71072: नपुंसकस्य झलचः¶
Padacheda: नपुंसकस्य | S | 6 | 1 |
झलचः | S | 6 | 1 |
Sutrartha¶
झलन्तस्य अजन्तस्य च नपुंसकस्य सर्वनामस्थाने परे नुमागमः भवति ।
झल्-प्रत्याहारे सर्वे वर्गचतुर्थाः, वर्गतृतीयाः , वर्गद्वितीयाः वर्गप्रथमाः तथा ऊष्माणः समाविश्यन्ते । अच्-प्रत्याहारे सर्वे स्वराः सन्ति । एतेषु सर्वेषु कश्चन वर्णः यदि नपुंसकलिङ्गशब्दस्य अन्तिमस्थाने आगच्छति, तर्हि तस्य शब्दस्य सर्वनामस्थाने परे (इत्युक्ते जस् / शस्-प्रत्यययोः परयोः) नुमागमः विधीयते । ‘नुम्’ इति आगमः मित्-आगमः अस्ति, अतः मिदचोऽन्त्यात्परः (1.1.47) इत्यनेन अन्त्यात् अचः परः आगच्छति । उदाहरणानि एतानि - 1. फल + जस् [प्रथमाबहुवचनस्य जस्-प्रत्ययः] → फल + शि [जश्शसोः शिः (7.1.20) इति जस्/शस्-प्रत्यययोः शि-आदेशः । शि सर्वनामस्थानम् (1.1.42) इति शि-प्रत्ययस्य सर्वनामस्थानसंज्ञा । अनेकाल् शित्सर्वस्य (1.1.55) इति सर्वादेशः । ] → फल + इ [शकारस्य इत्संज्ञा, लोपः ] → फल नुम्+ इ [नपुंसकस्य झलचः (7.1.72) इति अजन्तस्य अङ्गस्य सर्वनामस्थाने परे नुमागमः] → फल न् + इ [इत्संज्ञालोपः] → फलानि [सर्वनामस्थाने चासम्बुद्धौ (6.4.8) इत्यनेन नकारान्तस्य अङ्गस्य उपधायाः सर्वनामस्थाने परे दीर्घः 2. जगत् + शस् [द्वितीयाबहुवचनस्य जस्-प्रत्ययः] → जगत् + शि [जश्शसोः शि (7.1.20) इति शि-आदेशः । शि सर्वनामस्थानम् (1.1.42) इति सर्वनामस्थानसंज्ञा ।] → जगन् त् + इ [शकारस्य इत्संज्ञा, लोपः । नपुंसकस्य झलचः (7.1.72) इति अङ्गस्य नुमागमः] → जगंति [नश्चापदान्तस्य झलि (8.3.24) इति अनुस्वारः] → जगन्ति [अनुस्वारस्य ययि परसवर्णः (8.4.58) इति परसवर्णः] 3. पयस् + शस् [द्वितीयाबहुवचनस्य जस्-प्रत्ययः] → पयस् + शि [जश्शसोः शि (7.1.20) इति शि-आदेशः । शि सर्वनामस्थानम् (1.1.42) इति सर्वनामस्थानसंज्ञा ।] → पयन्स् + इ [शकारस्य इत्संज्ञा, लोपः । नपुंसकस्य झलचः (7.1.72) इति अङ्गस्य नुमागमः] → पयान्स् + इ [सान्तमहतः संयोगस्य (6.4.10) इत्यनेन नकारस्य उपधावर्णस्य दीर्घादेशः] → पयांसि [नश्चापदान्तस्य झलि (8.3.24) इति नकारस्य अनुस्वारः] 4. पठ् धातोः शतृँ-प्रत्ययान्तरूपम् ‘पठतृँ’ अस्मिन् शब्दे ऋकारः इत्संज्ञकः अस्ति । अस्य नपुंसकलिङ्गस्य प्रथमाबहुवचनस्य रूपसिद्धौ - पठतृँ + जस् [प्रथमाबहुवचनस्य प्रत्ययः] → पठत् + शि [जश्शसोः शि (7.1.20) इति शि-आदेशः । शि सर्वनामस्थानम् (1.1.42) इति सर्वनामस्थानसंज्ञा ।] → पठन् त् + इ [उगिदचां सर्वनामस्थानेऽधातोः (7.1.70) इत्यनेन नुमागमे प्राप्ते विप्रतिषेधेन नपुंसकस्य झलचः (7.1.72) इत्यनेन पुनः नुमागमः] → पठं त् + इ [नश्चापदान्तस्य झलि (8.3.24) इति अनुस्वारः] → पठन् त् + इ [अनुस्वारस्य ययि परसवर्णः (8.4.58) इति परसवर्णः] → पठन्ति ज्ञातव्यम् - 1. यदि नपुंसकलिङ्गशब्दः झलन्तः अजन्तः वा नास्ति, तर्हि अनेन सूत्रेण तस्य नुमागमः न भवति । यथा, ‘वार्’ इति रेफान्तशब्दस्य प्रथमाद्वितीयाबहुवनचम् ‘वारि’ इत्यत्र नुमागमः न क्रियते । 2. इक्-वर्णान्त-नपुंसकलिङ्गशब्दानां विषये अयमेव नुमागमः विप्रतिषेधेन इकोऽचि विभक्तौ (7.1.73) इत्यनेन भवति, वर्तमानसूत्रेण न । 3. उगित्-शब्दानां विषये उगिदचां सर्वनामस्थानेऽधातोः (7.1.70) इत्यनेन नुमागमे प्राप्ते विप्रतिषेधेन वर्तमानसूत्रेणैव नुमागमः क्रियते । प्रश्नः - उगिदचां सर्वनामस्थाने अधातोः (7.1.70) तथा नपुंसकस्य झलचः (7.1.72) एतयोर्मध्ये विप्रतिषेधः कथं सिद्ध्यति ? उत्तरम् - ‘भवन्तौ’, ‘पठन्तः’, ‘अङ्’, ‘यावान्’ - एतेषु शब्देषु उगिदचां सर्वनामस्थाने अधातोः (7.1.70) इत्यस्य प्रसक्तिः अस्ति परन्तु नपुंसकस्य झलचः (7.1.72) इत्यस्य प्रसक्तिः न विद्यते । ‘फलानि’, ‘जगन्ति’, ‘पयांसि’ - एतेषु शब्देषु नपुंसकस्य झलचः (7.1.72) इत्यस्य प्रसक्तिः विद्यते, परन्तु उगिदचां सर्वनामस्थाने अधातोः (7.1.70) इत्यस्य प्रसक्तिः न विद्यते । ‘यावन्ति’ (= यावत् शब्दस्य नपुंसकलिङ्गस्य प्रथमाबहुवचनम्), ‘पठन्ति’ (= ‘पठत्’ शब्दस्य नपुंसकलिङ्गस्य प्रथमाबहुवचनम्) इत्यत्र द्वयोः अपि सूत्रयोः प्रसक्तिः अस्ति । अनेन प्रकारेण अत्र विप्रतिषेधः सिद्ध्यति । (यत्र द्वौ प्रसङ्गौ अन्यार्थौव एकस्मिन् युगपत् प्राप्नुतः, स तुल्यबलविरोधो विप्रतिषेधः - इति काशिका) । अतश्च अत्र विप्रतिषेधे परं कार्यम् (1.4.2) इत्यनेन नपुंसकस्य झलचः (7.1.72) इत्यस्य प्रयोगः भवति । शास्त्रविशेषः - ‘गो’ उपपदपूर्वकः यः अञ्च् (पूजायाम्) धातुः, तस्मात् ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च (3.2.59) इत्यनेन क्विन्-प्रत्ययं कृत्वा ‘गवाञ्च्’ इति चकारान्तं नपुंसकलिङ्गं प्रातिपदिकम् सिद्ध्यति । तस्य प्रथमैकवचनस्य द्वितीयैकवचनस्य च रूपम् ‘गवाञ्ञ्चि’ इति भवति, न हि ‘गवाञ्चि’ इति । प्रक्रिया एतादृशी - गवाञ्च् + जस् / शस् → गवाञ्च् + शि [जश्शसोः शि (7.1.20) इति शि-आदेशः । शि सर्वनामस्थानम् (1.1.42) इति सर्वनामस्थानसंज्ञा ।] → गवाञ्च् + इ [इत्संज्ञालोपः] → गवान् ञ्च् + इ [नपुंसकस्य झलचः (7.1.72) इत्यनेन नुमागमः] → गवाञ्ञ्चि [स्तोः श्चुना श्चुः (8.4.40) इति श्चुत्वम्] परन्तु केचन वैयाकरणाः अत्र ‘गवाञ्चि’ इति एक-ञकारयुक्तं रूपमेव साधु मन्यन्ते । अस्मिन् विषये भाष्यकारः ब्रूते - ‘न व्यञ्जनपरस्य एकस्य वा अनेकस्य वा श्रवणं प्रति विशेषः अस्ति’ । इत्युक्ते, एक-ञकारेण यथा उच्चारणं भवति तथैव अनेक-ञकारैः सह भवति, अतः ‘गवाञ्ञ्चि’ इत्यस्य उच्चारणमपि ‘गवाञ्चि’ इत्यनेन समानमेव स्यात् । परन्तु केचन पण्डिताः एतं पक्षं नैव स्वीकुर्वन्ति । तेषां कृते भाष्यकारः अग्रे वदति - ‘अचः इत्येषा पञ्चमी, अचः उत्तरः यः झल्, तदन्तस्य नपुंसकस्य नुमा भवितव्यम्’ । इत्युक्ते, यदि ‘गवाञ्चि’ इत्येव रूपं साधनीयमस्ति, तर्हि अस्मिन् सूत्रे ‘अचः’ इति पञ्चमी स्वीकर्तव्या, येन ‘यस्मिन् नपुंसकलिङ्गशब्दे अन्तिमः झल्-वर्णः अच्-वर्णात् परः विद्यते, तस्यैव नुमागमः भवेत्’ इति अर्थः जायते । अस्यां स्थितौ ‘गवाञ्च्’ इत्यत्र नुमागमः नैव भवेत्, यतः अन्तिमः चकारः अच्-वर्णात् परः नास्ति अपितु ञकारात् परः अस्ति । अनेन चिन्तनेन ‘गवाञ्चि’ इति साधु रूपं तु अवश्यं सिद्ध्यति, परन्तु अग्रे केचन अन्ये अधिकाः दोषाः जायन्ते । अतः अस्य पक्षस्य समर्थनमन्यैः व्याख्यानैः अपि न क्रियते । अस्मिन् विषये अधिकं पिपठिषवः अस्य सूत्रस्य भाष्यमेव पश्यन्तु । स्मर्तव्यम् - ‘गो’ उपपदपूर्वकः यः अञ्च् (गतौ) धातुः, तस्मात् क्विन्-प्रत्ययं कृत्वा तु गवाच् ‘ इति चकारान्तं नपुंसकलिङ्गं प्रातिपदिकम् सिद्ध्यति, अतः तस्य विषये वर्तमानसूत्रेण नुमागमः अवश्यं भवति । उपरि निर्दिष्टं चिन्तनम् केवलम् ‘अञ्च् पूजायाम्’ इत्यस्य विषये अस्ति, न हि ‘अञ्च् गतौ’ इत्यस्य विषये ।
Sutrartha (English)¶
A झलन्त and an अजन्त नपुंसक word gets a नुमागम when followed by a सर्वनामस्थान.
Vasu English Summary¶
The augment (नुम्) न् is added in the strong cases to a Neuter अङ्ग (stem) ending in a consonant (other than a nasal or a semi-vowel) or ending in a vowel.
Vasu English Translation¶
The augment (नुम्) न् is added in the strong cases to a Neuter अङ्ग (stem) ending in a consonant (other than a nasal or a semi-vowel) or ending in a vowel. Thus उदश्विन्ति, शकृन्ति (6.4.10) यशांसि, पयांसि; कुण्डानि, वनानि (6.4.8), त्रपूणि, जतूनि ॥ Why ‘of a Neuter’? Observe अग्निचिद् ब्राह्मणः ॥ Why do we say ‘not ending in a semivowel or a nasal’? Observe बहुपुरि, बहुधुरि, विमलदिवि, चत्वारि, अहानि (7.1.98). A neuter having an indicatory उक् vowel gets नुम् by this sutra and not by (7.1.70), as that is superseded by this, this being the subsequent. As श्रेयांसि, भूयांसि कुर्वन्ति कृषन्ति ब्राह्मणकुलानि ॥
Vart:- Prohibition should be stated with regard to बहूर्जि; as बहूर्जि ब्राह्मणकुलानि ॥ Some would have न् added between र् and ज् of this word, as बहूर्ञ्जि ब्राह्मणकुलानि ॥ See (1.4.13).
Bhashya¶
नपुंसकस्य झलचः ॥ झलचो नुम्विधावुगित्प्रतिषेधः ॥ झलचो(5) नुम्विधावुगिल्लक्षणस्य प्रतिषेधो वक्तव्यः । गोमन्ति ब्राह्मणकुलानि, श्रेयांसि, भूयांसि । ननु च झल्लक्षण उगिल्लक्षणं बाधिष्यते ॥ कथमन्यस्योच्यमानमन्यस्य बाधकं स्यात् ? ॥ असति खल्वपि संभवे बाधनं भवति, अस्ति च संभवो यदुभयं स्यात् ॥ किं च स्याद्यद्यत्रोगिल्लक्षणोऽपि स्यात् ? ॥ द्वयोर्नकारयोः श्रवणं प्रसज्येत ॥ न व्यञ्ञ्जनपरस्यैकस्य (1) वाऽनेकस्य वा श्रवणं प्रति विशेषोऽस्ति ॥ ननु च प्रतिज्ञाभेदो भवति ॥ श्रुतिभेदेऽसति किं प्रतिज्ञाभेदः करिष्यति(2)? ॥ ननु च श्रुतिकृतोऽपि भेदोऽस्ति। इह तावत् - श्रेयांसि भूयांसीति(4) । परस्यानुस्वारे कृते पूर्वस्य श्रवणं प्राप्नोति । तथा कुर्वन्ति कृषन्तीति(5), परस्याऽनुस्वारपरसवर्णयोः कृतयोः पूर्वस्य णत्वं प्राप्नोति ॥ अथैकस्मिन्नपि नुमि णत्वं कस्मान्न भवति ? ॥ अनुस्वारीभूतो णत्वमतिक्रामति ॥ कृते तर्हि परसवर्णे कस्मान्न भवति? ॥ असिद्धे च परसवर्णः(1) ॥ ॥ विप्रतिषेधात्सिद्धम् ॥ विप्रतिषेधात्सिद्धमेतत् । झल्लक्षणः क्रियतामुगिल्लक्षण इति झल्लक्षणो भविष्यति विप्रतिषेधेन । झल्लक्षणस्यावकाशः - सर्पींषि धनूंषि । उगिल्लक्षणस्यावकाशः - गोमान् यवमान् । इहोभयं प्राप्नोति - गोमन्ति ब्राह्मणकुलानि, यवमन्ति ब्राह्मणकुलानि, श्रेयांसि भूयांसीति(2) ? ॥ झल्लक्षणो भविष्यति विप्रतिषेधेन ॥ ननु च पुनः प्रसङ्गविज्ञानादुगिल्लक्षणः प्राप्नोति ॥ पुनः प्रसङ्ग इति चेदमादिभिस्तुल्यम् ॥ ॥। पुनः प्रसङ्ग इति चेदमादिभिस्तुल्यमेतद्भवति। तद्यथा - युष्मदस्मदोरमादिषु कृतेषु पुनः प्रसङ्गच्छिशीलुङ्नुमो न भवन्ति । एवं झल्लक्षणे कृते पुनः प्रसङ्गादुगिल्लक्षणो न भविष्यति । यदप्युच्यते असति खल्वपि संभवे बाधनं भवति, अस्ति च संभवो यदुभयं स्यादिति । सत्यपि संभवे बाधनं भवति। तद्यथा - दधि ब्राह्मणेभ्यो दीयतां तक्रं कौण्डिन्यायेति सत्यपि संभवे दधिदानस्य तक्रदानं निवर्तकं भवति। एवमिहापि सत्यपि संभवे झल्लक्षण उगिल्लक्षणं बाधिष्यते । अथवाऽस्त्वत्र उगिल्लक्षणोपि ॥ ननु चोक्तं द्वयोर्नकारयोःश्रवणं प्रसज्येतेति ॥ परहृतमेतत् न व्यञ्ञ्जनपरस्यैकस्य वाऽनेकस्य वा श्रवणं प्रति विशेषोस्तीति(2) ? ॥ ननु चोक्तं प्रतिज्ञाभेदो भवतीति ॥ श्रुतिभेदेऽसति प्रतिज्ञाभेदः किं करिष्यति(1) ? ॥ ननु च श्रुतिकृतोपि भेद उक्तः, - ःइह तावच्छ्रेयांसि भूयांसीति, परस्यानुस्वारे कृते पूर्वस्य श्रवणं प्रसज्येत । कुर्वन्ति कृष(2)न्तीति - परस्यानुस्वारपरसवर्णयोः कृतयोः पूर्वस्य णत्वं प्राप्नोतीति ॥ नैषः दोषः । अयोगवाहानामविशेषेणोपदेशश्चोदितः । तत्रेह तावत् - श्रेयांसि भूयांसीति । परस्यानुस्वारे कृते तस्य झल्ग्रहणेन(3) ग्रहणात्पूर्वस्यानुस्वारो भविष्यति । कुर्वन्ति कृष(2)न्तीति । परस्यानुस्वारपरसरर्णयोः(4) कृतयोस्तस्य झल्ग्रहणेन ग्रहणात्पूर्वस्यानुस्वारपरसवर्णौ भविष्यतः ॥ नैव वा पुनरत्रोगिल्लक्षणः प्राप्नोति ॥ किं कारणम् ? ॥ मिदचोन्त्यात्पर इत्युच्यते न च द्वयोर्मितोरचामन्त्यात्परत्वे संभवोऽस्ति ॥ कथं तर्हीमौ द्वौ मितावचामन्त्यात्परौ स्तो - बह्वनङ्वांहि ब्राह्मणकुलानीति ? ॥ विनिमित्तावेतौ ॥ ॥ तत्र बहूर्जि प्रतिषेधः ॥ तत्र बहूर्जि प्रतिषेधो वक्तव्यः । बहूर्जि ब्राह्मणकुलानीति ॥ अन्त्यात्पूर्वं नुममेके ॥ अन्त्यात्पूर्वं नुममेके इच्छन्ति ॥ किमविशेषेण आहो स्विद्बहूर्जावेव ? ॥ किं चातः ? ॥ यद्यविशेषेण, काष्ठतकं्षीति भवितव्यम् । अथ बहूर्जावेव, काष्ठतड्क्षीति भवितव्यम् ॥ एवं तर्हि बहूर्जावेव । बहूर्ञ्ञ्जि(1) ॥ स तर्हि प्रतिषेधो वक्तव्यः ? ॥ न वक्तव्यः । अच इत्येषा पञ्ञ्चमी । अच उत्तरो यो झल् तदन्तस्य नपुंसकस्य नुमा भवितव्यम् । यश्चाऽत्र अच उत्तरो नाऽसौ झल्, नाऽपि तदन्तं नपुंसकम् । यदन्तं च(2) नपुंसकं नासावच उत्तरः ॥ इहापि तर्हि न प्राप्नोति - काष्ठातड्क्षीति । अत्र योऽच उत्तरो झल् न(3) तदन्तं नपुंसकं, यदन्तं च नपुंसकं नासावच उत्तरः ॥ नैतदस्ति, - झल्जातिः प्रतिनिर्दिश्यते, - अच उत्तरा या झल्जातिरिति ॥ यदि पञ्ञ्चमी, कुण्डानि वनानी त्यत्र न प्राप्नोति ॥ एवं तर्हि इकोऽचि विभक्तावित्यत्राऽचः सर्वनामस्थानेःइत्येतदनुवर्तिष्यते । एवमपि षष्ठ्यभावान्न प्राप्नोति ॥ सर्वनामस्थाने इत्येषा सप्तमी अचेति पञ्ञ्चम्याः षष्ठीं प्रकल्पयिष्यति - तस्मिन्निति निर्दिष्टे पूर्वस्येति ॥ ( नपुंसकस्य झलचः ) ॥
Kashika¶
नपुंसकस्य झलन्तस्याजन्तस्य च सर्वनामस्थाने परतो नुमागमो भवति। उदश्विन्ति। शकृन्ति। यशांसि। पयांसि। अजन्तस्य — कुण्डानि। वनानि। त्रपूणि। जतूनि। नपुंसकस्येति किम्? अग्निचिद् ब्राह्मणः। झलच इति किम्? बहुपुरि। बहुधुरि। विमलदिवि। चत्वारि। अहानि। उगितो झलन्तस्य नपुंसकस्य परत्वादनेनैव नुम् भवति। श्रेयांसि। भूयांसि। कुर्वन्ति। कृषन्ति ब्राह्मणकुलानि॥ बहूर्जि प्रतिषेधो वक्तव्यः॥ बहूर्जि ब्राह्मणकुलानि। अन्त्यात् पूर्वं नुममेक इच्छन्ति। बहूर्ञि्ज ब्राह्मणकुलानि॥
Siddhanta Kaumudi¶
झलन्तस्याऽजन्तस्य च क्लीबस्य नुमागमः स्यात्सर्वनामस्थाने परे । उपधादीर्घः । ज्ञानानि । पुनस्तद्वत् । शेषं रामवत् । एवं धनवनफलादयः ॥
Laghu Siddhanta Kaumudi¶
झलन्तस्याजन्तस्य च क्लीबस्य नुम् स्यात् सर्वनामस्थाने॥
Balamanorama¶
नपुंसकस्य झलचः - नपुंसकस्य । झल्व अच्चेति समाहारद्वन्द्वः । तेन च अङ्गस्येत्यधिकृतं विशेष्यते । तदन्तविधिः ।इदितो नु॑मित्यतो नुमित्यनुवर्तते । तदाह — झलन्तस्येत्यादिना । मित्त्वादन्त्यादचः परः । उपधादीर्घ इति । ज्ञानन् इ इति स्थितेसर्वनामस्थाने चे॑ति दीर्घ इत्यर्थः । पुनस्तद्वदिति । अमौट्शस्सु ज्ञानं ज्ञाने ज्ञानानि इति क्रमेण रूपाणीत्यर्थः । शेषं रामवदिति । शिष्यत इति शेषम् । कर्मणि घञ् ।घञजबन्ताः पुंसी॑ति तु प्रायिकमिति भावः ।
Tattvabodhini¶
नपुंसकस्य झलचः - नपुंसकस्य झलचः ।इदितो नुम् धातो॑रित्यतो नुमनुवर्तते ।उगिदचा॑मित्यतःसर्वनामस्थाने॑इति च ।अङ्गस्ये॑ति चाघधिकृतम् । तथाच झलज्भ्यां नपुंसतमङ्गं विशेष्यते, विशेषणेन च तदन्तविधिर्भवतीत्याह -झलन्तस्येत्याद ।
Padamanjari¶
त्रपूणीति । यद्यप्यत्र इकोऽचि विभक्तौ इत्येव नुम्सिद्धः, तथापि अचः, इति प्रत्याहारग्रहणस्यानन्यार्थत्वादनेनैव नुम् भवति । कः पुनरत्र विशेषः - तेन वा नुमि सति, अनेन वा न तु कश्चिद्विशेषः, भ्यायस्तु प्रदर्शितः । यद्येवम्, मा कारि प्रत्याहारग्रहणम्, अकार एव गृह्यताम् - झलत इति कः पुनरेवं लाघवे विशेषः । किञ्चाक्ष प्रत्याहारग्रहणात् उगिदजाम् इत्यत्र अञ्चतेर्ग्रहणम्, न प्रत्याहारस्य इत्युक्तम्, तदपि विघटितं स्यात् । बहुपुरीति । बहवः पुरो येषामिति बहुव्रीहौ ऋक्पूर्ब्धूः पथामानक्षे इत्यकारः समासान्तः प्राप्तः, समासान्तविधेरनित्यत्वान्न भवति । विमलाद्यौर्येषु तानि विमलदिवि दिनानि । इह झल्लक्षणस्य नुमोऽवकाशो यदुगिदनुपंसकम् - सर्पीषि, धनूषि, तौगिल्लक्षणस्वावकाशो यदनुगिन्नपुंसकम् - गोमान् , यवमान्, उगितो झलन्तस्य नपुंकस्योभयप्रसङ्गे परत्वादनेनैव नुम् भवति । अस्तु, कृते पुनः प्रसङ्गविज्ञानादुगिल्लक्षणोऽपि नुम् प्राप्नोति, कथं पुनरेकमन्त्यमचमपेक्ष्यानेकस्य परत्वं सम्भवति मा नाम सम्भूत्प्रयोगे, विधानकाले तु सम्भवति, यथा पचतीति लटः शपश्च तत्र तुदन्ती, नुदन्तीत्यत्र परस्थ नकारस्यानुस्वारपरसवर्णयोः कृतयोर्द्वयोर्नकारयोः श्रवणं प्रति विशेषोऽस्ति । इह तर्हि - कृषन्ति, रुपन्तीत्यत्र परस्य नुमोऽनुस्वारपरसवर्णयोः कृतयोः पूर्वस्याझल्परत्वादनुस्वारपसवर्णौ न स्त इति अट्कुप्वाङ्नुम्व्यवायेऽपि इति णत्वं प्राप्नोति, यदा पुनरेको नुम् तदा तस्यानुस्वारश्च प्राप्नोति णत्वं च, तत्र णत्वस्यासिद्धत्वादनुस्वारे कृते परसवर्णः, तस्यासिध्दत्वाण्णत्वाभावः सिद्धः, तस्मादुगिल्लक्षणस्य प्रतिषेधो वक्तव्यः इत्याशङ्क्याह - उगितो झलन्तस्येति । सकृद्गतिन्यायोऽत्राश्रीयत इत्येवकारेण दर्शयतिः अनेनैवेति । अन्त्यात्पूर्व इति । रेफजकारयोर्मध्य इत्यर्थः ॥
Nyaas¶
पर्यासि, श्रोयांसि इति। सान्तमहतः संयोगस्य (6.4.10) इति दीर्घः। बहुपुरि, बहुधुरि इति। बह्व्यः पुरः, बह्व्यो धुरो येषामिति बहुव्रीहिः। ऋक्पुरब्धूः पथामानक्षे (5.4.74) इत्यकारः समासान्तो न भवति - समासान्तविधिरनित्यः (व्या।प।94) इति कृत्वा। विमलदिवि इति। विमला द्यौर्येषामिति तानि। विमलदिवि वकारो दन्त्यौष्ठओ झल्? न भवति, झलः पूर्वेण पठितत्वात्। चत्वारि इति। चतुरनडुहोरामुदात्तः (7.1.98) इत्याम्। इह यदुगिन्नपुंसकं झलन्तं नुमि कृते उगिदचाम् (7.1.70) इत्यादिना द्वितीयो नुम्? प्राप्नोति; सम्भवति हि विधानकालेनेकस्य परत्वम्, यथा - पचतीत्यत्र लकारविकरणयोरेकस्माद्धातोरिति। अत्र तुदन्ति, नदन्तीत्यत्र परसय नुमोऽनुस्वारे कृते तसय परसवर्णे च द्वयोर्नकारयोः श्रवणमापद्येत? भवतु नाम, हल्परस्य व्यञ्जनस्यैकस्यानेकस्य श्रुतिं प्रति नास्ति विशेषः शक्यते वक्तुम्। इह त्वस्ति विशेषः - कुर्वन्ति, कृषन्तीत्यत्र परस्य नुमोऽनुस्वारसवर्णयोः कृतयोः पूर्वस्याझल्परत्वादनुस्वारपरसवर्णौ न स्त इति अट्कुप्वादिना (8.4.2) णत्वं प्राप्नोति। एकस्मस्तु नुमि तस्यानुस्वारे परसवर्णे कृते न भवति णत्वप्रसङ्गः; परसवर्णस्यासिद्धत्वात्। तस्मादुगिल्लक्षणस्य नुमः प्रतिषेधो वक्तव्य इत्याह - उगितो झलन्तस्य इत्यादि। झलन्तलक्षणस्य नुमोऽवकाशो यदनुगिन्नपुंसकम् - सर्पीषीति, उगिल्लक्षणस्यावकाशो यदुगिदनपुंसकम् - गोमान्? यवमानिति; यदुगिज्झलन्तं नपुंसकं तस्योभयप्रसङ्गे सति परत्वादनेनैव नुमा भवितव्यम्, तस्मिन्? सति पुनरुगिल्लक्षणो नुम्? न भवति - सकृद्गतौ विप्रतिषेधे यद्वाधितं तद्वाधितमेव (व्य।प।40) इति कृत्वा। भूयांसि इत#इ। बहुशब्दादीयसुन्, बहोर्लोपो भू च बहोः (6.4.158) इतीकारस्य लोपः, बहोश्च भूभावः। कुर्वन्ति, कृषन्ति इति। शत्रन्तात्? जश्शसोः शिः (7.1.20) इति शिभावः। बहुर्जि इत्यादि। बहूर्जीत्यस्मिन्? नुभः प्रतिषेधो वक्तव्यः, व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम् - विभाषा चिण्णमुलोः (7.1.69) इति विभाषाग्रहणमनुवर्तते, सा च व्यवस्थितविभाषा, तेन बहूर्जीत्यत्र न भवति। उर्ज बलप्राणधारणयोः (धातुपाठः-1549) [`बलप्राणनयोः धातुपाठः-] इत्येतस्मात्? भ्राजभ्रास (3.2.177) इत्यादिना क्विप्, बहव ऊर्जो बलानि येषां तानि बहूर्जि ब्राआहृणकुलानि। अन्त्यात्पूर्वम् इति। अन्त्यो जकारः, तस्मात्पूर्वं नुममिच्छन्ति केचित् - बहूर्ञ्जीति॥
Prakriyasarvasvam¶
झलन्तस्याजन्तस्य च क्लीबस्य सर्वनामस्थाने परे नुम् स्यात् । ज्ञानन् इ । ‘सर्वनामस्थाने च—’ (६-५-८) इति दीर्घः । ज्ञानानि । सम्बुद्धौ ज्ञान अम् । ‘अमि पूर्वः’ (६-१-१०७) इत्यकारस्य पूर्वरूपम् । ‘एङ्ह्रस्वात्—’ (६-१-६९) इति सम्बुद्धेर्मलोपः । हे ज्ञान । द्वितीया प्रथमावत् । ज्ञानं, ज्ञाने, ज्ञानानि । क्लीबे । शिरेव सर्वनामस्थानमित्यौऔटारपि भत्वेन ज्ञाने इत्यत्र ज्ञान ई इति स्थिते ‘यस्य’ (६-४-१४८) इति लोपे प्राप्ते औङ श्यां परे प्रतिषेधो वाच्य इति न स्यात् । टादौ कृष्णवत् । सर्वादीनामपि प्रथमाद्वितीययोर्ज्ञानवत् । शेषं पुंवत् । कतर स्
Sudha¶
नपुंसकस्य झलच इति । झल् च अच्चेति समाहारद्वन्द्वः | तेन च अङ्गस्येत्यधिकृतं विशेष्यते । तदन्तविधिः । **इदितो नुम् धातोः**(7.1.58) इत्यतो नुमित्यनुवर्तते । **उगिदचां सर्वनामस्थानेऽधातोः**(7.1.70) इत्यतः सर्वनामस्थाने इत्यनुवर्तते । तदाह – झलन्तेति ।
Vartika¶
बहूर्जेर्नुम्प्रतिषेधः ।
Sutra Prayogas¶
विभ्रमातिशयपुंसि (शिशुपालवधम्): नपुंसकस्य झलचः इति मुमागमः।
सदृशि (शिशुपालवधम्): नपुंसकस्य झलचः इति नुम् ।