71063: रभेरशब्लिटोः

Padacheda: रभेः | S | 6 | 1 |

अ-शप्-लिटोः | S | 7 | 2 |

Sutrartha

रभ्-धातोः शप्-प्रत्ययं लिट्-लकारं च विहाय अन्येषु अजादिप्रत्ययेषु परेषु नुमागमः भवति ।

रभँ (राभस्ये, भ्वादिः, आत्मनेपदी, प्रायेण आङ्-पूर्वः, (1.1129)) इति धातोः अजादिप्रत्यये परे नुमागमः भवति । परन्तु शप्-विकरणप्रत्यये परे, लिट्-लकारस्य विषये च अयं नुमागमः न क्रियते । उदाहरणानि एतानि - 1) रभ्-धातोः घञ्-प्रत्यये परे प्रक्रिया -

रभँ (राभत्स्ये)
→ आ + रभ् + घञ् [**भावे** (3.3.18) इति घञ्]
→ आ + रभ् + अ [इत्संज्ञालोपः]
→ आ + र नुम् भ् + अ [**रभेरशब्लिटोः** (7.1.63) इत्यनेन अचि परे रभ्-धातोः नुमागमः। **मिदचोऽन्त्यात्परः** (1.1.47) इति सः अन्त्यात् अचः परः ।]
→ आ र न् भ् अ [इत्संज्ञालोपः]
→ आरंभ [**नश्चापदान्तस्य झलि** (8.3.24) इति अनुस्वारः]
→ आरम्भ [**अनुस्वारस्य ययि परसवर्णः** (8.4.58) इति परसवर्णः]
  1. रभ्-धातोः णिच्-प्रत्यये परे प्रक्रिया -

रभँ (राभत्स्ये)
→ आ + रभ् + णिच् [**हेतुमति च** (3.1.26) इति णिच्]
→ आ + रभ् + इ [इत्संज्ञालोपः]
→ आ + र नुम् भ् + इ [**रभेरशब्लिटोः** (7.1.63) इत्यनेन अचि परे रभ्-धातोः नुमागमः। **मिदचोऽन्त्यात्परः** (1.1.47) इति सः अन्त्यात् अचः परः । अत्र **अतः उपधायाः** (7.2.116) इत्यनेन परत्वात् प्राप्तम् उपधावृद्धिकार्यम् वर्तमानसूत्रेण नित्यत्वात् बाधते । अतः अत्र नुमागमः एव भवति ।]
→ आ र न् भ् इ [इत्संज्ञालोपः]
→ आरंभि [**नश्चापदान्तस्य झलि** (8.3.24) इति अनुस्वारः]
→ आरम्भि [**अनुस्वारस्य ययि परसवर्णः** (8.4.58) इति परसवर्णः । **सनाद्यन्ता धातवः** (3.1.32) इति धातुसंज्ञा ।]
  1. रभ्-धातोः लट्-लकारस्य प्रथमपुरुषैकवचनम् -

रभँ (राभत्स्ये)
→ आ + रभ् + लट् [**वर्तमाने लट्** (3.2.123) इति लट्]
→ आ + रभ् + त [**तिप्तस्..** (3.4.78) इत्यनेन आत्मनेपदस्य प्रथमपुरुषैकवचनस्य विवक्षायाम् 'त' प्रत्ययः]
→ आ + रभ् + शप् + त [**कर्तरि शप्** (3.1.68) इति औत्सर्गिकम् विकरणम् शप् । शप्-प्रत्ययस्य उपस्थितौ **रभेरशब्लिटोः** (7.1.63) इत्यस्य प्रसक्तिः नास्ति, अतः नुमागमः न भवति ।]
→ आ + रभ् + अ + ते [**टित आत्मनेपदानां टेरे** (3.4.79) इति एकारः]
→ आरभते
  1. रभ्-धातोः लिट्-लकारस्य प्रथमपुरुषैकवचनम् -

रभँ (राभत्स्ये)
→ आ + रभ्  + लिट् [**परोक्षे लिट्** (3.2.115) इति लिट्]
→ आ + रभ्  + रभ् +  लिट् [**लिटिधातोरनभ्यासस्य** (6.1.8) इति द्वित्वम्]
→  आ + र  + रभ्  + लिट् [**हलादि शेषः** (7.4.60) इति अभ्यासस्य भकारलोपः]
→ आ + र रभ्  + त [**तिप्तस्झि...** (3.4.78) इति प्रथमपुरुषैकवचनस्य त-प्रत्ययः]
→ आ रेभ्  + त [**अत एकहल्मध्येऽनादेशादेर्लिटि** (6.4.120) इति अभ्यासस्य लोपः, धातोः अकारस्य च एकारः]
→ आ + रेभ्  + एश्  [**लिटस्तझयोरेशिरेच्** (3.4.81) इत्यनेन त-प्रत्ययस्य एश्-आदेशः । यद्यपि अयम् अजादिः आदेशः, तथापि अयं लिट्-लकारस्य स्थाने विधीयते, अतः अत्र **रभेरशब्लिटोः** (7.1.63)  इति नुमागमः न भवति ।]
→ आरेभे [शकारस्य इत्संज्ञालोपः]

सूत्ररचनाविशेषाः

1. यस्मिन् विधिः तदादौ अल्ग्रहणे अनया परिभाषया अत्र ‘अचि’ इत्यस्य अर्थः ‘अजादौ’ इति क्रियते । 3. ‘अशब्लिटोः’ इति अत्र प्रसज्यप्रतिषेधः अस्ति । यदि अत्र पर्युदासः स्वीक्रियते, ‘तर्हि शप्-लिट्-भिन्ने परन्तु तत्सदृशे (= विकरणसंज्ञके लकारसंज्ञके वा) अजादिप्रत्यये परे नुमागमः भवेत्’ इति अनुचितः अर्थः सम्भवति, येन घञ्/अनीयर्-आदीनां विषये अनिष्टरूपाणि सिद्ध्येयुः । प्रसज्यप्रतिषेधे तु ‘अजादिप्रत्यये परे नुमागमः भवति, शपि लटि च न भवति’ इति इष्टः अर्थः सिद्ध्यति ।

Sutrartha (English)

The verb root रभ् which is followed by an अजादि प्रत्यय gets a नुमागम. But this नुमागम is not seen in presence of शप् विकरणप्रत्यय as well as in presence of लिट्-लकार.

Vasu English Summary

The augment नुम् is added after the vowel of the root रभ् ‘to begin’ before an affix beginning with a vowel but not before the विकरण शप् or the affixes of the लिट् (Perfect Tense).

Vasu English Translation

The augment नुम् is added after the vowel of the root रभ् ‘to begin’ before an affix beginning with a vowel but not before the विकरण शप् or the affixes of the लिट् (Perfect Tense). Thus आरम्भयति, आरम्भकः, साध्वारम्भी, आरम्भमारम्भम्, आरम्भो वर्तते ॥ But आरभते in शप्, and आरेभे in लिट्, and आरब्धा before an affix beginning with a consonant.

Kashika

रभेरङ्गस्य शब्लिड्वर्जितेऽजादौ प्रत्यये परतो नुमागमो भवति। आरम्भयति। आरम्भकः। साध्वारम्भी। आरम्भमारम्भम्। आरम्भो वर्तते। अशब्लिटोरिति किम्? आरभते। आरेभे। अचीत्येव — आरब्धा॥

Siddhanta Kaumudi

रभेर्नुम् स्यादचि न तु शब्लिटोः ॥

Balamanorama

रभेरशब्लिटोः - रभेरशब्लिटोः ।इदितो नुम्धातोरित्यतो नुमिति ।रधिजभोरची॑त्यतोऽचीति चानुवर्तते । तदाह — रभेर्नुमित्यादि ।

Tattvabodhini

रभेरशब्लिटोः - रभेरशब्लिटोः ।रधिजभो॑रित्यतोऽचीति,इदितः॑ इत्यतो नुमितिचानुवर्तते । अचि किम । आरब्धम् । अशब्लिटोः किम् । रभते । रेभे ।

Padamanjari

रभ राभस्ये, अनुदातेत् ॥

Nyaas

आरेभे इति। रभ राभस्ये (धातुपाठः-974) लिट्, अनुदात्तेत्त्वादत्मनेपदम्। लिटस्तझयोरेशिरेच् (3.4.81) इत्येशू, पूर्ववदेत्त्वाभ्यासलोपौ॥

Prakriyasarvasvam

शब्लिड्वर्जितेऽजादौ प्रत्यये परे रभेर्नुम् स्यात् । आरम्भकः । शब्लिटोस्तु न । आरभते । आरेभे ।

Sutra Prayogas

  • पर्यरम्भि (शिशुपालवधम्): रभेरशब्लिटोः इति नुमागमः।

  • आरम्भि (भट्टिकाव्यम्): रभेरशब्लिटोः इति नुम्।