64169: आत्माध्वानौ खे ===================== **Padacheda:** आत्मा-अध्वानौ | S | 1 | 2 | खे | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The finals of the अङ्ग (stems) आत्मन् and अध्वन् remain unchanged before the affix ख। Vasu English Translation ------------------------ The finals of the अङ्ग (stems) आत्मन् and अध्वन् remain unchanged before the affix ख। Thus आत्मने हितं = आत्मनीनः (5.1.9), अध्वानमलङ्गामी (5.2.16) = अध्वनीनः ॥ But प्रत्यात्मम् and प्राध्वम् ॥ The first is formed by the *samasanta* affix टच् added to the *avyayibhava* (5.4.108), and the latter by अच् (5.4.85). Kashika ------- आत्मन् अध्वन् इत्येतौ खे परतः प्रकृत्या भवतः। आत्मने हित आत्मनीनः। अध्वानमलङ्गामी अध्वनीनः। ख इति किम्? प्रत्यात्मम्। प्राध्वम्। प्रत्यात्ममित्यव्ययीभावे **अनश्च** (५.४.१०८) इति समासान्तष्टच्प्रत्ययः। प्राध्वमिति **उपसर्गादध्वनः** (५.४.८५) इत्यच्प्रत्ययः॥ Siddhanta Kaumudi ----------------- एतौ खेप्रकत्या स्तः । आत्मने हितमात्मनीनम् । विश्वजनीनम् ॥ कर्मधारयादेवेष्यते ॥ षष्ठीतत्पुरुषाद्बहुव्रीहेश्च छ एव । विश्वजनीयम् । (वार्तिकम्) ॥ पञ्चजनीनम् । (वार्तिकम्) ॥ सार्वजनिकः । सर्वजनीनः । (वार्तिकम्) ॥ माहाजनिकः । मातृभोगीणः । पितृभोगीणः । राजभोगीणः । (गणसूत्रम् -) आचार्यादणत्वं च ॥ आचार्यभोगीनः ॥ Laghu Siddhanta Kaumudi ----------------------- एतौ खे प्रकृत्या स्तः । आत्मने हितम् आत्मनीनम् । विश्वजनीनम् । मातृभोगीणः ॥ इति छयतोरवधिः ॥ ९ ॥ Balamanorama ------------ **आत्माध्वानौ खे** - तत्र टिलोपे प्राप्ते — आत्माध्वानौ खे । प्रकृत्या स्त इति ।प्रकृत्यैक॑जित्यस्तदनुवृत्तेरिति बावः । कर्मधारयादेवेति ।विआजनशब्दा॑दिति शेषः । त्र व्याख्यानमेव शरणम् । विआजनीयमिति । विआस्य जनो विआजनः=साधारमो वैद्यादिः । विआओ जनो यस्येति बहुव्रीहिर्वा । तस्मै हितमिति विग्रहः । पञ्चजनीनमिति । ब्राआहृणक्षत्रियवैश्यशूद्राश्चत्वारो वर्णा रथकारजातिश्चेत्येते पञ्चजनां । तेभ्यो हितमिति विग्रहः । सर्वजनाट्ठञ्खश्चेति । 'वक्तव्य' इति शेषः ।समानाधिकरणादिति वक्तव्य॑मिति वार्तिकं भाष्ये स्थितम् । महाजनाट्ठञिति । 'वक्तव्य' इति शेषः । विआजनप्रसङ्गादिदं वार्तिकद्वयमुपन्यस्तम् । अथ भोगोत्तरपदस्योदाहरति — मातृभोगीण इति । मातृभोगाय हित इत्यर्थः । आचार्यादिति । आचार्यशब्दात्परस्य भोगीनशब्दस्य नस्य णत्वाऽभावो वाच्य इत्यर्थः । नच असमानपदस्थत्वादेवात्र मत्वास्याऽप्रसक्तेस्तन्निषेधो व्यर्थ इति वाच्यं, मातृभोगीणादौ णत्वज्ञापनार्थत्वात् । Tattvabodhini ------------- **आत्माध्वानौ खे** - कर्मधारयादेवेति । व्याख्यानादिति भावः । विआजनीयमिति । विआस्य जनः= सर्वसाधारणो वेश्यादिः । विआओ जनोऽस्येति बहुव्रीहावपि स एवान्यपदार्थः । तस्मै हितमिति विग्रङः ।पञ्चजनादुपसङ्ख्यानम् । पञ्चजनीनमिति । रथकारपञ्चमाश्चत्वारो वर्णाः पञ्चजनास्तेभ्यो हितम् ।दिक्सङ्ख्ये संज्ञाया॑मिति समासः ।पञ्चजना॑दित्येतत्प्रभृति वार्तिकत्रयमपि कर्मधारयविषयमेव । तेन षष्ठीसमासाद्बहुव्रीहेश्छ एव । पञ्चजनीयः । सर्वजनीन इति । सर्वो जनः सर्वजनः ।पूर्वकालैके॑ति तत्पुरुषः । तस्मै हितमिति विग्रङः । साध्वर्थे तुप्रतिजनादिभ्यः ख॑ञिति खञि सार्वजनीनवैआजनीनशब्दौव्युत्पादितौ ।महाजनाट्ठञ् । मातृभोगीण इति । इहाऽखण्डपदत्वाऽभावेऽपिअट्कुप्वा॑ङित्यनेन यथा णत्वं भवति तथा प्रागेवोपपादितम् । मातुर्भोगः=शरीरं, तस्मै हित इति विग्रहः । यद्यपिभोगः सुखे स्त्र्यादिभृतावहेश्च फणकाययो॑रित्यमरेण अहेरित्युक्तं, तथापि प्रयोगबाहुल्याभिप्रायं तत् । शक्तिस्तु शरीरमात्रे इत्याकरः । मातृपितृशब्दाभ्यामौत्सर्गिकश्छ एव । मात्रीयः । पित्रीयः । राजाचार्यादिभ्यां त्वौत्सर्गिकश्छोऽपि न भवति, अनभिधानात् । किं तु राज्ञे हितमाचार्याय हितमिति वाक्यमेवेत्याकरः । Nyaas ----- `आत्मनीनम्` इति। `आत्मन्विआजनभोगोत्तरपदात्? खः` (5.1.9) । `अध्वनीनम्` इति। अत्रापि `अद्वने यत्खौ` (5.2.16) इति खप्रत्ययः। `प्रत्यात्मम्` इति। आत्मानं प्रतीति `अव्ययं विभक्ति` (2.1.6) इत्यादिना यथार्थेऽव्ययीभावः। ततः `अनश्च` (5.4.108) इति टच्। `प्राध्वम्` इति। प्रगतमध्वानमिति प्रादिसमासः, **उपसर्गादध्वनः** (5.4.85) इत्यच्॥ Prakriyasarvasvam ----------------- एतौ खे परे प्रकृत्या स्तः । इति नान्तोक्तटिलोपाभावः । विश्वजनीनः । (वा० ५-१-९) । पञ्चजनीनः । (वा० ५-१-९) सार्वजनिकः । सर्वजनीनः । (वा० ५-१-९) माहाजनिकः । 'विश्वजनादिभ्यः कर्मधारयेभ्य एवेष्यते' । भोगोत्तरपदात्तु राजभोगिनः । तद्धिते पूर्वपदस्थादपीति णत्वे पितृभोगीणः । 'आचार्यादणत्वं च ।' (ग०) आचार्यभोगिनः । एषु भोगः शरीरम् । राज्ञे हितमित्यादिरेवार्थ इष्टः ॥ Sutra Prayogas -------------- * **अध्वनीनम्** (भट्टिकाव्यम्): `आत्माध्वानौ खे` इति प्रकृतिभावः।