71062: नेट्यलिटि रधेः¶
Padacheda: न | S | 0 | 0 |
इटि | S | 7 | 1 |
अलिटि | S | 7 | 1 |
रधेः | S | 6 | 1 |
Sutrartha¶
रध्- धातोः इडागमे कृते नुमागमः न भवति । परन्तु लिट्-लकारस्य विषये तु इडागमे कृते अपि नुमागमः भवति ।
रधिजभोरचि (7.1.62) इत्यनेन रधँ (हिंसासंराध्योः, दिवादिः (4.90)) इति धातोः अजादिप्रत्यये परे नुमागमः विधीयते । यत्र प्रक्रियायाम् प्रत्ययः स्वयं अजादिः नास्ति, परन्तु प्रत्ययस्य इडागमः भवति, तत्रापि एतादृशः नुमागमः अवश्यं सम्भवति, यतः यदागमास्तद्गुणीभूतास्तद्ग्रहणेन गृह्यन्ते अनया परिभाषया प्रत्ययग्रहणेन इडागमस्य अपि ग्रहणं भवति । अस्यां स्थितौ वर्तमानसूत्रेण (लिट्-लकारं विहाय अन्यत्र सर्वत्र) अयं नुमागमः निषिध्यते । उदाहरणानि एतानि - 1. रध्-धातोः तव्यत्-प्रत्ययान्तरूपम् -
रधँ (हिंसासंराध्योः, (4.90))
→ रध् + तव्यत् [**तव्यत्तव्यानीयरः** (3.1.96) इति तव्यत्-प्रत्ययः]
→ रध् + इट् + तव्य [**रधादिभ्यश्च** (7.2.45) इति वैकल्पिकः इडागमः]
→ रध् + इ + तव्य [**रधिजभोरचि** (7.1.61) इत्यनेन नुमागमे प्राप्ते **नेट्यलिटि रधेः** (7.1.62) इति निषेधः ।]
→ रधितव्य
इडागमाभावे 'रद्धव्यम्' इति अपि रूपं सिद्ध्यति । अस्मिन् रूपे तु अजादिप्रत्ययस्य अभावात् नुमागमस्य प्रसक्तिः एव न विद्यते ।
रध्-धातोः लृट्-लकारस्य प्रथमैकवचनम् -
रधँ (हिंसासंराध्योः, (4.90))
→ रध् + लृट् [**लृट् शेषे च** (3.3.13) इति लृट्-लकारः]
→ रध् + स्य + लृट् [**स्यतासी लृलुटोः** (3.1.33) इति विकरणप्रत्ययः 'स्य']
→ रध् + इट् + स्य + लृट् [**आर्धधातुकस्य इड्वलादेः** (7.2.35) इति इडागमः]
→ रध् + इ + स्य + लृट् [**रधादिभ्यश्च** (7.2.45) इति वैकल्पिकः इडागमः । इडागमस्य पक्षे **रधिजभोरचि** (7.1.61) इत्यनेन नुमागमे प्राप्ते **नेट्यलिटि रधेः** (7.1.62) इति निषेधः ।]
→ रध् + इ + स्य + तिप् [**तिप्तस्..** (3.4.78) इति प्रथमपुरुषैकवचनस्य प्रत्ययः तिप्]
→ रधिष्यति [**आदेशप्रत्यययोः** (8.3.59) इति षत्वम्]
इडागमाभावे 'रत्स्यति' इति अपि रूपं सिद्ध्यति । अस्मिन् रूपेे नुमागमस्य प्रसक्तिः एव न विद्यते ।
लिट्-लकारस्य विषये तु इडागमे कृतेऽपि वर्तमानसूत्रेण नुमागमः नैव निषिध्यते, अतः अत्र नुमागमः अवश्यं करणीयः -
रधँ (हिंसासंराध्योः, (4.90))
रध् + लिट् [**परोक्षे लिट्** (3.2.115) इति लिट्]
→ रध् + रध् + लिट् [**लिटिधातोरनभ्यासस्य** (6.1.8) इति द्वित्वम्]
→ र रध् + लिट् [**हलादि शेषः** (7.4.60) इति अभ्यासस्य धकारलोपः]
→ र रध् + सिप् [**तिप्तस्झि...** (3.4.78) इति मध्यमपुरुषैकवचनस्य सिप्-प्रत्ययः]
→ र रध् + थल् [**परस्मैपदानां णलतुसुस्थलथुसणल्वमाः** (3.4.82) इति सिप्-प्रत्ययस्य थल्-आदेशः]
→ र रध् + इट् + थल् [**रधादिभ्यश्च** (7.2.45) इति वैकल्पिकः इडागमः । अत्र **नेट्यलिटि रधेः** (7.1.62) इति निषेधः नैव प्राप्नोति, सूत्रे 'अलिटि' इति निषेधात् ।]
→ र र नुम् ध् इ + थल् [**रधिजभोरचि** (7.1.61) इत्यनेन नुमागमः]
→ ररंधिथ [**नश्चापदान्तस्य झलि** (8.3.24) इति अनुस्वारः]
→ ररन्धिथ [**अनुस्वारस्य ययि परसवर्णः** (8.4.58) इति परसवर्णः नकारः]
इडागमाभावे 'ररद्ध' इत्यत्र तु नुमागमस्य प्रसक्तिः एव नास्ति, यतः प्रत्ययस्थः थकारः अच् नास्ति ।
सूत्ररचनाविशेषाः
अत्र सूत्रे ‘इटि अलिटि’ इत्यत्र यस्मिन् विधिः तदादौ अल्ग्रहणे अनया परिभाषया तदादिविधिः कृतः अस्ति । अतः ‘इडागमः यस्य आदौ विद्यते तादृशः लिट्-भिन्नः प्रत्ययः’ इति अर्थः अत्र सिद्ध्यति ।
‘अलिटि’ इत्यत्र प्रसज्यप्रतिषेधपक्षः स्वीकरणीयः । यदि अत्र पर्युदासपक्षः स्वीक्रियते, तर्हि ‘लिट्भिन्ने परन्तु तत्सदृशे (लकारप्रत्यये) परे इडागमे कृते नुमागमः न भवति’ इति अर्थः जायेत , येन ‘तृच्’, ‘तव्यत्’ आदीनां विषये इडागमे कृते अपि अनिष्टः नुमागमः सम्भवेत् । प्रसज्यप्रतिषेधपक्षे तु ‘लिटि इडागमे कृते नुमागमनिषेधः न भवति’ इत्येव अर्थः सिद्ध्यति, येन अन्यत्र सर्वत्र इडागमे कृते नुमागमनिषेधः अवश्यं ज्ञाप्यते ।
शास्त्रविशेषाः
लिट्-लकारस्य आदेशरूपेण विहितस्य क्वसुँ-प्रत्ययस्य विषये प्रक्रिया एतादृशी अस्ति -
रधँ (हिंसासंराध्योः, (4.90))
→ रध् + लिट् [**छन्दसि लिट्** (3.2.105) इति लिट्]
→ रध् + क्वसुँ [**क्वसुश्च** (3.2.107) इति क्वसुँ-आदेशः]
→ रध् रध् + वस् [**लिटिधातोरनभ्यासस्य** (6.1.8) इति द्वित्वम्]
--> र रध् + वस् [**हलादि शेषः** (7.4.60) इति अभ्यासस्य धकारलोपः]
--> रेध् + वस् [**अत एकहल्मध्येऽनादेशादेर्लिटि** (6.4.120) इति एत्व-अभ्यासलोपौ । अत्र अजादिः प्रत्ययः नास्ति अतः अत्र नुमागमस्य प्रसक्तिरेव नास्ति ।]
--> रेध् + इट् + वस् [**वस्वेकाजाद्घसाम्** (7.2.67) इति एकाच्-अङ्गात् विहितस्य वसुँ-प्रत्ययस्य इडागमः]
--> रे न् ध् + इ + वस् [**रधिजभोरचि** (7.1.61) इति अजादिप्रत्यये परे नुमागमः । अत्र यद्यपि इडागमः अस्ति, तथापि अयं लिट्-लकारस्य विषयः, अतः **नेट्यलिटि रधेः** (7.1.62) इति निषेधः अत्र न प्रवर्तते ]
--> रे ध् + इ + वस् [क्वसुँ-प्रत्ययस्य औपदेशिक-कित्त्वात् **अनिदितां हल उपधायाः क्ङिति** (6.4.24) इति उपधानकारलोपः]
--> रेधिवस्
शास्त्रसंवादः
छात्रः - ‘न इटि अलिटि रधेः’ इति इदम् सूत्रम् । अत्र सूत्रे ‘न’ इत्यनेन एकः निषेधः उच्यते, ‘अलिटि’ इत्यनेन अपरः निषेधः उच्यते । एतादृशस्य द्विवारं कृतस्य निषेधस्य स्थाने ‘इटि लिटि रधेः’ इत्येव सरलं सूत्रम् स्थापनीयम् इति मे प्रतिभाति । आचार्यः - ‘इटि लिटि रधेः’ इत्यस्य कः अर्थः भवेत्? छात्रः - रध्-धातोः विषये इडागमे कृते रधिजभोरचि (7.1.61) इत्यनेनैव नुमागमे सिद्धे, ‘इटि लिटि रधेः’ इति वचनम् नियमार्थम् । रध्-धातोः इडागमे परे नुमागमः भवति चेत् लिट्-लकारस्य विषये एव, नान्यत्र इत्यर्थः । आचार्यः - परन्तु ‘इटि लिटि रधेः’ इत्यस्य कश्चन अन्यः अर्थः अपि सम्भवति । छात्रः - कः सः ? आचार्यः - ‘इडागमे कृते एव लिट्-लकारस्य विषये नुमागमः, अन्यत्र तु इडागमे कृते अकृते अपि नुमागमः’ इति । अयं तु अनुचितः अर्थः । नुमागमः केवलम् अजादिप्रत्यये परे एव इष्यते, अन्यत्र न । छात्रः - तर्हि तद्वारणाय ‘एव’ इति पदं स्थापयामः - ‘इटि लिटि एव रधेः’ इति । सन्धिं कृत्वा ‘लिट्येवेटि रधेः’ इति सूत्रम् । आचार्यः - तर्हि ‘नेट्यलिटि रधेः’ इति मूलसूत्रमेव स्यात्, यतः ‘लिट्येवेटि रधेः’ इत्यनेन न हि अल्पाक्षरत्वं किञ्चन लभ्यते । छात्रः - आम् । सत्यम् ।
Sutrartha (English)¶
For the verb root रध्, there is no नुमागम if an इडागम is done. However, in case of लिट्-लकार, नुमागम happens in-spite of इडागम.
Vasu English Summary¶
The augment नुम् is not added to रध् before an affix beginning with the augment इट् , except in the लिट् (Perfect Tense).
Vasu English Translation¶
The augment नुम् is not added to रध् before an affix beginning with the augment इट् , except in the लिट् (Perfect Tense). As रधिता, रधितुम्, रधितव्यम्, but रन्धनम्, रन्धकः before Anit affixes, and ररन्धिव, ररन्धिम in the Perfect. When नुम् is added रन्ध् becomes a root ending in a conjunct consonant, and therefore the लिट् affixes after it are not कित् (असंयोगात् लिट् कित् (1.2.5)), and therefore the न् is not elided by (6.4.24). But when the affix क्वसु of the Perfect is added, we have रेधिवस् Nominative Singular रेधिवान् ॥ Here the affix being expressly taught with an indicatory क of the न् is elided. The reduplicate is elided, the अ changed into ए, then इट् is added, then नुम्, and then the नुम् is elided by the expressly taught कित् ॥
Why was not the sutra made as इटि लिटि रधेः when by so doing, the augment नुम् would have been added only in the Perfect when it had इट् and no where else? This form of sutra would have also meant that नुम् would be added in that Perfect which took इट् and in no other Perfect, while cases other than Perfect might take it. That being so, there would be no नुम् in ररन्ध, while रधिता would require नुम् ॥ See, however, the Mahabhashya for the contra.
Bhashya¶
नेट्यलिटि रधेः इमौ द्वौ प्रतिषेधावुच्येते - उभौ शक्याववक्तम्(3) ॥ कथम् ? ॥ एवं वक्ष्यामि इटि लिटि रधेर्नुम् । (ःइटि लिटि रधेर्नुम् - ) भवतीति । तन्नियमार्थं भविष्यति - लिट्येवेडादौ नान्यस्मिन्निडादाविति ॥ ( नेट्यलिटि )
Kashika¶
इडादावलिटि प्रत्यये परे रधेर्नुमागमो न भवति। रधिता। रधितुम्। रधितव्यम्। इटीति किम्? रन्धनम्। रन्धकः। अलिटीति किम्? ररन्धिव। ररन्धिम। नुमि कृते संयोगान्तत्वाद् असंयोगाल्लिट् कित् (१.२.५) इति कित्त्वं नास्तीति नलोपो न भवति। अथ क्वसौ कथं भवतिव्यम्? रेधिवानिति। कथम्? एत्वाभ्यासलोपयोः कृतयोरिडागमः क्रियते, ततो नुमागमः, तस्यौपदेशिककित्त्वाश्रयो लोपः। अथेटि लिटीत्येवं नियमः कस्माद् न क्रियते, लिट्येवेटि नान्यत्रेति? विपरीतमप्यवधारणं संभाव्येत, इट्येव लिटि नान्यत्रेति। तथा हि सति ररन्धेत्यत्र न स्यात्, रधितेत्यत्र च स्यादेव॥
Siddhanta Kaumudi¶
निड्वर्जे इटि रधेर्नुम्न स्यात् । रधिता । रद्धा । रधिष्यति । रत्स्यति । अङि नुम् । अनिदिताम् - (SK415) इति नलोपः । अरधत् ।{$ {!1194 णश!} अदर्शने$} । नश्यति । ननाश । नेशतुः । नेशिथ ॥
Balamanorama¶
नेट्यलिटि रधेः - नेटलिटि रधेः ।इदितो नुम् धातो॑रित्यतो नुमित्यनुवर्तते । तदाह — लिड्वर्जे इटीति । अङित्विति । पुषाद्यङि कृते सतीत्यर्थः । अरधदिति ।मो अहं द्विषतेऽरधम् ।॑ णश अदर्शने इति । णोपदेशोऽयं सेट् ।रधादिभ्यश्चे॑ति वट् । तत्र इट्पक्षे आह — नेशिथेति ।थलि च सेटी॑त्येत्त्वाभ्यासलोपाविति भावः । इडभावपक्षे ननश्- थ इति स्थिते —
Tattvabodhini¶
नेट्यलिटि रधेः - नेटलिटि । इटीति किम् । रन्धकः । अलिटीति किम् । ररन्धिव । नुमि कृते संयोगात्परत्वेनाऽकित्त्वान्नलोपो न ।
Padamanjari¶
नुमि कृते इत्यादि । ननु चेटि सत्यजादित्वान्नुमा भवितव्यम्, प्रागेव चेटः कित्वं प्राप्नोति न च अलिटि इत्यस्य वैयर्थ्यम्, थल्यर्थवत्वान् एवं हि धातोरित्यनुवृतेरुपदेश एव नुम् भवति । अचीत्येषा तु विपयसप्तमी । अथेति । येषां छान्दसः क्वसुस्तेषामेष विचारो नास्ति, च्छन्दसि दृष्टानुविधानात् । एत्वाभ्यासलोपयोः कृतयोरिति । वस्वेकाजाद्घसाम् इत्यत्र कृतद्विर्वचनानामेकाचां ग्रहणादेव मुक्तम् । तत्र नुमागम इति । अचीति वचनात् । तस्येत्यादि । यद्यपि ररन्धिवेत्यादिवत् क्वसावप्यातिदेशिकं कित्वं नास्ति, तथाप्यौपदेशिकं कित्वमाश्रित्य नलोपो भवतीत्यर्थः । अथेत्यादि । एवं सति नेटॡइटि इति द्वावपि प्रतिषेधौ न वक्तव्यौ भवत इति भावः । विपरीतमावधारणं सम्भाव्येतेति । एवकारे तु क्रियमाणे न लाघ्रवे विशेषः ॥
Nyaas¶
पूर्वेण प्राप्तस्य नुमः प्रतिषेध उच्यते। रधिता इत्यादि। रधादिभ्यश्च (7.2.45) इतीट्। ररन्धिव, ररन्धिम इति। क्रादिनियमादिट्? (7.2.13) परस्मैपदानाम् (3.4.82) इत्यादिना वस्मसोर्वमादेशौ।ननु रधिरयमसंयोगान्तः पठते, तत्र असंयोगाल्लिट्? कित् (1.2.5) इति कित्त्वे अनिदिताम् (6.4.24) इति नलोपः प्राप्नोति, स कस्मान्न भवति? इत्याह - नुमि कृते इत्यादि। उपदेशावस्थायामेव नुम्? भवति इत्युक्तमेतत्, तेनोपदेशावस्थायामेव नुमि कृते संयोगान्तत्वं जातमिति कित्त्वं नास्तीति न भवति नलोपः। अथ क्वसौ कथं भवितव्यम् इति। किं रराध्वानिति भवितव्यम्, उत रेधिवानिति पृच्छति। अपर आह - रेधिवात् इति। लिटः क्वसुश्च (3.2.107) इति क्वसुः, द्विर्वचनम्, अत एकहल्मध्ये (6.4.120) इत्यादिनैत्त्वांभ्यासलोपौ, वस्वेकाजाद्घसाम् (7.2.67) इतीट्? नुम्, सान्तमहतः संयोगस्य (6.4.10) इति दीर्घः। कथम् इत्यादि। एवं मन्यते - यदेङ्? भवति तस्मश्च नुमा भवितव्यम्, नुमि च सत्येकहल्मध्यता नास्तीत्येत्त्वेऽब्यासलोपयोः पुनः प्रत्यापत्त्या भवितव्यम्, ततश्च कृतद्विर्वचन एकाण्न भवतीतीटा न भवितव्यम्; तस्माद्ररध्वानिति युक्तं भवितुमिति। इतरस्तु कृतसयापि नुमोऽत्रि लोपेन भवितव्यम्, ततश्चैकहल्मध्यताभावो नोपपद्यते, कुतः पुनरेत्त्वाभ्यासलोपयोः प्रत्यापत्तिः? इत्याह - एत्त्वाभ्यासलोपयोः कृतयोः इत्यादि। कृतद्विर्वचनानामेकाचां क्वसोरिङ् विधीयते। ततो नुमागमः इति। अचि तद्विधानात्? तस्यौपदेशिकत्त्वाश्रयो लोप इत्यौपदेशिकग्रहणान्नुमि कृते संयोगान्तत्वादातिदेशिकस्य कित्त्वस्यासम्भवात्। अथ इत्यादि। इटि नेटि (7.2.4) इत्युच्यमाने पुर्वेण सिद्धे सति नियमर्थमेतद्भविष्यति - लिटएवेडादौ, नान्यस्मिन्निडादाविति। तेन ररन्धिव, ररन्धिमेत्यादौ भविष्यति, न रधितेत्येवमादौ। तस्मादिटिलिटीति कस्मान्नोक्तम्, एवं सतीष्टं सिध्यति, लघु च सूत्रं भवतीति भावः। लिटएव इति। नियमस्वरूपं दर्शयति। नान्यत्र इत्यनेनापि तस्य व्यवच्छेद्यम्। यतो हेतोर्नियमो न क्रियते, तं दर्शयितुमाह - विपरीतम् इत्यादि। इटएव लिटि इति। विपरीतनियमसय स्वरूपकथनम्। नान्यत्र इत्यनेनापि तद्ध्यवच्छेद्यं दर्शयति। कस्माद्विपरीतमवधारणं नेष्यते? इत्याह - तथा हि इत्यादि। इटएव लिटीत्यस्य नियमस्यानिडादिर्ल्लिङ्व्यावर्त्त्य इतीडादावेव लिटि भवति, नानिडादाविति। ततश्चानिडादित्वाद्ररन्धेत्यत्र नुम्? न स्यात्। रधितेत्यत्र पूर्वेम स्यादेव; नियमेनाव्यावर्त्तितत्वात्। तस्मात्तद्दोषपरिजिहीर्षया नियमो न क्रियते॥
Prakriyasarvasvam¶
रधेरलितीडादिप्रत्यये परे न नुं स्यात् । रधिता । रद्धेत्यनजादितवान्न नुम् । लिटि तु ररन्धिव । नशेर्नशिता । अनिट्त्वे तु ‘मस्जिनशोर्झलि’ (७-१-६०) इति नुम् । छशां षः । नंष् तृ । ‘नशेर्वा’ (८-२-६३) इति पदान्तोक्तं कुत्वं झल्यपि वा स्यादिति कौमुदी । नङ्क्ता नंष्टा । प्रादियोगे तु ‘उपसर्गादसमासेऽपि - ‘ (८-४-१४) इति णत्वे प्राप्ते,