64139: उद ईत्¶
Padacheda: उदः | S | 5 | 1 |
ईत् | S | 1 | 1 |
Sutrartha¶
उद्-शब्दात् परस्य लुप्तनकारस्य अञ्च्-शब्दान्तस्य भसंज्ञकस्य ईकारादेशः भवति ।
अन्च् (गतौ) धातोः यदा क्विन्-प्रत्ययः भवति तदा अनिदितां हलः उपधायाः क्ङिति (6.4.24) इत्यनेन चकारात् पूर्वः यः नकारः तस्य लोपः जायते । अतः ‘अन्च् + क्विन्’ इत्यनेन ‘अच्’ इति प्रातिपदिकं सिद्ध्यति । एतादृशः लुप्तनकारः यः अन्च्-धातुनिर्मितः अच्-शब्दः, तस्य भसंज्ञा भवति चेत् ‘उद्’ शब्दे परे ईकारादेशः अपि भवति । आदेः परस्य (1.1.54) इत्यनेन अयमादेशः ‘अच्’ इत्यस्य आदिवर्णस्य भवति । यथा - उद् + अन्च् + क्विन् [‘उद् + अञ्च्’ इत्यस्मात् ऋत्विक्दधृग्… इत्यनेन क्विन्-प्रत्ययः] → उद् + अच् [अनिदितां हलः उपधायाः क्ङिति (6.4.24) अनेन नकारलोपः] अस्मात् प्रातिपदिकात् द्वितीयाबहुवचनस्य शस्-प्रत्यये कृते अङ्गस्य यचि भम् (1.4.18) इति भसंज्ञा भवति । अतः वर्तमानसूत्रेण ‘अच्’ इत्यस्य अकारस्य ईकारादेशः अपि विधीयते । उद् + अच् + शस् → उद् + ईच् + अस् [उद ईत् (6.4.139) इति अकारस्य ईकारः] → उदीचः एवमेव उदीचा, उदीचे, उदीचः, उदीचोः एतानि रूपाणि अपि सिद्ध्यन्ति ।
Sutrartha (English)¶
If the word अच् - (1) happens to be derived from the धातु अञ्च् (गतौ) , (2) follows the word उद्, and (3) gets the भसंज्ञा,
then the अकार of अच् is converted to ईकार.
Vasu English Summary¶
The long ई is substituted for the अ of अच् (अञ्च् ) after the word उत् when the अङ्ग (stem) is भ।
Vasu English Translation¶
The long ई is substituted for the अ of अच् (अञ्च् ) after the word उत् when the अङ्ग (stem) is भ। As उदीचः, उदीचा, उदीचे ॥
Kashika¶
उद उत्तरस्याच ईकारादेशो भवति। उदीचः। उदीचा। उदीचे॥
Siddhanta Kaumudi¶
उच्छब्दात्परस्य लुप्तनकारस्याञ्चतेर्भसायकारस्य ईत्स्यात् । उदीचः । उदीचा । उदग्भायामित्यादि ॥
Laghu Siddhanta Kaumudi¶
उच्छब्दात्परस्य लुप्तनकारस्याञ्चतेर्भस्याकारस्य ईत्। उदीचः। उदीचा। उदग्भ्याम् ॥
Balamanorama¶
उद ईत् - शसादौ ‘अचः’ इति लोपे प्राप्ते — उद ईत् । ‘अचः’ इति सूत्रमनुवर्तते, ‘अल्लोप’ इत्यतः ‘अत्’ इति च ।भस्ये॑त्यधिकृतं, तदाह — उच्छब्दादित्यादिना । समञ्चतीति विग्रहे क्विन्नादि ।
Tattvabodhini¶
उद ईत् - उद ईत् ।अचः॑इत्यस्यापवादः । इहअच॑इत्यनुवर्तते,भस्ये॑ति च । तदाह — उच्छब्दात्परस्य लुप्तनकारस्येत्यादि । भस्येति किम् । उदञ्चौ । उदञ्चः । उदग्भ्याम् । लुप्तमकारस्येति किम्, पूजायाम् — ॒उदञ्चः॒॑उदञ्चे॑ति यथा स्यादिति ।
Praudhamanorama¶
अच इत्यस्यापवादः॥ चान्ताः॥
Prakriyasarvasvam¶
उदः परस्याञ्च्शब्दस्य भत्वे आदेरीत् स्यात् । उदीच्यम् । प्रतीच्यम् ॥ उदीची ॥
Sudha¶
उद इत् । **अचः**(6.4.138) इति सूत्रमनुवर्तते, अल्लोप इत्यतः अत् इति च । भस्येत्यधिकृतम् । तदाह - उच्छब्दादित्यादिना । उदीचः । ‘उद् अन् च् शस्’ इत्यत्रशस्येस्सब्ज्ञायां लोपे च नकारस्य **अनिदितां हल उपधायाः क्ङिति**(6.4.24) इति लोपे **अचः**(6.4.138) इति अकारस्यलोपे **उद ईत्**(6.4.139) इति अचोऽकारस्येत्वे संयोगे सस्य रुत्वे रेफस्य विसर्गत्वे च ‘उदोचः’ इति । एवमेव ‘उदीचा’ इत्यादिः । उदग्भ्याम् । ‘उद् अन् च् भ्याम्’ इत्यत्र **अनिदितां हल उपधायाः क्ङिति**(6.4.24) इति नलोपे कुत्वे जश्त्वे च रूपम् ।