64140: आतो धातोः

Padacheda: आतः | S | 6 | 1 |

धातोः | S | 6 | 1 |

Sutrartha

आकारान्त-धातोः भसंज्ञकस्य अङ्गस्य अन्तिम-आकारस्य लोपः भवति ।

आकारान्त-धातुनिर्मितम् यत् प्रातिपदिकम्, तस्य भसंज्ञायां सत्याम् तस्य अङ्गस्य अन्तिमवर्णस्य (=आकारस्य) लोपः भवति । यथा, ‘विश्वपा’ इति प्रातिपदिकम् ‘विश्वं पाति सः’ अस्मिन् अर्थे ‘विश्व’ उपपदेन सह पा (रक्षणे) धातोः अन्येऽभ्योपि दृश्यन्ते (3.2.75) इति विच्-प्रत्ययं कृत्वा सिद्ध्यति । क्विबन्ताः विजन्ताश्च प्रातिपदिकत्वं न. जहति, धातुत्वमपि न मुञ्चन्ति अनेन सिद्धान्तेन अस्य शब्दस्य धातुसंज्ञा अपि भवति । अतः, अस्य शब्दस्य अजादिषु प्रत्ययेषु परेषु यचि भम् (1.4.18) इत्यनेन भसंज्ञायां प्राप्तायाम् वर्तमानसूत्रेण अङ्गस्य अन्तिमवर्णस्य लोपः भवति । प्रक्रिया इयम् - विश्वपा + टा [तृतीयैकवचनस्य टा-प्रत्ययः । अस्मिन् प्रत्यये परे यचि भम् (1.4.18) इति अङ्गस्य भसंज्ञा] → विश्वप् + आ [आतो धातोः (6.4.140) इति अङ्गस्य अन्तिमवर्णस्य लोपः] → विश्वपा तथैव विश्वपा + ङे → विश्वपे, कीलालपा + ङसिँ → कीलालपः, शङ्खध्मा + शस् → शङ्खध्मः आदीनि रूपाणि अपि सिद्ध्यन्ति ।

Sutrartha (English)

The ending आकार of the भसंज्ञक अङ्ग of an आकारान्त धातु is removed.

Vasu English Summary

The final आ of a भ अङ्ग (stem) is elided when it ends in a root.

Vasu English Translation

The final आ of a भ अङ्ग (stem) is elided when it ends in a root. Thus कीलालपः पश्य, कीलालपा, कीलालपे, शुभंयः पश्य, शुभंया, and शुभंये from कीलालपा and शुभंया ॥ Why do we say ‘the आ of a root’? Observe खट्वाः पश्य, मालाः पश्य ॥ This sutra should be divided into two (1) आतः (2) धातोः; so that the long आ in general may be elided. For Panini himself has declined क्त्वा and श्ना by the elision of आ, see (7.1.37), (क्त्वो ल्यप्) and (3.1.83), (श्नः शानच्) ॥

Bhashya

आतो धातोः (3138) (6608 उपसंख्यानवार्तिकम् ॥ 1 ॥) - आतोऽनापः - आतोऽनाप इति वक्तव्यम् । इहापि यथा स्यात् - समासेऽनञ्ञ्पूर्वे क्त्वो ल्यप् (7.1.37) इति ॥ अनाप इति किम् ? खट्वायाम्, मालायाम् ॥ (वार्तिकावतरणभाष्यम्) श्लो यद्यनाप इत्युच्यते कथं क्त्वायाम् ? (6609 प्रयोगसाधकवार्तिकम् ॥ 2 ॥) - निपातनादिति - निपातनादेतत्सिद्धम् । किं निपातनम् ? ठ।क्त्वायां वा प्रतिषेधः। इति ॥ (वार्तिकप्रत्याख्यानभाष्यम्) यद्येवं नार्थः अनापः इत्यनेन । कथम् ? समासेऽनञ्ञ्पूर्वे क्त्वो ल्यप् इति निपातनादेतत्सिद्धम् । कथं हलः श्नः शानज्झौ (3.1.83) इति ? एतदपि निपातनात्सिद्धम् ॥ अथवा - योगविभागः करिष्यते - आतः, आकारलोपो भवति । ततः - धातोः, धातोश्चाकारस्य लोपो भवतीति ॥

Kashika

आकारान्तस्य धातोर्भस्य लोपो भवति। कीलालपः पश्य। कीलालपा। कीलालपे। शुभंयः पश्य। शुभंया। शुभंये। आत इति किम्? निया। निये। धातोरिति किम्? खट्वाः पश्य। मालाःपश्य। आत इति योगविभागः। तेन ०क्त्वो ल्यप् (७.१.३७) हलः श्नः शानच्० (३.१.८३) इत्येवमादि सिद्धं भवति॥

Siddhanta Kaumudi

आकारान्तो यो धातुस्तदन्तस्य भस्याऽङ्गस्य लोपः स्यात् । अलोऽन्त्यस्य (SK42) । विश्वपः । विश्वपाभ्यामित्यादि । एवं शङ्खध्मादयः । धातोः किम् । हाहान् । टा सवर्णदीर्घः । हाहा । ङे वृद्धिः । हाहै । ङसिङसोर्दीर्घः । हाहाः । ओसि वृद्धिः । हाहौः । ङौ आद्गुणः । हाहे । शेषं विश्वपावत् । आत इति योगाविभागादधातोरप्याकारलोपः क्वचित् । क्त्त्वः । श्नः ॥ इत्यादन्ताः ॥ हरिः । प्रथमयोः पूर्वसवर्णः (SK164) हरी ॥

Laghu Siddhanta Kaumudi

आकारान्तो यो धातुस्तदन्तस्य भस्याङ्गस्य लोपः। **अलोऽन्त्यस्य**(1.1.52)। विश्वपः। विश्वपा। विश्वपाभ्यामित्यादि। एवं शङ्खध्मादयः। धातोः किम्? हाहान्॥ हरिः। हरी॥

Balamanorama

आतो धातोः - औटि - विश्वपौ । शसि विश्वपा असिति स्थिते पूर्वसवर्णदीर्घे प्राप्ते - आतो धातोः । अङ्गस्येति भस्येति चाधिकृतम् । धातोरित्यात इति षष्ठ्यन्तेन विशेष्यते । तेन तदन्तविधिः । अल्लोपोऽनः**(6.4.134) इत्यतो ‘लोप’ इत्यनुवर्तते । तदाह — आकारान्तो य इति । अलोऽन्त्यस्येति । अन्त्यस्याऽकारस्य लोप इति शेषः । विश्वपाभ्यामिति । अभत्वादाल्लोपो नेति भावः । इत्यादीति । विश्वपाभिः । विश्वपे । विश्वपः । विश्वपोः । विश्वपाम् । विश्वपि । विश्वपोः विश्वपासु । एवं शङ्खध्मादय इति । शङ्खेन शङ्खं वा धमतीति शङ्खध्माः । ध्मा शब्दाग्निसंयोगयोः । पूर्ववत् विच् क्विब्वा । आदिना सोमपादिसङ्ग्रहः । सोमं पिबतीति सोमपाः । कीलालं पिबतीति कीलालपाः । वारिपर्यायेषु पयः कीलालममृतमित्यमरः । मधु पिबतीति मधुपा इत्यादि । धातोः किमिति । ‘आतोऽनापः’ इत्येव सूत्र्यतां, तावतैव रमा इत्याद्याबन्तेषु लोपव्यावृत्तेरिति प्रश्नः । हाहानिति । पूर्वसवर्णदीर्घे **तस्माच्छसः**(6.1.103) इति नत्वम् । ‘हाहा’ इति गन्धर्वविशेषवाचकमव्युत्पन्नं प्रातिपदिकमेतत् ।हाहाहूहूश्चैवमाद्या गन्धर्वास्त्रिदिवौकसाम् इत्यमरः । सुटि विश्वपावत् । शसि हाहा-अस् इत्यत्रापि ‘आतोऽनापः’ इत्याल्लोपः स्यात्, अतो धातुग्रहणमित्यर्थः । टा सवर्णदीर्घ इति । ‘टा’ इत्यविभक्तिनिर्देशः प्रक्रियादशायां न दुष्यति । तृतीयैकवचने सवर्णदीर्घ इत्यर्थः । एवमग्रेऽपि योज्यम् । ङे वृद्धिरिति । हाहा-ए इति स्थिते **वृद्धिरेचि**(6.1.88) इति वृद्धिरित्यर्थः । ङसिङसोरिति । हाहा-असित्यत्र सवर्णदीर्घ इत्यर्थः । ओसि वृद्धिरिति । हाहा ओस् इत्यत्र **वृद्धिरेचि**(6.1.88) इति वृद्धिरित्यर्थः । ङौ आद्गुण इति । ‘हाहा इ’ इत्यत्र **आद्गुण**(6.1.87) इति गुण एकार इत्यर्थः । क्त्वा, श्ना इति प्रत्ययौ आकारान्तौ विश्वपावत् । नन्वधातुत्वात्कथमिह आल्लोप इत्यत आह — आत इति योगेति । **आतो धातोः इत्यत्र ‘आत’ इति विभज्यते । आकारान्तस्य भस्याङ्गस्य लोपः स्यादित्यर्थः । तेन ‘क्त्वः’ ‘श्नः’ इति शसि रूपं सिध्यति । धातोरिति योगान्तरम् । आकारान्तो यो धातुस्तदन्तस्य भस्याङ्गस्य लोपः स्यादित्यर्थः । आबन्तव्यावृत्त्यर्थं स हाहादिव्यावृत्त्यर्थं चेदम् । ‘आत’ इति योगविभागस्तु क्त्वः श्न इत्यादौ क्वचिदाल्लोपार्थः । ननु मालेवाचरिति मालाः । आचारक्विबन्तात्कर्तरि क्विप् । सुबुत्पत्तिः । अत्र कृतेऽपि धातुग्रहणे शसादावाल्लोपो दुर्वारः, **सनाद्यन्ताः**(3.1.32) इति धातुत्वादादन्तत्वाच्च । नच <!अनाप इति वक्तव्यम्!> इति वार्तिकादाबन्तेषु नाल्लोप इति शङ्क्यम्, उक्तरीत्या योगविभागमभ्युपगम्य ‘अनाप’ इति वार्तिकस्य भाष्ये प्रत्याख्यातत्वादिति चेन्मैवम्, एतद्वार्तिकभाष्यप्रमाण्यादेव आबन्तेभ्य आचारक्विबभावबोधनादिति शब्देन्दुशेखरे प्रपञ्चितम् । हरिरिति । हरिशब्दात्सुः । रुत्वविसर्गौ । नच विसर्जनीयस्य अकारादुपरि उपसङ्ख्यानेनाच्त्वात्तस्मिन् परतो रेफादिकारस्य यणादेशः शङ्क्यः, यणादेशे कर्तव्ये विसर्जनीयस्यासिद्धत्वात् । प्रथमयोरिति । हरि-औ इति स्थितेऽनेन पूर्वसवर्णदीर्घे सति हरी इति रूपमित्यर्थः । जसि हरि अस् इति स्थिते पूर्वसवर्णदीर्घे प्राप्ते —

Tattvabodhini

आतो धातोः - हाहानिति । गन्धर्वविशेषवाचकमव्युत्पन्नं प्रातिपदिकमिदम् ।हाहा हूहूश्चैवमाद्या गन्धर्वाः॑ इत्यमरः । केचित्तु अकारो वासुदेवस्तेन सह वर्तन्ते इति साः । तान् सानिति प्रत्युदाहरन्ति । क्त्व श्न इति । यद्यपिक्त्वो ल्यप् श्नः शानज्झौ॑,क्रमश्च क्त्वि॑ इति निर्देशादेतत्सूत्रेष्वातो लोपः सिध्यति, तथापि क्त्वो ल्यब्भवति॑श्नः शानज्भवती॑ति व्याख्यानवाक्येष्वसाधुत्वशङ्कावारणायेदमुक्तम् । इत्यादन्ताः ।

Padamanjari

एवमादि सिद्धं भवतीति ।सूत्राद्वहिरस्मदादिप्रयोगेऽपीति भावः। सूत्रे तु सौत्रो निर्द्देश इत्येव सिद्धम् ॥

Nyaas

कीलालपः इति। विजुपे छन्दसि (3.2.73) इति विचि प्रकृते आतो मनिन्क्वनिब्वनिपश्च (3.2.74) इति विच्। नियेः इति। क्विप्? इयङ॥

Praudhamanorama

हाहानिति। गन्धर्वविशेषवाचकमव्युत्पन्नं प्रातिपदिकमिदम्। कौमारास्तु—जहातीति हाहा इति क्रियाशब्दं वदन्तो विश्वपावद्रूपमाहुः। तन्मते प्रत्युदाहरणं तु ‘अकारो वासुदेवः स्यात्’ तेन सह वर्तन्त इति साः, तान् सान् इति बोध्यम्। ॥ इत्यादन्ताः॥ इदुद्भ्यामुत्तरस्य इत्यादिना। घेरुत्तरस्येति नोक्तम्। सूत्रे ‘घेः’इत्यस्य षष्ठ्यन्तत्वात्। तन्त्रावृत्त्यादौ च प्रमाणाभावात् ‘औत्’ इति पूर्वसूत्रे इदुद्भ्यामित्युत्तरस्य ङेरिति क्लृप्तसम्बन्धस्य त्यागायोगाच्च। औत्स्यादिति। अत्र व्याचख्युः— औतस्तित्वं स्वरितार्थम्। ‘न विभक्तौ’ इतीत्वनिषेधस्तु न भवति, अनित्यत्वात्। अनित्यत्वं च ‘इदमस्थमुः’ इति थमो मकारस्येत्संज्ञापरित्राणार्थादुदित्करणाल्लभ्यत इति तत्रैवोक्तमिति। तच्चिन्त्यम्। ‘विभक्तौ’ इति सूत्रे ङेरौतस्तकार उच्चारणार्थो नेत्संज्ञ इति स्वयमेवोक्तत्वेन पूर्वापरविरोधात्। युक्तं चोच्चारणार्थत्वं न तु स्वरितार्थत्वम्। ‘स्तीर्णे बर्हिषि समिधाने अग्नौ’ इत्यादौ स्वरितत्वादर्शनात्। ‘अत्’ इति तपरत्वं तु बुध्दावित्यादावत्वे कृते स्त्रियां टाब् मा भूद् इत्येतदर्थमित्याहुः। तदपि चिन्त्यम्। तपरग्रहणाद्धि टापा सह दीर्घो मा भूत्। टाप् तु स्यादेव, लक्षणद्वयबाधे मानाभावात्। अत एव ‘कृन्मेजन्तः’ इति सूत्रभाष्यवार्त्तिकयोर्विवरणे च सन्निपातपरिभाषया टाब् नेत्युक्तम्। टापा व्यवधाने हि आनन्तर्यविघातः स्यादिति। तस्माद् औत इव अतोऽपि तपरकरणमुच्चारणार्थमेवेत्यवधेयम्। दीर्घाविति। परमिति। न त्विदं विहितविशेषणं या, सा, का इत्यादावव्याप्तेः। न च तत्र हलन्ताद्विहितत्वेन निर्वाहः। यः, स इत्यादावतिव्याप्तेः ‘कर्ता’ इत्यादावव्याप्तेश्चेति भावः। हलिति। तस्य च सुतिसीत्येवंरूपत्वमेकदेशविकृतन्यायेन बोध्यम्।

Prakriyasarvasvam

आदन्तस्य धातोर्भत्वेऽन्त्यलोपः स्यात् । सोमपः, सोमपा । सोमपाभ्या- मित्यादि । एवं भूरिदावेणुध्माद्याः । हाहाः । सुटि प्राग्वत् । अधातुत्वादल्लोपाभावः । ‘आदन्ताच्छसो नत्वं वे’ति कौमुदी । हाहान् । हाहाः । सवर्णदीर्घे हाहा । हलादौ सोमपावत् । ङयि वृद्धिः । हाहै । ङसिङसोः सवर्णदीर्घे हाहाः । ओसि वृद्धिः । हाहौः । हाहाम् । ङौ गुणः । हाहे । हाहौः । हाहासु । हाहानिव गायकान् पश्येत्यादौ द्विबहुत्वम् । ‘आतोऽनापः’ (स० ६-३-१३८) इति भोजहरदत्तोक्ते- रनाबन्तस्याल्लोप एवेति केचित् । तेन सोमपावदपि ॥ हरिः । पूर्वसवर्णदीर्घः हरा ॥

Sarala

शङ्खध्माः = शङ्खवादकः । हाहाः = गन्धर्वविशेषः । हाहा हूहूश्चैवमाद्या गन्धर्वास्त्रिदिवौकसाम् इत्यमरः ॥

Sudha

आतो धातोरिति । अङ्गस्येति भस्येति चाधिकृतम् । धातोरित्यात इति षष्ठ्यन्तेन विशेष्यते । तदन्तविधिः । अल्लोपोऽनः**(6.4.134) इत्यतो लोप इत्यनुवर्तते । तदाह - **आकारान्तो य इति । अलोऽन्त्यस्येति । अन्त्यस्याकारस्य लोप इति शेषः । विश्वपाशब्दात् शसि समागते लशक्वतद्धिते**(1.3.8) इति शसः शकारस्येत्संज्ञायां **तस्य लोपः**(1.3.9) इति लोपे च कृते “विश्वपा + अस्” इति स्थितेऽत्र **सुडनपुंसकस्य**(1.1.43) इत्यनेन सु-औ-जस्-अम्-औट् इत्येतेषां सर्वनामस्थानसंज्ञाविहितत्वात् शसो न सर्वनामस्थानसंज्ञा, तेन **स्वादिष्वसर्वनामस्थाने**(1.4.17) इत्यनेन सर्वनामस्थानभिन्नस्वादिषु शसादिषु परेषु पूर्वस्य विश्वपाशब्दस्य पदसंज्ञा यां प्राप्तायां **यचि भम्**(1.4.18) इत्यनेन च सर्वनामस्थानभिन्नयजादिषु स्वादिषु परेषु भसंज्ञायां प्राप्तायां किमत्र विधेयम् इति शङ्कायाम् **आ कडारादेका संज्ञा**(1.4.1) इत्यनेन एकैव संज्ञा भवतीति नियमात् परत्वादनवकाशत्वाच्च अत्र भसंज्ञैव जाता, तस्यां जातायाम् **आतो धातोः**(6.4.140) इति सूत्रेण विश्वपाशब्दस्य लोपे प्राप्ते **अलोऽन्त्यस्य**(1.1.52) इत्यनेन पकारोत्तरवर्त्याकारस्य लोपे कृते पकारस्याकारेण सह संयोगे स् इत्यस्य रुत्वे अनुबन्धलोपे रेफस्य विसर्गे च “विश्वपः” इति रूपम् । **विश्वपा इति । विश्वपाशब्दात् तृतीयैकवचनविवक्षायां टासमागते चुटू**(1.3.7) इति टकारस्येत्संज्ञायां लोपे च “विश्वपा-आ” इति स्थितेऽत्र **यचि भम्**(1.4.18) इति भसंज्ञायां **आतो धातोः**(6.4.140) इत्याकारलोपे पकारस्याऽऽकारेण सह संयोगे “विश्वपा” इति रूपम् । **विश्वपाभ्यामित्यादीति । विश्वपाशब्दात् भ्यामि विश्वपाभ्याम् । विश्वपाशब्दात् भिसि स् इत्यस्य रुत्वे विसर्गे च विश्वपाभिः । विश्वपाशब्दाच्चतुर्थ्येकवचनविवक्षायां ङेविभक्तौ ङकारस्य लशक्वतद्धिते**(1.3.8) इतीत्संज्ञायां **तस्य लोपः**(1.3.9) इति लोपे **यचि भम्**(1.4.18) इति भसंज्ञायाम् **आतो धातोः**(6.4.140) इत्याकारस्य लोपे परेण संयोगे “विश्वपे” इति रूपम् । अत्रेदं ज्ञातव्यम् – अजादिविभक्तौ परे सर्वत्र भसंज्ञा आकारस्य लोपः, हलादौ तु न किमपि कार्यम् । विश्वपाभ्याम्, विश्वपाभ्यः चतुर्थी । विश्वपः, विश्वपाभ्याम्, विश्वपाभ्यः पञ्चमी । विश्वपः, विश्वपोः, विश्वपाम् षष्ठी । विश्वपि, विश्वपोः, विश्वपासु सप्तमी । **एवं शङ्खध्मादय इति । शङ्खं धमतीति शङ्खध्मा । घ्मा शब्दाग्निसंयोगयोः क्विप् च**(3.2.76) इति क्विप् । आदिना सोमं पिबतीति सोमपाः । मधु पिबतीति मधुपाः इत्यादयो ग्राह्याः । **हाहानिति । ** हाहा इति गन्धर्वविशेषवाचकमव्युत्पन्नं प्रातिपदिकमेतत् । ‘हाहा हूहूश्चैवमाद्या गन्धर्वास्त्रिदिवौकसः’ इत्यमरः । सुटि विश्वपावत् । हाहाशब्दात् शसि, अनुबन्धलोपे **प्रथमयोः पूर्वसवर्णः**(6.1.102) इति पूर्वसवर्णदीर्घादेशे कृते **तस्माच्छसो नः पुंसि**(6.1.103) इति सकारस्य नकारादेशे “हाहान्” इति । टाविभक्तौ सवर्णदीर्घः हाहा । ङयि वृद्धिः हाहै । ङसिङसोर्दीर्घः हाहाः । ओसि वृद्धिः हाहौः । ङौ आद्गुणः हाहे । हलादौ विश्वपावत् । **हरिः । हरिशब्दात् प्रथमैकवचनविवक्षायां सुप्रत्यये उकारस्येत्संज्ञायां लोपे च “हरि स्” इति जाते सस्य रुत्वे रेफस्य विसर्ग च “हरिः” इति रूपम् । हरी । हरिशब्दात् औ समागते **प्रथमयोः पूर्वसवर्णः**(6.1.102) इति पूर्वपरयोः स्थाने पूर्वसवर्णदीर्घादेशे कृते सति “हरी” इति रूपम् ।

Sutra Prayogas

  • प्रार्थयते (किरातार्जुनीयम्): आतो धातोः इति योगविभागादाकारलोपः।

  • अभियाता (भट्टिकाव्यम्): आतो धातोः इति आकारलोपे अभियेति रूपम्।

  • अभियाऽताऽऽवरं (भट्टिकाव्यम्): आतो धातोः इति आकारलोपे अभियेति रूपम्।