत्र पन्थानमात्मन इच्छति पथीयति ।सुप आत्मनः क्यच्, 'नः क्ये' इति पदत्वान्नलोपःआकृत्सार्वधातुकयोः॑ इति दीर्घः । 'सनाद्यन्ताः' इति धातुत्वम् । ततः क्विप् । अल्लोपयलोपौ । एकदेशविकृतस्यानन्यत्वात्पथिमथी॑त्यात्त्वं,थो न्थः॑ । ततः संयोगपूर्वत्वान्न यण् । किन्त्वियङेव । पन्थियौ । 'भस्य टेक्लोपः' पथ इत्यादि प्रौढमनोरमातत्त्वबोधिन्यादावुक्तम् । तदेतदनुनासिकविधौ सति प्रतिपत्तिलाघवायाऽनुनासिकस्यैव उच्चारणे कार्ये तदनुच्चारणाच्छुद्धस्यैव विधानमिति भाष्यविरोधादुपेक्ष्यम् । पथीयते क्विपि हि ईकारस्य शुद्धाकारार्थं अनुनासिकानुच्चारणस्यावश्यकत्वे तदसङ्गति स्पष्टैव । तस्मात्पथीयतेः क्वपोऽनभिधानमेवोचितमिति शब्देन्दुशेखरे स्पष्टम् ।प्रसङ्गादाह — स्त्रियामिति । सु=शोभनः पन्था अस्या इति बहुव्रीहिः । 'ऋन्नेभ्यः' इति ङीप् । 'भस्य टेर्लोपः' इति इनो लोपः । सुपथीति रूपम् । ऋक्पूः॑इत्यप्तु न,न पूजनादिति निषेधात् । न चैवमपि 'न पूजनात्' इति निषेधस्य षचः प्रागेव प्रवृत्तेर्वक्ष्यमाणत्वात्इनः स्त्रिया॑मिति कब्दुर्वार एवेति वाच्यम्, 'युवोरनाकौ' इत्यत्र सुपथीति भाष्यप्रयोगेण तस्या अनित्यत्वज्ञापनात् । नच लिङ्गविशिष्टपरिभाषयापथिमथी॑त्यात्त्वं थो न्थश्च कुतो नेति वाच्यं, विभक्तौ लिङ्गविशिष्टाऽग्रहणात् । सुमथी इति । सु=शोभनो मन्था यस्या इति विग्रहः । ङीबादि पूर्ववत् । अनृभुक्षी सेनेति । अविद्यमानः ऋभुक्षा यस्या इति विग्रहः ।नञोऽस्त्यर्थाना॑मिति समासः । ऋभुक्षाः=स्वामी । अथ सु=शोभनः पन्था अस्य वनस्येति बहुव्रीहौ सुपथिन्शब्दान्नपुंसकात् 'स्वमोर्नपुंसकात्' इति सोर्लुकि प्रत्ययलक्षणमाश्रित्य सुप्परत्वसत्त्वात्पथिमथी॑त्यात्त्वमाशङ्क्याह — आत्त्वं नपुंसके इति । सम्बुद्धाविति । यद्यपि भाष्ये नपुंसकानामित्येव पठितं तथापि हे चर्मन् हे चर्मेति भाष्ये सम्बुद्धावेव उदाहृतत्वात्तन्मात्रविषयत्वमस्येति भावः । सम्बुद्धेर्लुका लुप्त्वात्संबुद्धिपरत्वाऽभावात् 'न ङिसम्बुद्ध्योः' इति निषेधाऽप्रवृत्तेर्नित्यं नलोपप्राप्तौ विकल्पार्थोऽयमारम्भः । ननु नलोपपक्षे 'ह्रस्वस्य गुणः' इति सम्बुद्धौ परतो गुणे कर्तव्ये नन लुमते॑ति निषेधस्याऽनित्यत्वाद्धे वारे हे वारि इतिवद्गुणविकल्पः स्यादित्यत आह — नलोपः सुबिति । द्विवचने इति । सुपथिन्शब्दादौङः शीभावे सति असर्वनामस्थानत्वेन भत्वात् 'भस्य टेर्लोपः' इति इनो लोपे सुपथीति रूपमित्यर्थः । शाविति । सुपथिन्शब्दाज्जश्शसोः शिभावे सति तस्य सर्वनामस्थानत्वात् 'इतोऽत्' इत्यत्त्वे, 'थो न्थः' इति थस्य न्थादेशे नान्तत्वाद्दीर्घे सुपन्थानि इति रूपमित्यर्थः । Tattvabodhini ------------- **भस्य {टे}र्लोपः** - पथिमथोरिति । प्रसङ्गादाह — स्त्रियामिति । नान्तलक्षण इति ।न पूजना॑दिति निषेधात्ऋक्पूरब्धू॑रित्यप्रत्ययो नेति भावः । सुपथीति ।इनः स्त्रिया॑ — मिति कप्तु न कृतः, समासान्तविधेरमनित्यत्वात् ।युवोरनाका॑विति सूत्रेसुपथी॑ति भाष्याच्च ।न पूजनां॑दिति निषेधस्य तु नायं विषयः॒॑षचः प्राचीनेष्वेव सः॑इति वक्ष्यमाणत्वात् ।पथिमथी त्यात्वं थो न्थश्च लिङ्गविशिष्टपरिभाषया प्राप्तं विभक्तौ लिङ्गविशिष्टाऽग्रहणान्न भवति । अत्रेदं बोध्यम् — पन्थानमात्मन इच्छति पथीयति । ततः क्विप् । अल्लोपयलोपौ । एकदेशविकृतस्यानन्यत्वात्पथिमथी॑त्यात्वम् ।थोः न्थः॑ । पन्थाः ।इतोऽत्सर्वनामस्थाने॑इत्यत्वं न भवति ।इत॑इति तपरकरणात् ।एरनेकाचः॑इति यणं बाधित्वा परत्वान्नित्यत्वाच्च — ॒थो न्थः॑ । संयोगपूर्वकत्वान्न यण् । पन्थियौ । पन्थियः । पन्थियम् । पन्थियौ ।भस्य टेक्लोपः॑ । पथः । पथा । पथीभ्यम् । पथीभिरित्यादि । एवं मथीयतेः क्विपि तु — मन्थाःष मन्थियौ । मन्थियः । ऋभुक्षाः । ऋभुक्षियौ । ऋभुक्षियः । इत्यादि । एतेनइतोऽत्सर्वनामस्थाने॑इत्यत्रस्थानिन्यदेशे च तपरकरणं मुखसुखार्थमिति हरदत्तग्रन्थः प्रयुक्तः । आदेशे तपरकरणस्यानावश्यकत्वेऽपि स्थान#इनि तुपन्थियौ॑इत्यादिसिद्धये तस्यावश्यकत्वात् । ननु नलोपस्याऽसिद्धात्वात् ।पथिमथ्यृभुक्षाम् -॑इति नस्यात्वे पन्थ्याः, मन्थ्याः, ऋभुक्ष्या इथ्येव भवितव्यम्, न तुपन्था॑इत्यादिति चेत् । अत्राहुः — नलोपस्यान्तर्वर्ती सुब्विमित्तम् । आत्वस्य तु बहिर्वर्ती सुप् । प्रत्यासत्त्या हि अत्र एक एव सुब्निमित्तभूतस्तत्रैवनलोपः सुप्स्वरे॑ति नलोपस्यासिद्धत्वं नान्यचत्रेति नात्र नकारस्यात्वं, किं त्वीकारस्येति । Padamanjari ----------- पथ्यादीति । प्रत्येकमभिसम्बन्धाद् भस्य इत्येकवचनम् । विरोधादिति ॥ सर्वनामस्थाने भसंज्ञाया अभावो विरोधः । इह न सम्बद्ध्यत इति । उतरार्थं त्वनुवर्तत एवेति भावः ॥ Nyaas ----- `सर्वनामस्थाने` इत्यादि। **यचि भम्** (1.4.18) प्रत्यत्र **स्वादिष्वसर्वनामस्थाने** (1.4.17) इत्यतः `असर्वनामस्थाने` इत्यनुवर्तमाने भसंज्ञा विहिता, तत्र यदि सर्वनामस्थाने परतः पथ्यादीनां टिलोपः स्यात्, तदा भसंज्ञकास्ते न स्युः, अथ भसंज्ञकास्ते स्युस्तदा सर्वनामसथानं परं तेब्यो न स्यादिति भसंज्ञकानां सर्वनामस्थानस्य च सहानवस्थानलक्षणो विरोधः। तस्माद्यद्यप्युत्तरार्थं सर्वनामस्थानग्रहणमनुवर्तते, तथापीह नाभिसम्बध्यते॥ Prakriyasarvasvam ----------------- भस्य पथ्यादेष्टेर्लोपः स्यात् । पथः । पथा । पथिभ्याम् । पथिषु । एवं मन्थाः, ऋभुक्षाः इत्यादि । पञ्चन् जस् । नान्तसंख्यात्वात् षट्त्वे 'षड्भ्यो लुक्' (७-१-२२) इति जश्शसोर्लुक् । नलोपः । पञ्च । पञ्च । पञ्चभिः । पञ्चभ्यः । पञ्चभ्यः । आमि 'षट्चतुर्थ्यश्च' (७-१-५५) इति नुट् । पञ्चन् नाम् । Sudha ----- भस्य टेर्लोप इति । अत्र **पथिमथ्यृभुक्षामात्**(7.1.85) इत्यतः पथिमथ्यृभुक्षाम् इत्यनुवर्तते । पथः । पथिन्+शस् अत्र शकारस्येत्संज्ञायां लोपे च **यचि भम्**(1.4.18) इति भसंज्ञायाम् **अचोऽन्त्यादि टि**(1.1.64) इति इन् इत्यस्य टिसंज्ञायां **भस्य टेर्लोपः**(7.1.88) इत्यनेन टिसंज्ञकस्य इन् इत्यस्य लोपे, स्इत्यस्य रुत्वे रेफस्य विसर्गत्वे च 'पथः' इति रूपम् । पथा । पथिन् + आ अत्र इनो लोपे रूपम् । पथिभ्याम् । पथिन् + भ्याम् अत्र पदसञ्ज्ञायां नलोपे सति रूपम् । पथिभिः । पथे । पथिभ्यः । पथः । पथोः । पथाम् । पथि पथोः । पथिषु । एवं मन्थाः ऋभुक्षाः इति । मन्थदण्डवाची मथिन् शब्दः । नस्य आत्वं, न्थादेशः, इकारस्याकारः रुत्वे विसर्गत्वे च मन्थाः, मन्थानौ, मन्थानः । मन्थानम्, मन्थानौ, मथः । मथा, मर्थिभ्याम् । मथे । मथः । मथोः, मथाम् । मथि, मथिषु । ऋभुक्षिन् शब्दस्तु इन्द्रवाची । तत्र **थो न्थः**(7.1.87) इति वर्जमात्वादिर्भवति । षात्परत्वाण्णत्वञ्च । ऋभुक्षाः, ऋभुक्षाणौ इत्यादि । Sutra Prayogas -------------- * **पुरस्तात्** (भट्टिकाव्यम्): `सप्तम्यां भस्य टे- लोपः` इति पुरस्तादग्रतः।