64169: आत्माध्वानौ खे

Padacheda: आत्मा-अध्वानौ | S | 1 | 2 |

खे | S | 7 | 1 |

Sutrartha


Vasu English Summary

The finals of the अङ्ग (stems) आत्मन् and अध्वन् remain unchanged before the affix ख।

Vasu English Translation

The finals of the अङ्ग (stems) आत्मन् and अध्वन् remain unchanged before the affix ख। Thus आत्मने हितं = आत्मनीनः (5.1.9), अध्वानमलङ्गामी (5.2.16) = अध्वनीनः ॥ But प्रत्यात्मम् and प्राध्वम् ॥ The first is formed by the samasanta affix टच् added to the avyayibhava (5.4.108), and the latter by अच् (5.4.85).

Kashika

आत्मन् अध्वन् इत्येतौ खे परतः प्रकृत्या भवतः। आत्मने हित आत्मनीनः। अध्वानमलङ्गामी अध्वनीनः। ख इति किम्? प्रत्यात्मम्। प्राध्वम्। प्रत्यात्ममित्यव्ययीभावे अनश्च (५.४.१०८) इति समासान्तष्टच्प्रत्ययः। प्राध्वमिति उपसर्गादध्वनः (५.४.८५) इत्यच्प्रत्ययः॥

Siddhanta Kaumudi

एतौ खेप्रकत्या स्तः । आत्मने हितमात्मनीनम् । विश्वजनीनम् ॥ कर्मधारयादेवेष्यते ॥ षष्ठीतत्पुरुषाद्बहुव्रीहेश्च छ एव । विश्वजनीयम् ।<!पञ्चजनादुपसंख्यानम् !> (वार्तिकम्) ॥ पञ्चजनीनम् ।<!सर्वजनाट्ठञ् खश्च !> (वार्तिकम्) ॥ सार्वजनिकः । सर्वजनीनः ।<!महाजनाट्ठञ् !> (वार्तिकम्) ॥ माहाजनिकः । मातृभोगीणः । पितृभोगीणः । राजभोगीणः । (गणसूत्रम् -) आचार्यादणत्वं च ॥ आचार्यभोगीनः ॥

Laghu Siddhanta Kaumudi

एतौ खे प्रकृत्या स्तः । आत्मने हितम् आत्मनीनम् । विश्वजनीनम् । मातृभोगीणः ॥ इति छयतोरवधिः ॥ ९ ॥

Balamanorama

आत्माध्वानौ खे - तत्र टिलोपे प्राप्ते — आत्माध्वानौ खे । प्रकृत्या स्त इति ।प्रकृत्यैक॑जित्यस्तदनुवृत्तेरिति बावः । कर्मधारयादेवेति ।विआजनशब्दा॑दिति शेषः । त्र व्याख्यानमेव शरणम् । विआजनीयमिति । विआस्य जनो विआजनः=साधारमो वैद्यादिः । विआओ जनो यस्येति बहुव्रीहिर्वा । तस्मै हितमिति विग्रहः । पञ्चजनीनमिति । ब्राआहृणक्षत्रियवैश्यशूद्राश्चत्वारो वर्णा रथकारजातिश्चेत्येते पञ्चजनां । तेभ्यो हितमिति विग्रहः । सर्वजनाट्ठञ्खश्चेति । ‘वक्तव्य’ इति शेषः ।समानाधिकरणादिति वक्तव्य॑मिति वार्तिकं भाष्ये स्थितम् । महाजनाट्ठञिति । ‘वक्तव्य’ इति शेषः । विआजनप्रसङ्गादिदं वार्तिकद्वयमुपन्यस्तम् । अथ भोगोत्तरपदस्योदाहरति — मातृभोगीण इति । मातृभोगाय हित इत्यर्थः । आचार्यादिति । आचार्यशब्दात्परस्य भोगीनशब्दस्य नस्य णत्वाऽभावो वाच्य इत्यर्थः । नच असमानपदस्थत्वादेवात्र मत्वास्याऽप्रसक्तेस्तन्निषेधो व्यर्थ इति वाच्यं, मातृभोगीणादौ णत्वज्ञापनार्थत्वात् ।

Tattvabodhini

आत्माध्वानौ खे - कर्मधारयादेवेति । व्याख्यानादिति भावः । विआजनीयमिति । विआस्य जनः= सर्वसाधारणो वेश्यादिः । विआओ जनोऽस्येति बहुव्रीहावपि स एवान्यपदार्थः । तस्मै हितमिति विग्रङः ।पञ्चजनादुपसङ्ख्यानम् । पञ्चजनीनमिति । रथकारपञ्चमाश्चत्वारो वर्णाः पञ्चजनास्तेभ्यो हितम् ।दिक्सङ्ख्ये संज्ञाया॑मिति समासः ।पञ्चजना॑दित्येतत्प्रभृति वार्तिकत्रयमपि कर्मधारयविषयमेव । तेन षष्ठीसमासाद्बहुव्रीहेश्छ एव । पञ्चजनीयः । सर्वजनीन इति । सर्वो जनः सर्वजनः ।पूर्वकालैके॑ति तत्पुरुषः । तस्मै हितमिति विग्रङः । साध्वर्थे तुप्रतिजनादिभ्यः ख॑ञिति खञि सार्वजनीनवैआजनीनशब्दौव्युत्पादितौ ।महाजनाट्ठञ् । मातृभोगीण इति । इहाऽखण्डपदत्वाऽभावेऽपिअट्कुप्वा॑ङित्यनेन यथा णत्वं भवति तथा प्रागेवोपपादितम् । मातुर्भोगः=शरीरं, तस्मै हित इति विग्रहः । यद्यपिभोगः सुखे स्त्र्यादिभृतावहेश्च फणकाययो॑रित्यमरेण अहेरित्युक्तं, तथापि प्रयोगबाहुल्याभिप्रायं तत् । शक्तिस्तु शरीरमात्रे इत्याकरः । मातृपितृशब्दाभ्यामौत्सर्गिकश्छ एव । मात्रीयः । पित्रीयः । राजाचार्यादिभ्यां त्वौत्सर्गिकश्छोऽपि न भवति, अनभिधानात् । किं तु राज्ञे हितमाचार्याय हितमिति वाक्यमेवेत्याकरः ।

Nyaas

आत्मनीनम् इति। आत्मन्विआजनभोगोत्तरपदात्? खः (5.1.9) । अध्वनीनम् इति। अत्रापि अद्वने यत्खौ (5.2.16) इति खप्रत्ययः। प्रत्यात्मम् इति। आत्मानं प्रतीति अव्ययं विभक्ति (2.1.6) इत्यादिना यथार्थेऽव्ययीभावः। ततः अनश्च (5.4.108) इति टच्। प्राध्वम् इति। प्रगतमध्वानमिति प्रादिसमासः, उपसर्गादध्वनः (5.4.85) इत्यच्॥

Prakriyasarvasvam

एतौ खे परे प्रकृत्या स्तः । इति नान्तोक्तटिलोपाभावः । विश्वजनीनः ।<!पञ्चजनाच्चेष्टम्!> (वा० ५-१-९) । पञ्चजनीनः ।<!सर्वजनाट्ठञ् खश्च!> (वा० ५-१-९) सार्वजनिकः । सर्वजनीनः ।<!महाजनाट्ठञ्!> (वा० ५-१-९) माहाजनिकः । ‘विश्वजनादिभ्यः कर्मधारयेभ्य एवेष्यते’ । भोगोत्तरपदात्तु राजभोगिनः । तद्धिते पूर्वपदस्थादपीति णत्वे पितृभोगीणः । ‘आचार्यादणत्वं च ।’ (ग०) आचार्यभोगिनः । एषु भोगः शरीरम् । राज्ञे हितमित्यादिरेवार्थ इष्टः ॥

Sutra Prayogas

  • अध्वनीनम् (भट्टिकाव्यम्): आत्माध्वानौ खे इति प्रकृतिभावः।