71073: इकोऽचि विभक्तौ

Padacheda: इकः | S | 6 | 1 |

अचि | S | 7 | 1 |

विभक्तौ | S | 7 | 1 |

Sutrartha

इगन्तस्य नपुंसकशब्दस्य अजादि-विभक्ति-प्रत्यये परे नुमागमः भवति ।

इक्-प्रत्याहारे इ, उ, ऋ, ऌ एते वर्णाः आगच्छन्ति । नपुंसकलिङ्गशब्दानामन्ते स्थितानाम् एतेषामजादिविभक्तौ नुमागमः विधीयते । उदाहरणानि अधः दत्तानि सन्ति । परन्तु तस्मात् पूर्वम् द्वे वार्तिके ज्ञातव्ये, येषां प्रक्रियायाम् प्रयोगः भवति - 1. <!वृद्धि-औत्व-तृज्वद्भाव-गुणेभ्यो नुम् पूर्वविप्रतिषेधेन !> । इत्युक्ते, ‘वृद्धिः, ‘औत्वम्’, ‘तृज्वद्भावः’, ‘गुणादेशः’ - एतेभ्यः कस्यापि विधेः यदि नुमागमेन सह विप्रतिषेधः जायते, तर्हि नुमागमस्यैव प्रयोगः करणीयः । 2. <!नुमचिर्-तृज्वद्भावेभ्यो नुट् विप्रतिषेधेन !> । इत्युक्ते, यदि ‘नुमागमः’, ‘अचि र ऋतः (7.2.100) इत्यनेन उक्तः रेफादेशः’, तथा ‘तृज्वद्भावः’ - एतेभ्यः कस्यापि विधेः यदि नुडागमेन सह विप्रतिषेधः जायते, तर्हि नित्यम् नुडागमस्यैव प्रयोगः करणीयः । अधः उदाहरणानि दत्तानि सन्ति - (अ) इकारान्त/उकारान्तशब्दानामुदाहरणानि ‘वारि’शब्दमधिकृत्य दत्तानि सन्ति । मधुशब्दस्य विषये अपि एतादृशाः प्रक्रियाः एव ज्ञातव्याः) - 1. जस्/शस्-प्रत्यययोः परयोः नपुंसकस्य झलचः (7.1.72) इत्यनेन नुमागमे प्राप्ते विप्रतिषेधेन इकोऽचि विभक्तौ (7.1.73) इति नुमागमः करणीयः । यथा - वारि + जस् [प्रथमाबहुवचनस्य प्रत्ययः] → वारि + शि [जश्शसोः शि (7.1.20) इति शि-आदेशः । शि सर्वनामस्थानम् (1.1.42) इति सर्वनामस्थानसंज्ञा ।] → वारि + इ [शकारस्य इत्संज्ञा, लोपः । ] → वारि न् + इ [नपुंसकस्य झलचः (7.3.72) इत्यनेन नुमागमे प्राप्ते विप्रतिषेधेन इकोऽचि विभक्तौ (7.1.73) इति नुमागमः] → वारी + नि [सर्वनामस्थाने चासम्बुद्धौ (6.4.8) इत्यनेन नकारान्तस्य अङ्गस्य उपधायाः सर्वनामस्थाने परे दीर्घः] → वारीणि [अट्कुप्वाङ्नुम्वयवायेऽपि (8.4.2) इति णत्वम्] 2. टा-प्रत्यये परे वर्तमानसूत्रेण इकोऽचि विभक्तौ (7.1.73) इत्यनेन नुमागमे प्राप्ते विप्रतिषेधेन आङो नाऽस्त्रियाम् (7.3.120) इत्यनेन टा-प्रत्ययस्य ‘ना’ आदेशः करणीयः । यथा - वारि + टा → वारि + ना [अत्र ‘वारि’ इति शेषो घ्यसखि (1.4.7) घिसंज्ञकमङ्गमस्ति । अतः इकोऽचि विभक्तौ (7.1.73) इत्यनेन नुमागमे प्राप्ते विप्रतिषेधेन आङो नाऽस्त्रियाम् (7.3.120) इत्यनेन टा-प्रत्ययस्य ‘ना’ आदेशः विधीयते ।] → वारिणा [अट्कुप्वाङ्नुम्वयवायेऽपि (8.4.2) इति णत्वम्] 3. ङे / ङसिँ / ङस् प्रत्ययेषु परेषु वर्तमानसूत्रेण नुमागमे प्राप्ते, विप्रतिषेधेन घेर्ङिति (7.3.111) इति घिसंज्ञकस्य अङ्गस्य गुणः अपि विधीयते । अस्याम् स्थितौ अनेन वार्तिकेन नुमागमः एव करणीयः । यथा - वारि + ङसिँ [पञ्चम्येकवचनस्य प्रत्ययः] → वारि न् अस् [अत्र ‘वारि’ इति शेषो घ्यसखि (1.4.7) घिसंज्ञकमङ्गमस्ति । अत्र इकोऽचि विभक्तौ (7.1.73) इत्यनेन नुमागमे प्राप्ते, विप्रतिषेधेन घेर्ङिति (7.3.111) इति घिसंज्ञकस्य अङ्गस्य गुणे प्राप्ते ; अनेन वार्तिकेन इकोऽचि विभक्तौ (7.3.73) इति नुमागमः] → वारिणः [अट्कुप्वाङ्नुम्व्यवायेऽपि इति नकारस्य णकारः] 4. षष्ठीबहुवचनस्य आम्-प्रत्यये परे वर्तमानसूत्रेण अङ्गस्य नुमागमे प्राप्ते ; विप्रतिषेधेन ह्रस्वनद्यापो नुट् (7.1.54) इति नुडागमः अपि प्राप्यते । अस्यां स्थितौ अनेन वार्तिकेन नुडागमः करणीयः । यथा - वारि + आम् → वारि + नुट् + आम् [ह्रस्वनद्यापो नुट् (7.1.54) इत्यनेन प्रत्ययस्य नुडागमे प्राप्ते, विप्रतिषेधेन इकोऽचि विभक्तौ (7.1.73) इत्यनेन अङ्गस्य नुमागमे प्राप्ते <! नुमचिर्-तृज्वद्भावेभ्यो नुट् विप्रतिषेधेन!> अनेन वार्त्तिकेन विप्रतिषेधेन ह्रस्वनद्यापो नुट् (7.1.54) इति नुडागमः भवति । ] → वारीनाम् [नामि (6.4.3) इत्यनेन अङ्गस्य दीर्घः] → वारीणाम् [अट्कुप्वाङ्नुम्व्यवायेऽपि (8.4.2) इति नकारस्य णकारः] 5. षष्ठी-सप्तमी-द्विवचनस्य ओस्-प्रत्यये परे इको यणचि (6.1.77) एतं वर्णकार्यम् बाधित्वा अङ्गकार्यस्य प्रधानत्वात् परत्वात् च इकोऽचि विभक्तौ (7.1.73) इति नुमागमः भवति । वारि + ओस् इति स्थिते → वारिन् ओस् [इकोऽचि विभक्तौ (7.1.73) इत्यनेन नुमागमः] → वारिणः [अट्कुप्वाङ्नुम्व्यवायेऽपि (8.4.2) इति नकारस्य णकारः] 6. सप्तमी-एकवचनस्य ङि-प्रत्यये परे अनेन सूत्रेण नुमागमे प्राप्ते , अच्च घेः (7.3.119) इत्यनेन ङि-प्रत्ययस्य औ-आदेशः विधीयते । अत्र अनेन वार्तिकेन ‘औ’ आदेशस्य अपेक्षया इकोऽचि विभक्तौ इति नुमागमः करणीयः । यथा - वारि + ङि → वारिन् + ङि [इकोऽचि विभक्तौ (7.1.73) इत्यनेन नुमागमे प्राप्ते, विप्रतिषेधेन अच्च घेः (7.3.119) इत्यनेन ङि-प्रत्ययस्य औ-आदेशे प्राप्ते अनेन वार्तिकेन इकोऽचि विभक्तौ (7.1.73) इति नुमागमः] → वारिणि [अट्कुप्वाङ्नुम्व्यवायेऽपि (8.4.2) इति नकारस्य णकारः] (आ) ऋकारान्तशब्दानामुदाहरणानि धातृ-शब्दमधिकृत्य दत्तानि सन्ति । 1. धातृ + जस् / शस् [प्रथमा/द्वितीययोः बहुवचनस्य प्रत्ययः] → धातृ + शि [जश्शसोः शि (7.1.20) इति शि-आदेशः । शि सर्वनामस्थानम् (1.1.42) इति सर्वनामस्थानसंज्ञा ।] → धातृ + इ [शकारस्य इत्संज्ञा, लोपः । नपुंसकस्य झलचः (7.1.72) इति अङ्गस्य नुमागमः] → धातृ न् + इ [नपुंसकस्य झलचः (7.3.72) इत्यनेन नुमागमे प्राप्ते विप्रतिषेधेन इकोऽचि विभक्तौ (7.1.73) इति नुमागमः] → धातॄ + नि [सर्वनामस्थाने चासम्बुद्धौ (6.4.8) इत्यनेन नकारान्तस्य अङ्गस्य उपधायाः सर्वनामस्थाने परे दीर्घः] → धातॄणि [ इति णत्वम्] 2. धातृ + टा [तृतीयैकवचनस्य प्रत्ययः] → धातृना [इको यणचि (6.1.77) एतं बाधित्वा इकोऽचि विभक्तौ (7.1.73) इति नुमागमः] → धातृणा [ इति णत्वम्] एवमेव धातृणे, धातृणः, धातृणोः आदीनि रूपाणि सिद्ध्यन्ति । 3. धातृ + ङि [सप्तम्येकवचनस्य प्रत्ययः] → धातृनि [ इकोऽचि विभक्तौ (7.1.73) इत्यनेन नुमागमे प्राप्ते विप्रतिषेधेन ऋतो ङिसर्वनामस्थानयोः (7.3.110) इत्यनेन अङ्गस्य गुणे प्राप्ते, अनेन वार्तिकेन इकोऽचि विभक्तौ (7.3.73) इति नुमागमः] → धातृणि [ इति णत्वम्]

Sutrartha (English)

An इगन्त नपुंसकलिङ्ग word gets नुमागम when followed by an अजादि विभक्तिप्रत्यय.

Vasu English Summary

The augment (नुम्) न् is added to a Neuter अङ्ग (stem) ending in a simple vowel, except अ , before a case-affix beginning with a vowel.

Vasu English Translation

The augment (नुम्) न् is added to a Neuter अङ्ग (stem) ending in a simple vowel, except अ , before a case-affix beginning with a vowel. Karika- इकोचि व्यञ्जने मा भूदस्तु लोपः स्वरः कथम् । स्वरो वै श्रूयमाणो पि लुप्ते किं न भविष्यति ॥ रायात्वं तिसृभावश्च व्यवधानान्नुमा अपि । नुड् वाच्य उत्तरार्थे तु इह किं चित्रपो इति ॥

Thus त्रपुणी, जतुनी, तुम्बुरुणी, त्रपुणे, जतुने, तुम्बुरुणे ॥ Why “with the exception of अ”? Observe कुण्डे, पीठे ॥ The phrase “before an affix beginning with a vowel” is employed here for the sake of the subsequent sutras like (7.1.75). Here we could have dispensed with it: for before affixes beginning with a consonant नुम्, would be elided by (8.2.7). The only object that it serves here is that we can form हे त्रपो ! or हे त्रपु ! in the Vocative singular. For had we त्रपुन् + स् in the vocative, the form would have been हे त्रपुन् like हे राजन्, for न् would not be elided here, see (8.2.8).

If it be objected that by the sutra न लुमताङ्गस्य (1.1.63) when the affix स् is elided in the Vocative, it will leave no trace behind, and there being no affix at all, नुम् will not be added in the Vocative. We reply: that this very employment of the word अच् in this sutra indicates (jnapaka) that the rule prohibiting the effect of an affix (1.1.63) does not apply here. Therefore, though the affix is elided, it produces its effect in spite of (1.1.63), and we have the guna of the vowel in the Vocative, as हे त्रपो by (7.3.108).

Why have we used the word विभक्तौ ‘when a case-affix follows’? Observe तुम्बुरवं चूर्णम्, where the Taddhita affix अञ् is added to तुम्बुरु by (4.3.139).

Karika: - The employment of the words इकः अचि in the sutra shows that नुम् will not come when the affix begins with a consonant, as त्रपुभ्यां, त्रपुभिः ॥ An objector says, the employment of अचि in the sutra is useless for नुम् may be added even before an affix beginning with a consonant, for having added it, it will be elided by न लोपः प्रातिपदिकान्तस्य (8.2.7). We reply, yes it can be so done, but how will you then manage the accent? For in पञ्चत्रपुभ्यां, पञ्चत्रपुभिः, the accent is regulated by the rule (6.2.29) which says that in a Dvigu compound, the first member preserves its original accent if the second member ends in an इक् vowel. But if there was a नुम्, then the second member would not end in इक् but in न् : and the elision of this न् by (7.2.7) is asiddha for the purposes of accent. To this the objector answers, that even where न् is not elided the accent is governed by (6.2.29), namely the accent of पञ्चत्रपुणे or पञ्चत्रपुण : is by (6.2.29), why should it not be so when न् is elided. So the objection about accent has no strength.

Well if नुम् be added even before consonant-affix, then there will arise this anomaly: अतिरि + भ्यां = अतिरिन् + भ्यां (by adding नुम्). Here rule (7.2.85) cannot apply: because न् intervenes between रि and भ्यां, therefore इ of रि is not changed to आ, and therefore we cannot get the proper from अतिराभ्यां ॥ Moreover in प्रियत्रि + भ्यां, the त्रि cannot be changed to तिसृ if there be नुम्, and so we cannot get the form प्रियतिसृभ्यां ब्राह्मणकुलानि ॥

To this it is answered, the change of इ into आ in the case of रि, and the substitution of तिसृ for त्रि will take place even when the नुम् intervenes, on the maxim विभक्तिविधानदशायां यदानन्तर्ये तत् तत्राश्रीयते न त्वादेशविधानदशायाम् ॥ And this is done in this way : अतिरि + भ्यां, and प्रियत्रि + भ्यां, here नुम् is superseded by the subsequent rule requiring आ and तिसृ respectively.

If this be so, then the employment of अच् in the sutra is for the sake of the supersession of नुम् by नुट् (7.1.54). Thus नुट् has unrestricted scope in अग्नीनां, वायूनां, and नुम् has unrestricted scope in त्रपुणे and जतुने ॥ But in त्रपूणाम् and जतूनाम्, both नुट् and नुम् present themselves. Here however नुम् is superseded by नुट् by purva-vipratishedha and so there is lengthening of the vowel by (6.4.3). This supersession is indicated by the employment of अच्, for नुट् and नुम् being both anitya and of equal force, had there been no अच्, नुम् would have come and not नुट् ॥

But this is also not valid, for नुट् would have to be added, even if there had been no अच् in the sutra.

The employment of अच् is for the sake of the subsequent sutra (7.1.75). The only object that अच् serves in this sutra, is in forming the vocative हे त्रपो as shown above.

Bhashya

इकोऽचि विभक्तौ अज्ग्रहणं किमर्थम् / ॥ इकोचि व्यञ्ञ्जने(5) माभूत् ॥ इकोऽचीत्युच्यते व्यञ्ञ्जनादौ मा भूत् - त्रपुभ्यां त्रपुभिः ॥ अस्तु, लोपः ॥ अस्त्वत्र नुम् न लोपः प्रातिपदिकान्तस्येति नलोपो भविष्यति ॥ स्वरः कथम् ॥ (कथं स्वरः ?) ॥ पञ्ञ्चत्रपुभ्याम् पञ्ञ्चत्रपुभ्यः । इगन्ते द्विगावित्येष स्वरो न प्राप्नोति ॥ स्वरो वै श्रूयमाणेऽपि(5) ॥ श्रूयमाणेऽपि नुमि स्वरो भवति-पञ्ञ्चत्रपुणा पञ्ञ्चत्रपुणे इति ॥ लुप्ते किं न भविष्यति ॥ लुप्ते इदानीं किं न भविष्यति ? ॥ किं पुनः कारणं श्रूयमाणेऽपि नुमि स्वरो भवति ? ॥ सङ्घातभक्तोऽसौ नोत्सहतेऽवयवस्येगन्ततां विहन्तुमिति कृत्वा ततः श्रूयमाणेऽपि नुमि स्वरो भवति ॥ इदं तर्हि(1) - अतिराभ्यामतिराभिः । नुमि कृते रायो हलीत्यात्वं न प्राप्नोति ॥ इदमिह संप्रधार्यं - नुम् क्रियतामात्वमिति, किमत्र कर्तव्यम् ? ॥ परत्वादात्वम् ॥ इह तर्हि प्रियतिसृभ्याम् प्रियतिसृभिः । नुमि कृते तिसृभावो न प्राप्नोति ॥ इदमिह संप्रधार्यं - नुङ्क्रियतां तिसृभाव इति, किमत्र कर्तव्यम् ? ॥ परत्वात्तिसृभावः ॥ अत अत्तरं पठति - ॥ इकोऽचिविभक्तावज्ग्रहणंनुम्नुटोर्विप्रतिषेधार्थम् ॥ इकोऽचिविभक्तावज्ग्रहणं क्रियते ॥ (किं प्रयोजनम्(2) ? ॥ नुम्नुटोर्विप्रतिषेधार्थम् ।) नुमो नुडि्वप्रतिषेधेन यथा स्यात् - त्रपूणां जतूनाम् ॥ इतरथा हि नुमो नित्यनिमित्तत्वान्नुडभावः ॥ अक्रियमाणे ह्यज्ग्रहणे नित्यनिमित्तो नुम्, कृतेऽपि नुटि प्राप्नोत्यकृतेपि । नित्यनिमित्तत्वान्नुमि कृते नुटोऽभावः स्यात् ॥ एतदपि नास्ति प्रयोजनम् । क्रियमाणेऽपि वै अज्ग्रहणेऽवश्यमत्र नुडर्थो यत्नः कर्तव्यः । पूर्वविप्रतिषेधौ वक्तव्यः ॥ इदं तर्हि प्रयोजनं - नुटि कृते नुम्मा भूदिति(1) ॥ किं च स्यात् ? ॥ त्रपूणां जतूनां, - नामीति दीर्घत्वं न स्यात् ॥ मा भूदेवं नोपधाया इत्येवं भविष्यति ॥ इह तर्हि - शुचीनाम् इन्हन्पूषार्यम्णां शौ सौ चेत्यस्मान्नियमान्न प्राप्नोति दीर्घत्वम् । अर्थवद्ग्रहणे नानर्थकस्येत्येवं न भविष्यति ॥ नैषा परिभाषेह शक्या विज्ञातुम्, इह हि दोषः स्यात् - वाग्ग्मीति ॥ एवं तर्हि लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैवैति ॥ ॥ उत्तरार्थं च ॥ उत्तरार्थं तर्ह्यज्ग्रहणं कर्तव्यमस्थिदधिसक्थ्यक्ष्णामनङुदात्तः - अजादौ यथा स्यादिह मा भूत् - अस्थिभ्यामस्थिभिरिति ॥ यद्युत्तरार्थं स्यात्तत्रैवायमज्ग्रहणं कुर्वीत, इह हि क्रियमाणे यदि किं चित्प्रयोजनमस्ति तदुच्यताम् ? ॥ इहापि क्रियमाणे प्रयोजनमस्ति ॥ किम् ? ॥ अजादौ यथा स्यादिह मा भूत् - त्रपु जतु ॥ एतदपि नास्ति प्रयोजनं, विभक्तावित्युच्यते न चाऽत्र विभक्तिं पश्यामः ॥ प्रत्ययलक्षणेन ॥ न लुमताङ्गस्येति प्रत्याचार्योभवतीह कश्चिदन्योऽपि प्रकारः प्रत्ययलक्षणं नामेति ॥ किमेतस्य ज्ञापने प्रयोजनम् ? ॥ हे त्रपु हे त्रपो । अत्र गुणः सिद्धौ भवति(1) ॥ ॥ इकोऽचि व्यञ्ञ्जने मा भूदस्तु लोपः स्वरः कथम् ? । स्वरो वै श्रूयमाणेऽपि लुप्ते किं न भविष्यति ? ॥ 1 ॥ रायात्वं तिसृभावश्च व्यवधानान्नुमा अपि । नुड्वाच्य उत्तरार्थं तु इह किचित्र्रपो इति ॥ 2 ॥ ॥ (ःइकोचिविभक्तौ)

Kashika

इगन्तस्य नपुंसकस्याङ्गस्याजादौ विभक्तौ नुमागमो भवति। त्रपुणी। जतुनी। तुम्बुरुणी। त्रपुणे। जुतने। तुम्बुरुणे। इक इति किम्? कुण्डे। पीठे। अचीति किम्? उत्तरार्थम्। यद्येवम्, तत्रैव कर्तव्यम्। इह तु करणस्य एतत् प्रयोजनम् — हे त्रपो इत्यत्र नुम् मा भूदिति, न ङिसंबुद्ध्योः (८.२.८) इति नलोपप्रतिषेधः स्यात्। ननु च **न लुमताङ्गस्य**(१.१.६३) इति प्रत्ययलक्षणे प्रतिषिद्धे विभक्तिरेव नास्ति? एतदेवाज्ग्रहणं ज्ञापकं प्रत्ययलक्षणप्रतिषेधोऽत्र न भवतीति। तथा च संबुद्धिगुणः क्रियते। विभक्ताविति किम्? तौम्बुरवं चूर्णम्।

इकोऽचि व्यञ्जने मा भूदस्तु लोपःस्वरःकथम्।

स्वरो वै श्रूयमाणेऽपि लुप्ते किं न भविष्यति ॥ १॥

रायात्वं तिसृभावश्च व्यवधानान्नुमा अपि।

नुड् वाच्य उत्तरार्थं तु इह किंचित् त्रपो इति॥ २॥

Siddhanta Kaumudi

इगन्तस्य क्लीबस्य नुमागमः स्यादचि विभक्तौ । वारिणी । वारीणि । न लुमता (SK263) इति निषेधस्याऽनित्यत्वात्पक्षे संबुद्धिनिमित्तो गुणः । हे वारे! । हे वारि । आङो ना (SK244) ॥ वारिणा । घेर्ङिति (SK245) इति गुणे प्राप्ते ।<!वृद्ध्यौत्त्वतृज्वद्भावगुणेभ्यो नुम्पूर्वविप्रतिषेधेन !> (वार्तिकम्) ॥ वारिणे । वारिणः । वारिणोः । नुमचिरेति नुट् । नामी (SK209) इति दीर्घः । वारीणाम् । वारिणि । वारिणोः । हलादौ हरिवत् ॥

Laghu Siddhanta Kaumudi

इगन्तस्य क्लीबस्य नुमचि विभक्तौ। वारिणी। वारीणि। न लुमतेत्यस्यानित्यत्वात्पक्षे संबुद्धिनिमित्तो गुणः। हे वारे, हे वारि। आङो ना,वारिणा । घेर्ङितीति गुणे प्राप्ते वृद्ध्यौत्त्वतृज्वद्भावगुणेभ्यो नुम् पूर्वविप्रतिषेधेन (वार्त्तिकम्)। वारिणे। वारिणः। वारिणोः। नुमचिरेति नुट्। वारीणाम्। वारिणि। हलादौ हरिवत्॥

Balamanorama

इकोऽचि विभक्तौ - इकोऽचि । ‘इदितो नुम् धातोः’ इत्यतो नुमित्यनुवर्तते । ‘नपुंसकस्य झलचः’ इत्यतोनपुंसकस्ये॑त्यनुवर्तते,अङ्गस्ये॑त्यदिकृतमिका विशेष्यते, ततस्तदन्तविधिः, तदाह — इगन्तस्येत्यादिना । अचि विभक्ताविति । अजादौ विभक्तावित्यर्थः ।इकोऽचि सुपी॑त्येव सुवचम् । विभक्तौ किम् मधु=मद्यं, तस्येदं माधवम् । अणि परे नुमि टिलोपेमाध॑मिति स्यात् । वारिणी इति । वारि-औ इति स्थिते शीभावे नुमिअट्कुप्वाङिति णत्वे रूपम् । वारीणीति । जश्शसोः शिभावे नुमिसर्वनामस्थाने चे॑ति दीर्घे णत्वे रूपम् । हे वारि सु इत्यत्र सोर्लुकि प्रक्रियां दर्शयति — पक्ष इति । ‘ह्रस्वस्य गुण’ इति सम्बुद्धिनिमित्तको गुणः कदाचिद्भवतीत्यर्थः । नन्विह सम्बुद्धेर्लुका लुप्तवान्न लुमतेति प्रत्ययलक्षणनिषेधात्कथं गुण इत्यत आह-न लुमतेतिनिषेधस्यानित्य्त्वादिति । अत्र च ‘इकोऽचि विभाक्तौ’ इत्यत्राज्ग्रहणं ज्ञापकम् । हलादिषु भ्यामादिषु सत्यपि नुमिन लोपः प्रातिपदिकान्तस्ये॑ति तस्य लोपसम्भवादचीति व्यर्थम् । न च सम्बुद्धिव्यावृत्त्यर्थमज्ग्रहणं, तुत्र नुमि सतिन ङिसम्बुद्धयो॑रिति निषेधे सति नकारश्रवणप्रसङ्गादिति वाच्यं, सम्बुद्धेर्लुका लुप्ततया प्रत्ययलक्षणाभावेन तत्र नुमः । प्राप्तेरेवाऽभावात् ।न लुमते॑ति निषेधस्याऽनित्यत्वे तु सम्बुद्धौ प्रत्ययलक्षणेन प्राप्तं नुमं वारयितुमज्ग्रहणमर्थवदिति भवत्यज्ग्रहणंन लुमते॑त्यस्यानित्यत्वे लिङ्गमित्याहुः । अत एवइकोऽची॑ति सूत्रे हे त्रपो इति, एङ्ह्रस्वादिति सूत्रे हे त्रपु इति च भाष्यं सङ्गच्छते । आङो नेति । रूपे विशेषाऽभावेऽपि नुमपेक्षया परत्वेन नाभावस्यैव न्याय्यत्वादिति भावः । ङसिङसोर्विशेषमाह-घेरिति । नुमं बाधित्वा परत्वाद्गुणे प्राप्त इत्यर्थः ।वृद्ध्यौत्त्वेति । वार्तिकम् । वृद्ध्यादीनां क्रमेण-गावौ हरौ क्रोष्ट्रा हरये इत्यवकाशः । नुमोऽवकाशो वारीणि इति । अतिसखीनीत्यत्र जश्शसोः ‘सख्युरसम्बुद्धौ’ इति णित्त्वाद्वृद्धिः परत्वान्नुमं बाधित्वा प्राप्ता । वारिणीत्यत्र ङौ तु ‘अच्च घेः’ इत्यौत्त्वं प्राप्तम् । प्रियक्रोष्टूनीत्यत्र जश्शसोस्तृज्वत्त्वं प्राप्तम् । वारिशब्दान्ङ्यादौ गुणः प्राप्तः । अत्र पूर्वविप्रतिषेधान्नुमेवेत्यर्थः । वारिणे इति । ङयि गुणं बाधित्वा नुमि णत्वे रूपम् । वारिण इति । ङसिङसोर्गुणं बाधित्वा नुमि णत्वे रूपम् । वारिणोरिति । ओसि यणं बाधित्वा नुमि णत्वे रूपम् । वारिण इति । ङसिङसोर्गुणं बाधित्वा नुमि णत्वे रूपम् । वारिणोरिति । ओसि यणं बाधित्वा नुमि णत्वे रूपम् । वारि-आमित्यत्र परत्वान्नुटं बाधित्वा नुमि प्राप्त आह — नुमचिरेति । नुडिति । नुम्नुटोः को विशेष इत्यत आह-नामीति दीर्घ इति । नुमि तु सति तस्याङ्गभक्तत्वा॑न्नामी॑ति दीर्घो न स्यादिति भावः । वारिणीति । ङौ ‘अच्च घेः’ इत्यौत्त्वं परमपि बाधित्वावृद्ध्यौत्त्वे॑ति पूर्वविप्रतिषेधान्नुम् । न विद्यते आदिः= उत्पत्तिः यस्य सः अनादिः=ईआरः । अनादिः अविद्या । अनाद#इ ब्राहृ । त्रिलिङ्गोऽयं विशेष्यनिघ्नः । तस्य नपुंसकत्वे प्रथमाद्वितीययोर्वारिवद्रूपाणि ।

Tattvabodhini

इकोऽचि विभक्तौ - इकोऽचि । विभक्तौ किं मधु मद्यं तस्येद माधवम् । अत्र नुमि सति टिलोपः स्यात् ।वृद्धौत्त्वतृज्वद्भावगुणेभ्यो नुम्पूर्वविप्रतिषेधेन । वृद्ध्यौत्वेति ।अति सखिनी॑त्यत्रसख्युरसंबुद्धा॑विति णिद्वद्भावाद्वृद्धिः प्राप्ता,वारिणी॑त्यत्र तुअच्च घे॑रित्यौत्त्वम्,प्रियक्रोष्टूनी त्यादौ तृज्वद्भावः प्राप्तः ननु नुम्रुटोः को विशेषस्तन्नाह — — नामीति दीर्घत्वमिति । नुमस्त्वङ्गभक्तत्वात्तस्मिन्सति दीर्घो न स्यादिति भावः ।

Padamanjari

इक इति किमिति । पूर्वत्र यदज्ग्रहणं तदिहैव कर्तव्यम् - नपुंसकस्य झलः, अचोऽचीति तेन तु हलन्तस्य न भविष्यति, सन्ध्यक्षरन्तं तु नपुंसकं नास्त्येवेति प्रश्नः । अत एवादन्तं प्रत्युदाहरति, न हलन्तम् । अचीति किमिति । त्रपुभ्यामित्यादौ हलादौ सत्यपि नुमि स्वादिषु इति पदसंज्ञायां सत्याम् नलोपः प्रातिपदिकान्तस्य इति लोपेनैव सिद्धमिष्टमिति प्रश्नः । इतरोऽपि विदिताभिप्राय आह - उतरार्थमिति । अस्थिदधिसक्थ्यक्ष्णामनङ् अचि यथा स्यात्, हलादौ अस्थिभ्यामित्यादौ मा भूत् । पुनश्चोदयतियद्येवमिति । परिहरति - इह त्विति । हे त्रपो इति । अत्र प्रागेव गुणान्नुमः प्रसङ्गः , गुणे कृतेऽनिगन्तत्वादप्रसङ्गः । स्यादेतत् - अस्त्वत्र नुम्, स्वमोर्नपुंसकात् इति सोर्लुकि सुबन्तं पदमिति पदसंज्ञायां नलोपो भविष्यतीति तत्राहन ङसिम्बुद्ध्योरिति । ननु चेत्यादि । एवकारो भिन्नक्रमः प्रतिषेधेन सम्बद्ध्यमान औपचारिकमपि विभक्तेरस्तित्वं प्रतिषेधति । द्विविधं विभक्तेरस्तित्वम् - मुख्यम्, औपचारिकं च । तत्र मुख्यं श्रूयमाणायाः, इतरल्लुप्तायाः प्रत्ययलक्षणेन । तदिह लुप्तत्वान्मुख्यं तावन्नास्ति, प्रत्ययलक्षणप्रतिषेधेनौपचारिकमपि नास्त्येव, तत्र विभक्तौ इत्युच्यमानो नुम् कः प्रसङ्गे यत्सर्वथैवासत्यां विभक्तौ स्यात् नैष प्राप्नोति, नार्थोऽज्ग्रहणेन । एतदेवेत्यादि । अन्यथा ह्यज्ग्रहणं न कुर्यात्, कृतं तु, ज्ञापयति - अत्रोगन्ते नपुंसके सम्बुद्धिविषये प्रत्ययलक्षणप्रतिषेधो न भवतीति । तथा चेत्यादिना ज्ञापकस्य प्रयोजनं दर्शयति । सम्बुद्धौ चेति वर्तमाने ह्रस्वस्य गुणः इति वहितो गुणः सम्बुद्धिगुणः । लौम्बुरवमिति । विकारे ओरञ् । इकोऽचीत्यादि । इकः अचीत्युच्यते व्यञ्जनादौ मा भूत् - त्रपुभ्याम्, त्रपुभिः । अस्तु लोपः, अस्त्वत्र नुम् नलोपः प्रातिपदिकान्तस्य इति नलोपो भविष्यति स्वरः कथम् - पञ्चत्रपुभ्याम्, पञ्चत्रपुभिः इगन्ते उतरपदे द्विगौ पूर्वपदं प्रकृत्या भवतीत्येष स्वरो न प्राप्नोति नुमि सत्यनिगन्तत्वात् । नलोपेऽपि कृते स्वरविधौ एतस्यासिद्धत्वादनिगन्तत्वादनिगन्तत्वमेव । स्वरो वै श्रूयमाणेऽपि लुप्ते किन्न भविष्यतीति । वैशब्दः क्षमायाम् । श्रूयमाणेऽपि वै नकारे स्वरो भवति - पञ्चत्रपुणे, पञ्चत्रपुणः । स लुप्ते किं न भविष्यति, यत्र शास्त्रवशेन सम्भवो न प्रत्यक्षेण, तत्र किं न भविष्यति भविष्यत्येव । किं पुनः कारणं श्रूयमाणेऽपि नुमि स्वरो भवति सङ्घातभक्तोऽसौ नोत्सहते तदुतरपदेगन्ततां विहन्तुम् । यदि चान्तरङ्गः स्वराः, प्रागेव विभत्युत्पतेर्भविष्यति । अत्र तर्हि - अतिराभ्याम्, अतिराभिरिति - अतिरिभ्यामिति स्थिते नुमि कृते तेन व्यवधानाद् रायो हलि इत्याकारो न प्राप्नोति, नलोपेऽपि कृते सुब्विधौ तस्यासिद्धत्वाव्द्यवधानमेव, सङ्घातभक्तो नुम् तमेव न व्यावदध्यात्, रैशब्दं तु व्यवदधात्येव । अथाप्यत्र अङ्गाधिकारे तस्य च तदुतरपदस्य चेति रैशब्दान्तस्याङ्गत्वविधानान्नास्ति नुमाङ्गस्य व्यवधानमथापि निर्दिश्यमानस्यादेशा भवन्तीति रैशब्दस्य व्यवधानमेव । अथाप्यङ्गस्यात्वम्, एवमपि नुम एवात्वं प्राप्नोति, तत्र पूर्वस्य यणि सति अतिर्याभ्यामिति स्यात् । तथा प्रियतिसृभ्यां ब्राह्मणकुलाभ्यामित्यत्र प्रियत्रिभ्यामिति स्थिते तिसृभावो न स्यात् नुमा व्यवधानात् । नलोपेऽपि कृत इत्यादि पूर्ववत् । नैष दोषः, रायात्वं तिसृभावश्च व्यावधानान्नुमा अपि भवतः । व्यवधानादिति कर्मणि ल्यब्लोपे पञ्चमी, नुमा व्यवधानं प्राप्यापि भवत इत्यर्थः । विभक्तिविधानदशायां यदानन्तर्थं ततत्राश्रीयते, न त्वादेशविधानदशायामिति भावः । नुमा अपीत्यत्र संहिताया अविवक्षितत्वात्सवर्णदीर्घत्वं न कृतम् । अन्ये मध्ये हि शब्दं पठन्ति । अपिशब्देनैतत्सूचयति - प्रकारान्तरेणाप्यात्वतिसृभावौ सिद्ध्यत इति । तत्कथम् कातिरिभ्यामिति स्थिते नुभात्वयोरुभयोरप्यनित्ययोः परत्वादात्वमेवं तिसृभावः, तत्र सकृद्गतिन्यायाश्रयणेन नुमभावः, सत्यापि वा नुमि न कश्चिद्दोषः एवं तर्हि नुम्नुटोर्विप्रतिषेधार्थमज्ग्रहणं कृतम् । ह्रस्वनद्यापो नुट् इत्यसायावकाशः - अग्नीनां वायूनाम्, नुमोऽवकाशः - त्रपुणे, जतुने, त्रपूणाम्, जतूनामित्यत्रोभयप्रसङ्गे पूर्वविप्रतिषेधेन नुडिष्यते । नामि इति दीर्घो यथा स्याद् इति । स च विप्रतिषेधोऽज्ग्रहणे सत्युपपद्यते द्वयोरप्यनित्यत्वेन तुल्यबलत्वात् । असति हि त्वज्ग्रहणे कृताकृतप्रसङ्गित्वान्नित्यत्वान्नुमेव स्यात् । एतदपि प्रयोजनं दूषयति -नुङ् वाच्य इति । क्रियमाणेऽप्यज्ग्रहणे नुट् तत्र वाच्यः - वचनेनैव साध्यः, अन्यथा परत्वान्नुमेव स्यात् । ततश्चाज्ग्रहणं कर्तव्यम्, पूर्वविप्रतिषेधश्च वक्तव्यः - इति यत्नद्वयमाश्रयणीयम् । तत्राज्ग्रहणमकृत्वा एक एव नुडर्थो यत्नः कर्तव्य इत्यर्थः । इदं तर्हि प्रयोजनम् - तेनैव यत्नेन नुटि तत्रैवानजादौ नुम् मा भूत् अस्तु, लोपो भविष्यति, नलोपस्यासिद्धत्वादनजन्तत्वात् नामि इति दीर्घत्वं न स्यात् । मा भूदेवम्, नोपधायाः इत्येवं भविष्यति इह तर्हि शुचीनाम् , इन्हन्पूषार्यम्णां शौ, सौ चेति नियमाद्दीर्घत्वं न स्यात्, प्रतिपदोक्तस्येनस्तत्र ग्रहणम्, लाक्षणिकश्चायम् । एवं प्रत्याख्यातेऽज्ग्रहणे प्रयोजनमाह - उतरार्थं त्विति । तुशब्दः तर्ह्यर्थे । यद्यौतरत्रास्य प्रयोजनं तर्हि तत्रैव कर्तव्यमा अत आह - इह किञ्चिदिति । तुशब्दस्य यण् न कृतः इकोऽसवर्णे शाकल्यस्य इति प्रकृतिभावविधानात् । त्रपो इति । अत्र तु सम्बुद्धौ शाकल्यस्येतावनार्षे इति प्रगृह्यत्वादवादेशाभावः । केचिदत्र हे त्रपो, हे त्रपु - इति द्वैरुप्यमिच्छन्ति, प्रत्ययलक्षणप्रतिषेधस्यानित्यत्वं ज्ञाप्यते, न त्वस्मिन्विषये सर्वथैवाभाव इति वदन्ति । तथा च भाष्ये हे त्रपु, हे त्रपो इति द्वयमप्युदाहृतम् । अन्ये तु हे त्रप्विति प्राप्ते हि त्रपो इति भवतीति भाष्यं व्याचक्षणाअ नित्यमेव गुणमिच्छन्ति । तथा च वृतौ गुण एवोदाहृतः ॥

Nyaas

विभक्तौ इति वचनात्? सर्वनामस्थाने (7.1.70) इति निवृत्तम्। अचीति किम् इति। एवं मन्यते - त्रपुभ्याम्, त्रपुभिरित्यत्र व्यञ्जनादौ मा भूदित्येवमर्थमज्ग्रहणं क्रियते, एतच्चाप्रयोजनम्; अस्त्वन्न नुम्, नलोपः प्रातिपदिकान्तस्य (8.2.7) इति लोपो भविष्यति। इतरो विदिताभिप्राय आह - उत्तरार्थम् इति। अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः (7.1.75) इत्यजादौ यथा स्यात्, इह मा भूत् - अस्थिभ्याम्, अस्थिभिरिति, एवमर्थमज्ग्रहणम्। इहासय करणस्य यत्प्रयोजनं तन्मया पृष्टम्, अतस्तदेव कथ्यताम्? इत्यभिप्रायेणाह - यद्येवम् इत्यादि। इतरो विदिताभिप्राय आह - इह तु करणस्य इत्यादि। त्रपुशब्दात्? सम्बोधने प्रथमैकवचने कृते यद्यचीति नोच्येत, तदात्रापि नुम्? स्यात्, तदत्र नुम्? मा भूदित्येवमर्थमचीत्युच्यते। स्यादेतत् - भवतु नाम नुम्, तस्य स्वमोर्नपुंसकात् (7.1.23) इति सोर्लुकि कृते नलोपः प्रातिपदिकान्तस्य (8.2.7) इति नलोपो भविष्यति? इत्याह - न ङिसम्बुद्ध्योः इत्यादि। `ननु च इत्यादि। एवकारोऽत्र भिन्नक्रमः प्रतिषेधानन्तरं द्रष्टव्यः। स चौपचारिकमपि दिभक्तेरस्तित्वम्? न लुमताङ्गस्य (1.1.63) इति प्रतिषेधान्नास्तीति प्रतिपादयति। द्विविधं हि विभक्तोरस्तित्वम् - मुख्यम्, औपचारिकञ्च। तत्र मुख्यं श्रूयमाणाया विभक्तेर्भवति, इतरत्? तु लुप्ताया अपि। कार्यस्यास्तित्वाद्विभक्तेरप्युपचारेणास्तित्वमुच्यते, यथा - अस्त्यतीतं कर्मेति तत्रातीतेन कर्मणा यदाहितं फलदानसामर्थ्यं तस्यस्तित्वात्? तत्? कर्मान्तीत्युच्यते। तदिह स्वमोर्नपुंसकात् (7.1.23) इति विभक्तेर्लप्तत्वान्मुख्यं तावदस्तित्वं नास्ति। न लुमताङ्गस्य (1.1.63) इति प्रत्ययलक्षणप्रतिषेधादौपचारिकमपि नास्त्वेव। तत्र विभक्तावुच्यमानो नुम्? कः प्रसङ्गो यः सर्वथैवासत्यां विभक्तौ हे त्रपो इत्यत्र स्यात्! नैव प्राप्नोति; तस्मान्नैतदज्ग्रहणस्य प्रयोजनम्। एतदेव इत्यादि। यदि ह्यत्र प्रत्ययलोपलक्षमप्रतिषेधः स्यात्, अज्ग्रहणमनर्थकं स्यात्, कुतश्च, तस्मादेतदेवाज्ग्रहणं ज्ञापयति - प्रत्ययलोपलक्षणप्रतिषेधोऽत्रेगन्ते नपुंसके सम्बुद्धिविषये नास्तीति। तथा च इत्यादिना ज्ञापकस्य प्रयोजनमाह। सम्बुद्धिविषयो गणः सम्बुद्धौ च (7.3.106) इति वर्तमाने यः ह्रस्वस्य गुणः (7.3.108) इत्यनेन गुणः स वेदितव्यः। तौम्बुरवं चूर्णम् इति। तुम्बुरुणो विकारः औरञ्? (4.2.70) , **ओर्गुणः** (6.4.146) । क्वचित् - `इकोऽचि व्यञ्जने मा भूवस्तु लोपः स्वरः कथम् इत्यादिकं श्लोकद्वयं पठते। इकोऽचि विभक्तौ (7.1.73) इत्यत्राचीति किमर्थमुच्यते, न इको विभक्तौ इत्येवोच्येत? प्रयोजनमाह - व्यञ्जने मा भूत् इति। प्रकरणान्नुमिति विज्ञायते। त्रपुभ्याम्, त्रपुभिरित्यत्र व्यञ्जनादौ मा भूदित्येवर्थमज्ग्रहणं क्रियते। यद्येवम्, नार्थस्तेन, व्यञ्जनादौ नुमस्तु, न च तस्य श्रवणं प्रसज्यते; यस्मात्? नलोपः प्रातपदिकान्तस्य (8.2.7) इति नलोपो भविष्यति। पञ्चत्रपुभ्याम्, पञ्चत्रपुभिरित्यत्र कथं स्वरः? पञ्चभिस्त्रपुभिः क्रीताभ्यां क्रीतैर्वेति तद्धितार्थोत्तरपदसमाहारे च (2.1.51) इति तद्धितार्थे समास; संख्यापूर्वो द्विगुः (2.1.52) इति द्विगुसंज्ञा, आर्हादगोपुच्छ (5.1.19) इत्यादिना ठक्, तस्य अध्यद्र्धपूर्वद्विगोर्लुगसंज्ञायाम् (5.1.28) इति लुक्, ततो विभक्तो नुम्, नकारलोपः, तस्य नलोपः सुप्सवरसंज्ञातुग्विधिषु कृति (8.2.2।) इत्यसिद्धत्वात्? इगन्तकालकपालभगालशरावेषु द्विगौ (6.2.29) इत्यनेन पूर्वपदप्रकृतिस्वरो न प्राप्नोति; अनिगन्तत्वात्? भ्रः संख्यायाः (फि।सू।2।28) इत्याद्युदात्तत्वं स्यात्। भ्रः इति नकाररेफान्तयोग्रहणमिति। खरो षै इत्यादि। वैशब्दोऽक्षमायाम्। पञ्चत्रपुण इत्यत्र श्रूयमाणे नुमि स्वरो भवति। लुप्ते किं न भविष्यति? (इति)। भविष्यत्येवेत्यर्थः। किं पुनः कारणं श्रूयमाणे नुमि स्वरो भवति? स्वरविधौ व्यञ्जनस्यादिद्यमानत्वात्। अथ वा - समुदायभक्तो ह्रसौ नुम्? नोत्सतेऽवयवस्य त्रपुशब्दस्येगन्ततां विहिन्तुम्। इह तर्हि रायमतिक्रान्ताभ्यां ब्राआहृणकुलाभ्याम् - अतिराभ्यामिति कुगतिप्रादयः (2.2.18) इति समासे कृते ह्रस्वो नपुंसके प्रातिपदिकस्य (1.2.47) इति ह्रस्वत्वे च कृते यदि व्यञ्जनादौ नुम्? स्यात्, तदा तस्य लोपे कृते नलोपस्यासिद्धत्वात्? रायो हलि (7.2.85) इति हलादावुच्यमानमात्वं न प्राप्नोति, नुमा व्यवदानात्, समुदायभक्तोऽसौ समुदायमेव न व्यवदव्यात्, अवयवं तु व्यवदधात्येव। तथा प्रियास्तिरुआओऽनयोब्र्राआहृणकुलयोरिति बहुव्रीहौ कृते प्रियतिसृभ्यामिति - यदि व्यञ्जनादौ नुम्? स्यात्, तदा त्रिचतुरोः स्त्रियां तिसृचतसृ (7.2.99) इत्यनेन तिरुआआदेशो न प्राप्नोति, समुदायभक्तेन नुमा त्रिशब्दस्य व्यवधानात्? नैतदस्ति; रायात्वं तिसृबावं [`तिसृभावश्च - मूलपाठः] च व्यवधानान्नुमापि हि` (इति)। भवतीति शेषः। व्यवधानादिति ल्यब्लोपे पञ्चमी, यथा - प्रासादात्? प्रेक्षत इति। प्रासादमारुह्रेत्यर्थः। तदयमर्थः - नुमा व्यवधानमपि प्राप्य राय आत्त्वं तिसृभावञ्च भवतीति। कस्मात्? पुनर्व्य्रवधाने तौ भवतः`? रायो हलि (7.2.85) इत्यत्र रायो या विहिता विभक्तिः, त्रिशब्दाच्च या विहिता विभक्तिस्तस्यामिति विहितविशेषणपक्षस्य तत्रश्रयणात्। अथ वा - किं व्यवधानचिन्तया, परत्वादेव हि तौ भविष्यतः, तयोस्तु कृतयोः सकृद्गतौ विप्रतिषेधे यद्वाधितं तद्वाधितमेव (व्या।प।40) इति पुनर्नुम्? न भवति। नुम्परत्वमनङ्गीकृत्य व्यवधानान्नुमापि हि इत्युक्तम्। अत एवापिशब्दः पक्षान्तरद्योतनाय प्रयुक्तः। व्यवधाने च यथा भवति, तथोक्तमेव। एवं तर्हि नुम्नुटोर्विप्रतिषेधार्थमज्ग्रहणमिति नुटि कृते नुम्न क्रियते। ह्रस्वनद्यायो नुट् (7.1.54) इति अस्यावकाशः - अग्नीनाम्, वायूनमिति, इगन्तनुमोऽव काशः - त्रपुणे, जतुन इति; इहोभयं प्राप्नोति - त्रपूणाम्, जतूनामिति, पूर्वविप्रतिषेधे नुडागमो भवति, नुटि च सति नामि (6.4.3) इति दीर्घत्वं प्राप्नोति, अस्मस्तु सत#इ न स्यात्; अनजन्तत्वात्, यथा - वर्मणामित्यत्र। स चायं विप्रतिषेधोऽज्ग्रहणे सत्युपपद्यते। नुटि कृते नुम्? न प्राप्नोति; अनजादित्वात्। नुम्यपि कृते नुण्न प्राप्नोति, ह्रस्वान्ताभावादित्येवमभयोस्तुल्ययोर्विप्रतिषेध उपपद्यते। अक्रियमाणेऽज्ग्रहणे नुटि कृतेप्यकृतेऽपि हलादावजादौ च नुमा भवितव्यमिति तस्य नित्यत्वम्। नुमि कृते ह्रस्वान्तत्वाभावान्नुटा न भवितव्यमिति तस्यानित्यत्वम्। नित्यानित्ययोश्चातुल्यबलत्वादयुक्तो विप्रतिषेध इति नित्यत्वान्नुमैव भवितव्यमिति। तस्मादज्ग्रहणं विप्रतिषेधार्थमिति। अत्र परीहारान्तरमाह - नुड् वाच्यः इति। लाघवार्थम्। नुडर्थः पूर्वविप्रतिषेधः। तादध्र्यन्नुदित्युक्तः। क्रियमाणेऽप्यज्ग्रहणे विप्रतिषेदेन नुमेव प्राप्नोति, ततोऽवश्यं पूर्वविप्रतिषेधेन नुड्? वाच्यः - नुमचिरतृज्वद्भावेभ्यो नुङ्? भवति पूर्वविप्रतिषेधेन (वा।11;7.1.96) इति। क्रियमाणेऽप्यज्ग्रहणे पूर्ववप्रतिषेधो वक्तव्यः। अक्रियमाणे तस्मस्तेनैव यत्नेन नुड्? भविष्यतीति किं यत्नद्वयेन, तस्मादज्ग्रहणमनर्थकम्? ननु चेष्टवाची परशब्दः, इष्टवाचित्वाद्भविष्यति, अलं यत्नेन/ असदेतत्, अवश्यं पूर्वविप्रतिषेधः परिगणयतव्यः, अन्यथेदमिष्टमिदमनिष्टमित्येतदेव न ज्ञायते। ननु च त्रपूणामित्यत्र पूर्वविप्रतषेधेन नुटि कृते नुम्? मा भूदित्येवमर्थमज्ग्रहणं कर्तव्यम्? नैतदस्ति; अस्त्वत्र नुम्? तस्य लोपो भविष्यति। नलोपस्य दीर्घविधावसिद्धत्वात्? नामि (6.4.3) इति दीर्घत्वमनजन्तत्वान्न स्यादिति चेत्? मा भूदनेन, नोपधायाः (6.4.7) इत्यनेन भविष्यति। इह तर्हि शुचीनामित्यतर इन्हन्पूषार्यम्णां शौ (6.4.12) इति नियमाद्दीर्घत्वं न स्यात्? नैतदस्ति; लक्षणप्रतिपदोक्तपरिभाषया (व्य।प।3) प्रतिपदोक्तस्येन्नन्तस्य स न#इयमः। अयञ्च नुमि कृते सतोन्नन्त इति लाक्षणिकत्वादेवास्य नियमेन प्रत्याख्यानं करिष्यते। एवं प्रत्याख्यातेऽज्ग्रहणे अत उत्तरतोऽज्ग्रहणस्य प्रयोजनं दर्शयितु माह - उत्तरार्थं तु इति। तुशब्दस्तह्र्रर्ते। तर्हिशब्दः पक्षान्तरोपन्यासे। यद्येतत्? प्रयोजनं नोपपद्यते, उत्तरार्थं तह्र्रज्ग्रहणं कर्तव्यम्। इह तु करणस्य यत्प्रयोजनं तदुच्यताम्? इत्याह - `इह इत्यादि। अपिशब्दोऽत्र गम्यमानार्थत्वान्न प्रयुक्तः। इहापि प्रयोजनमस्ति, किं पुनस्तत्? इत्याह - त्रपो इति। हे त्रपो इत्यस्योदाहरणस्य साधुत्वार्थमज्ग्रहणम्। अक्रियमाणे त्वज्ग्रहणे प्रत्ययलोपलक्षणमिहास्तीति न ज्ञाप्येत; यतश्च हे त्रपो इत्यत्र लुपतायां सम्बुद्धावुच्यमानो गुणो न स्यात्, अज्ग्रहणे सत्यत्रापि प्रत्ययलोपलक्षणो भवति। तस्मादेतदर्थमज्ग्रहणं कर्तव्यम्, उत्तरार्थञ्च॥

Praudhamanorama

वृद्ध्यौत्वेति। ‘अतिसखीनि कुलानि’ इत्यत्र ‘सख्युरसम्बुद्धौ’ इति णिद्वद्भावाद् वृद्धिः प्राप्ता, ‘वारिणि’ इत्यत्र तु ‘अच्च घेः’ इत्यौत्वम्, ‘प्रियक्रोष्टूनि’ इत्यादौ तृज्वद्भावः प्राप्तः। ननु नुम्नुटोः को विशेषस्तत्राह— नामीति। नुमस्तु अङ्गभक्तत्वात् तस्मिन् सति दीर्घो न स्यादिति भावः।

Prakriyasarvasvam

इगन्तस्य क्लीबस्याजादौ सुपि नुम् स्यात् । वारिणी । दीर्घः । वारीणि । सम्बुद्धौ स्येर्लुकि ‘न लुमताङ्गस्य’ (१-१-६३) इति निषेधाद् गुणो न । तस्य निषेधस्यानित्यत्वादिगन्ते क्लीबे गुण इत्येके । हे वारे, हे वारि । द्वितीया प्राग्वत् । नुमः परत्वान्नाभावः । वारिणा । वारि ए । ‘घेर्ङिति’ (७-३-१११) इति गुणे प्राप्ते वृद्ध्यौत्वगुणेभ्यः पूर्वं नुमेवेष्टः । वारिणे । वारिणः । वारिणोः । वारि आम् । अत्र नुमं बाधित्वा नुडेवेष्टः । तेन ‘नामि’ (६-४-३) इति दीर्घः । वारीणाम् । वारिणि । वारिणोः । वारिषु । शुचीति पुल्लिङ्गसाधारणः । सोऽपि शसन्तं वारिवत् ॥

Sarala

गुण इतिह्रस्वस्य गुणः (७.३.१०८) इति गुणोऽपि पक्षे भवतीत्यर्थः । अत एव इकोऽचि विभक्तौ (७.१.७३) इति सूत्रे “हे त्रपो” इति, एङ्ह्रस्वात् सम्बुद्धेः (६.१.६९) इत्यत्र “हे त्रपु” इति च भाष्ये रूपद्वयमुपन्यस्तम् । ननु सम्बुद्धेर्लुका लुप्तत्वान्न लुमतेति प्रत्ययलक्षणनिषेधाच्च कथं गुण इति चेन्न; इकोऽचि विभक्तौ (७.१.७३) इत्यत्राऽज्ग्रहणाज्ज्ञापकान्नलुमतेत्यस्याऽनित्यत्वात् । तथाहि - अज्ग्रहणाऽभावे हलादिषु भ्यामादिषु सत्यपि नुमि नलोपः प्रातिपदिकान्तस्य (८.२.७) इति नलोपसम्भवाद्दोषाऽभावेन अचीति व्यर्थं, न च सम्बुद्धौ नुम्व्यावृत्त्यर्थमज्ग्रहणं, तत्र नुमि सति न ङिसम्बुद्ध्योः (८.२.८) इति निषेधान्नलोपाऽप्रवृत्तेरिति वाच्यं, सम्बुद्धेर्लुका लुप्तत्वेन न लुमताङ्गस्य (१.१.६३) इति निषेधात्प्रत्ययलक्षणाऽप्रवृत्त्या विभक्तिपरत्वाऽभावेन तत्र नुमः प्राप्तेरेवाऽभावात् । एवञ्चाऽज्ग्रहणं व्यर्थं सन्न लुमतेति निषेधोऽनित्य इति ज्ञापयति । तथा च लुका लुप्तेऽपि प्रत्ययलक्षणप्रवृत्त्या सम्बुद्धिपरतया प्राप्तं नुमं वारयितुमज्ग्रहणं सफलमिति भावः । तदेवमनित्यत्वपक्षे सम्बुद्धिनिमित्तो गुणः, अनित्यत्वाऽभावे तु सम्बुद्धिपरत्वाऽभावान्न गुण इति - “हे वारे”, “हे वारीति” रूपद्वयं भवतीत्यवधेयम् । वृद्ध्यौत्त्वेति । वृद्ध्यादीनां क्रमेण - गावौ, हरौ, क्रोष्ट्रा, हरये इत्यत्रावकाशः । नुमः - “वारीणि” इत्यत्रावकाशः, “अतिसखीनि” - इत्यत्र परत्वान्नुमं बाधित्वा - सख्युरसम्बुद्धौ (७.१.९२) इति णित्त्वाद्वृद्धिः प्राप्ता, “वारिणि” इत्यत्र ङेः - अच्च घेः (७.३.११९) इत्त्यौत्त्वं परत्वात्प्राप्तम्, “प्रियक्रोष्टूनि” इत्यत्र जश्शसोः शिः (७.१.२०) परत्वान्नुमं बाधित्वा तृज्वत्त्वं प्राप्तं, “वारिणे” इत्यत्र परत्वान्नुमं बाधित्वा घेर्ङिति (७.३.१११) इति गुणः प्राप्तः । तत्र पूर्वविप्रतिषेधान्नुमेव भवति न परा अपि वृद्ध्यादय इत्यर्थः ॥

Sudha

इकोऽचीति । **इदितो नुम् धातोः**(7.1.58) इत्यतो नुमित्यनुवर्तते, **नपुंसकस्य झलचः**(7.1.72) इत्यतो नपुंसकस्येत्यनुवर्तते । अङ्गस्येत्यधिकृतम् इको विशेष्यते, तदन्तविधिस्तदाह - इगन्तस्येत्यादिना । ‘वारिणी’ । वारि + औ इत्यत्र **नपुंसकाच्च**(7.1.19) इत्यौकारस्य शीत्वे शस्य लोपे च कृते ‘वारि ई’ इति जाते **इकोऽचि विभक्तौ**(7.1.73) इति नुमि कृते उमि गते ‘वारिन् ई’ इति जाते **अट्कुप्वाङ्नुम्व्यवायेऽपि**(8.4.2) इति नस्य णत्वे ‘वारिणी’ इति रूपम् । वारीणि । वारि +जस् इत्यत्र **जश्शसोः शिः**(7.1.20) इति जसः स्थाने शीत्वे **शि सर्वनामस्थानम्**(1.1.42) इति शीत्यस्य सर्वनामस्थानत्वे **लशक्वतद्धिते**(1.3.8) इति शस्येत्संज्ञकत्वे **तस्य लोपः**(1.3.9) इति लोपे **इकोऽचि विभक्तौ**(7.1.73) इति नुमि उकारमकारयोरित्संज्ञकत्वे लोपे च **सर्वनामस्थाने चासम्बुद्धौ**(6.4.8) इति नान्तोपधाया दीर्घत्वे **अट्कुप्वाङ्नुम्व्यवायेऽपि**(8.4.2) इति णत्वे च कृते ‘वारीणि’ इति रूपम् । न लुमतेत्यस्यानित्यत्वादिति । अत्र **इकोऽचि विभक्तौ**(7.1.73) इत्यत्राज्ग्रहणं ज्ञापकम् । तथाहि - हलादिषु भ्यामादिषु सत्यपि नुमि **नलोपः प्रातिपदिकान्तस्य**(8.2.7) इति तस्य लोपसम्भवात्, सम्बुद्धौ तु लुका लुप्ततया प्रत्ययलक्षणाभावेन तत्र नुमः प्राप्तेरभावाच्च अचीति व्यर्थं सत् **न लुमताङ्गस्य**(1.1.63) इत्यस्यानित्यतां ज्ञापयतीति भावः । हे वारे - हे वारि । ‘हे वारि सु’ इत्यत्र **स्वमोर्नपुंसकात्**(7.1.23) इति सोर्लोपे ‘हे वारि’ इति । **न लुमताङ्गस्य**(1.1.63) इत्यस्यानित्यत्वेन **प्रत्ययलोपे प्रत्ययलक्षणम्**(1.1.62) इत्यनेन प्रत्ययलक्षणत्वात्पक्षे **ह्रस्वस्य गुणः**(7.3.108) इति गुणे **एङ्ह्रस्वात् सम्बुद्धेः**(6.1.69) इति सोर्लोपे ‘हे वारे’ इति । आङो नेति । रूपे विशेषाभावेऽपि नुमपेक्षया परत्वेन ना भावस्यैव न्याय्यत्वादिति भावः । वारिणेति । वारि + टा अत्र **शेषो घ्यसखि**(1.4.7) इति घिसंज्ञायाम् **आङो नाऽस्त्रियाम्**(7.3.120) इति टास्थाने नादेशे णत्वे च विहिते ‘वारिणा’ इति रूपम् । वृद्धयौत्वेति । अतिसखिनीत्यत्र **सख्युरसम्बुद्धौ**(7.1.92) इति णिद्वद्भावाद् वृद्धिः प्राप्ता, वारिणीत्यत्र तु **अच्च घेः**(7.3.119) इत्यौवम् । प्रियक्रोष्टुनीत्यादौ तृज्वद्भावः प्राप्तः । वारिण इत्यत्र **घेर्ङिति**(7.3.111) इति गुणः प्राप्तः । तान् सर्वान् पूर्वर्विप्रतिषेधेन बाधित्वा नुमित्यर्थः। वारिणे । वारि + ङे अत्र अनुबन्धलोपे घित्वात् **घेर्ङिति**(7.3.111) इति गुणे प्राप्ते इति पूर्वविप्रतिषेधस्य प्रबलत्वात् **इकोऽचि विभक्तौ**(7.1.73) इति नुमि णत्वे च कृते ‘वारिणे’ इति रूपम् । वारिण इति । ङसिङसोर्गुणं बाधित्वा नुमि णत्वे रूपम् । वारिणोः । वारि + ओस अत्र यणं बाधित्वा नुमि णत्वे च रूपम् । वारीणामिति । वारि + आम् अत्र परत्वान्नुटं बाधित्वा नुमि प्राप्ते इति पूर्वविप्रतिषेधेन नुटि **नामि**(6.4.3) इति दीर्घे णत्वे च कृते ‘वारीणाम्’ इति रूपम् । वारिणीति । वारि + इ इति स्थिते अत्र **अच्च घेः**(7.3.119) इत्यौत्त्वं परमपि बाधित्वा इति पूर्वविप्रतिषेधे नुमि उकारमकारयोरित्सञ्ज्ञकत्वे लोपे नस्य णत्वे च कृते मिलित्वा ‘वारिणि’ इति रूपम् ।

Sutra Prayogas

  • भीमास्त्रराजिनः (शिशुपालवधम्): इकोऽचि विभक्तौ इति नुमागमः।

  • अलाबुनः (भट्टिकाव्यम्): इकोऽचि विभक्तौ इति नुम्।

  • उत्तितीर्षा- (भट्टिकाव्यम्): इको ऽचि विभक्तौ इति नुम् न भवति।