64092: मितां ह्रस्वः

Padacheda: मिताम् | S | 6 | 3 |

ह्रस्वः | S | 1 | 1 |

Sutrartha

मित्संज्ञकस्य अङ्गस्य उपधावर्णस्य णिच्-प्रत्यये परे ह्रस्वादेशः भवति ।

यः धातुः मित्संज्ञकः अस्ति, तस्य धातोः उपधायाः णिच्-प्रत्यये परे ह्रस्वादेशः भवति । किम् नाम मित्संज्ञकः? वस्तुतः ‘मकारः यस्मिन् धातौ इत्संज्ञकः, सः धातुः मित्संज्ञकः’ - इति अर्थः भवेत्, परन्तु कस्मिन्नपि धातौ मकारः इत्संज्ञकः नास्ति । तर्हि कस्य धातोः मित्संज्ञा भवति? धातुपाठे विद्यमानैः भिन्नैः गणसूत्रैः अनेके धातवः ‘मित्’संज्ञकाः उच्यन्ते । यथा, चुरादिगणे विद्यमानम् गणसूत्रम् ज्ञपादयो मितः इत्यनेन ज्ञपँ, यमँ, चहँ, रहँ, बलँ, चिञ् - एते षट्-धातवः मित्संज्ञकाः भवन्ति । तथैव, घटादयो मितः इत्यनेन घटाद्यन्तर्गणे विद्यमानाः धातवः मित्संज्ञकाः भवन्ति । एतादृशाः मित्-संज्ञकाः ये धातवः, तेषामुपधावर्णस्य णिच्-प्रत्यये परे अनेन सूत्रेण ह्रस्वादेशः भवति । यथा - 1. चुरादिगणे विद्यमानः ज्ञप् धातुः - ज्ञप् + णिच् [सत्यापपाश.. (3.1.25) इति णिच्] → ज्ञप् + इ [इत्संज्ञालोपः] → ज्ञाप् + इ [अतः उपधायाः (7.2.116) इति वृद्धिः] → ज्ञप् + इ [मितां ह्रस्वः (6.4.92) इति ह्रस्वादेशः] → ज्ञपि [सनाद्यन्ताः धातवः (3.1.32) इति धातुसंज्ञा] अस्य रूपाणि अग्रे ‘ज्ञपयति’, ‘ज्ञपयतः’ आदीनि भवन्ति । 2. भ्वादिगणस्य घटाद्यन्तर्गणे विद्यमानः हेड्-धातुः- हेड् + णिच् [हेतुमति च (3.1.26) इति णिच्] → हेड् + इ [इत्संज्ञालोपः] → हिड् + इ [मितां ह्रस्वः (6.4.92) इति ह्रस्वादेशः । एच इग्घ्रस्वादेशे (1.1.48) इति एकारस्य ह्रस्वादेशः इकारः] → हिडि[सनाद्यन्ताः धातवः (3.1.32) इति धातुसंज्ञा] अस्य रूपाणि अग्रे ‘हिडयति’, ‘हिडयतः’ आदीनि भवन्ति । 3. चुरादिगणे विद्यमानः चिञ्-धातुः चि + णिच् [सत्यापपाश.. (3.1.25) इति णिच्] → चि + इ [इत्संज्ञालोपः] → चै + इ [अचो ञ्णिति (7.2.115) इति वृद्धिः] → चाय् + इ [एचोऽयवायावः (6.1.78) इति आय्-आदेशः] → चय् + इ [मितां ह्रस्वः (6.4.92) इति ह्रस्वादेशः] → चयि [सनाद्यन्ताः धातवः (3.1.32) इति धातुसंज्ञा] अस्य रूपाणि अग्रे ‘चययति’, ‘चययतः’ आदीनि भवन्ति । ज्ञातव्यम् - एतत् सूत्रम् अतः उपधायाः (7.2.116) इत्यस्य अपवादः नास्ति, यतः अनेन सूत्रेण सर्वेषामुपधावर्णानाम् ह्रस्वादेशः उच्यते, केवलमकारस्य न । एतयोर्मध्ये विप्रतिषेधः अपि नास्ति, यतः उपधायामकारः अस्ति चेत् अस्य सूत्रस्य किमपि प्रयोजनमेव नास्ति । अतः णिच्-प्रत्यये परे आवश्यकं चेत् अतः उपधायाः (7.2.116) इत्यस्यापि प्रयोगः भवितुमर्हति, मितां ह्रस्वः (6.4.92) इत्यस्यापि च । एवमस्ति चेत् च णिच्-प्रत्ययविशिष्टानि कार्याणि ( यथा - गुणवृद्धी तथा तस्मात् जायमानाः अय्/अव्/आय्/आव् एते आदेशाः - एतानि सर्वाणि) आदौ कृत्वा तदनन्तरमेव च अनेन सूत्रेण ह्रस्वादेशः विधीयते । किमर्थम्? यतः आदौ एव अनेन सूत्रेण ह्रस्वादेशं कृत्वा अनन्तरम् णिच्-प्रत्ययविशिष्टानि कार्याणि कुर्मश्चेत् ह्रस्वादेशस्य प्रयोजनमेव विनश्येत् ।

Sutrartha (English)

The उपधा letter of a मित्संज्ञक अङ्ग becomes ह्रस्व when followed by the णिच् प्रत्यय.

Vasu English Summary

The roots having an indicatory म् retain their penultimate short vowel before the causative णि।

Vasu English Translation

The roots having an indicatory म् retain their penultimate short vowel before the causative णि। The मित् roots are घटादि a subdivision of Bhwadi (800 to 873), and all other roots that end in अम् as शम् and तम् of Divadi class. Thus घटयति, व्यथयति, जनयति, रजयति, शमयति, ज्ञपयति ॥ Some read the anuvritti of the word ‘optionally’ from the last sutra into this. This will then be a limited option only (vyavasthita-vibhasha). The forms उत्क्रामयति and संक्रामयति are thus explained.

Kashika

मितो धातवो घटादयो मितः इत्येवमादयो ये प्रतिपादिताः, तेषामुपधाया ह्रस्वो भवति णौ परतः। घटयति। व्यथयति। जनयति। रजयति। शमयति। ज्ञपयति। केचिदत्र वेत्यनुवर्तयन्ति। सा च व्यवस्थितविभाषा । तेन उत्क्रामयति, संक्रामयतीत्येवमादि सिद्धं भवति॥

Siddhanta Kaumudi

मितामुपधायाह्रस्वः स्याण्णौ परे । ज्ञपयति ।{$ {!1626 यम!} परिवेषणे$} । चान्मित् । पिरवेषणमिह वेष्टनम् । न तु भोजनानापि वेष्टना । यमयति चन्द्रम् । परिवेष्टत इत्यर्थः ।{$ {!1627 चह!} परिकल्कने$} । चहयति । अचीचहत् । कथादौ वक्ष्यमाणस्य तु अदन्तात्वेनाग्लोपित्वाद्दीर्घसन्वद्भावौ न । अचचहत् । चप इत्येके । चपयति ।{$ {!1628 रह!} त्यागे इत्येके$} । अरीरहत् । कथादेस्तु अररहत् ।{$ {!1629 बल!} प्राणने$} । बलयति ।{$ {!1630 चिञ्!} चयने$} ॥

Laghu Siddhanta Kaumudi

घटादीनां ज्ञपादीनां चोपधाया ह्रस्वः स्याण्णौ । घटयति ॥ {$ {! 3 ज्ञप !} ज्ञाने ज्ञापने च $} (धातुपाठे (10.0118)) ॥ ज्ञपयति । अजिज्ञपत् ॥ इति ण्यन्तप्रक्रिया ॥

Balamanorama

मितां ह्रस्वः - मितां ह्रस्वः । ‘ऊदुपधाया गोहः’ इत्यत उपधाया इति, ‘दोषो णौ’ इत्यतो णाविति चानुवर्तते । तदाह — मितामुपधाया इत्यादिना । ज्ञपयतीति । णिचि उपधावृद्धौ ह्रस्व इति भावः । यम च परिवेषणे । चान्मिदिति । ‘इति अनुकृष्यते’ इति शेषः । यमधातुः परिवेषणे णिचं लभते, मित्कार्यभाक्चेत्यर्थः । मित्संज्ञक इति वा । परिवेषणामिह वेष्टनमिति ।पिरवेषस्तु परिधि॑रिति कोशादिति भावः । न तु भोजनमिति । भुजेर्हेतुमण्ण्यन्तात्स्त्रियामित्यधिकारेण्यासश्रन्थो युच् । क्लीबत्वं लोकात् ।भोजने॑त्येव क्वचित्पाठः । भोक्तुः पात्रे भोज्यद्रव्योपकल्पनमिह न परिवेषणमित्यर्थः । भोजनायां यमेर्हुतमण्ण्यन्तस्य अमन्तत्वादेव मित्त्वसिद्धेरिति भावः । परिवेष्टत इत्यर्थ इति । अनेन इह परिविषेरण्यन्ताल्ल्युटि परिवेषणशब्द इति सूचितम् । नच वेष्टनेऽप्यर्थे यमेरमन्तत्वादेव सिद्धे मित्त्विधिव्र्यर्थ इति वाच्यं,न कम्यमिचमा॑मिति मित्तवप्रतिषेधप्रकरणस्थे ‘यमोऽपरिवेषणे’ इति घटाद्यन्तर्गणसूत्रेऽपरिवेषणे इति पर्युदासेन भोजनेतोऽन्यत्र वेष्टनेऽर्थे मित्तवनिषेधस्य प्राप्तौ मित्त्वप्रापणार्थत्वात् । ‘यमोऽपरिवेषणे’ इत्यत्र परिवेषण शब्देन भोजनाया एव विवक्षितत्वेन वेष्टने यमेर्मित्त्वनिषेधस्य प्रसङ्गात् । अत एवयमिर्भोजनातोऽन्यत्र न मि॑दिति व्याख्यातं मूलकृता । भोजनायां तु ‘यमोऽपरिवेषणे’ इति मित्त्वनिषेधविधौ भोजनायाः पर्युदासादेव तत्र मित्त्वनिषेधाऽभावादम्नतत्वादेव मित्त्वप्राप्तेरिह चुरादौ पिरवेषणशब्देन वेष्टनमेव विवक्षितं नतु भोजनेत्यास्तां तावत् । चह परिकल्पने इति । इत आरभ्य ‘चिञ् चयने’ इत्येतत्पर्यन्तं चेत्यनुवर्तते । अतस्तेषां मित्त्वण्णिचि ह्रस्वः । तदाह - चहयतीति । नन्वनेनैव सिद्धे अग्रे चुराद्यन्तर्गणे कथादावस्य पाठो व्यर्थ इत्यत आह — कथादाविति ।कथादयोऽदन्ता॑इति वक्ष्यते । तस्माण्णिचि अल्लोपे चहयतीत्यादौ अल्लोपस्य स्थानिवत्त्वाद्वृद्ध्यबावे मित्त्वाद्ध्रस्वे च न विशेषः । तथापि अदन्ताच्चङि णौ अल्लोपे सति अग्लोपितया सन्वत्त्वदीर्घयोरभावेअचचह॑दिति रूपमस्ति फलमित्यर्थः । चप इत्येके इति । ‘चह परिकल्पने’ इत्यस्य स्थानेचपे॑त्येके पठन्तीत्यर्थः । ‘रह त्यागे इत्येके’ इत्यपि तथैव व्याख्येयम् । एवं च ज्ञपादिषु पञ्चसु चहधातुश्चपधातुः रहधातुर्वा अन्यतमस्तृतीयः, बलधातुश्चतुर्थः, चिञ्धातुः पञ्चम इति कृत्वा ज्ञपादिपञ्चानां मतत्रयेऽपि पञ्चत्वाज्ज्ञपादिपञ्चकत्वस्य न विरोधः ।रह त्यागे॑इत्यस्यापि कथादिपाठफलमाह — कथादेस्तु अररहदिति । अदन्तत्वेन अग्लोपित्वान्न दीर्घसन्वत्त्वे इति भावः । बल प्राणने ।चे॑त्यनुवृत्त्या मित्त्वस्यानुकर्षणाद्ध्रस्वं मत्वाह — बलयतीति ।

Tattvabodhini

मितां ह्रस्वः - वेष्टनमिति ।परिवेषस्तु परिधि॑रित्यमरः । न त्वित्यादि । अयं भावः — घटादौयमोऽपरिवेषणे॑ इति पठितं, तत्र हि परिवेषणमिति हेतुमण्ण्यन्तस्य रूपम् । हेतुमण्ण्यन्तस्य हि भोजना वेष्टना चाऽर्थः । तथा च अपरिवेषण इत्यनेन भोजनातो वेष्टनातश्चान्यत्र मित्त्वनिषेधेऽपि तयोरर्थयोस्त्वमन्तत्वादेव मित्त्वसिद्धेरिति । यद्यपि घटादौयच्छतिर्भोजनातोऽन्यत्र मिन्ने॑ति व्याख्यातं तथाप्यत्रत्यग्रन्थानुगुण्येनोपपलक्षणतया तद्व्याख्येयमित्याहुः । अत्रेदं बोध्यं — घटादौयमोऽपरिवेषणे॑ इत्यत्र परिपूर्वकस्य विषेर्णिजन्तस्य ल्युटि रूपम्,यम च परिवेषणे॑ इत्यत्र तु केवलस्यैव ल्युटि रूपं न तु णिजन्तस्य । तथा च भोजनावद्वेष्टनाया अपि परिवेषणशब्दार्थत्वादुभयत्राप्यमन्तत्वेनैव मित्त्वं सिध्यति । वेष्टने तु अपरिवेषण इत्यनेन अमन्तत्वप्रयुक्तमित्त्वस्य निषेधेऽपियम च परिवेषणे॑ इत्यनेन मित्त्वं सिध्यतीति दिक् ।

Padamanjari

रजयतीति । रञ्जोर्णौ मृगरमण उपसङ्ख्यानम् इत्युपधालोपः ॥

Nyaas

एवमादिना इति। आदिशब्देन जनीजृष्कनसुरञ्जोऽमन्ताश्च (धातुपाठः-817) इत्येवमादिग्रहणम्। घटयति व्यथयति` जनयति` इति। घट चेष्टायाम् (धातुपाठः-763) व्यथ भयचलनयोः (धातुपाठः-764) `जनौ प्रादुर्भावे (धातुपाठः-1149)। ननु च जनेः जनिवध्योश्च (7.3.35) इति वृद्धिः प्रतिषिध्यते, तदयुक्तमिदमुदाहरणम्, मित्सज्ञाप्यापार्थिका? नैतदस्ति; चिण्कृतोर्हि स वृद्धिप्रतिषेधः, तत्र हि आतो युक्? चिण्कृतोः (7.3.33) #इत्यनुवर्तते। रजयित इति। रञ्जेर्णौ मृगरमण उपसंख्यानम् (वा।778)। इत्यनुनासिकलोपे कृते अत उपधायाः (7.2.116) इति वृद्धिः। तस्यानेन ह्रस्वः। शमयति इति। शमेरमन्तत्वान्मित्त्वम्। अस्यापि नोदात्तोपदेश (7.3.34) इत्यादिना वृद्धिप्रतिषेधश्चिण्कृतोरेव। ज्ञापयति इति। ज्ञा अवबोधने (धातुपाठः-1507) इत्यस्य क्र्यादिपरिपठितस्य मारणतोषणनिशामनेषु (धातुपाठः-811) ज्ञा, मिच्च इति मित्संज्ञा, अर्तिह्यी (7.3.36) इत्यादिना पुकि कृते ह्रस्वः। केचिदत्र इत्यादि। क्रमु पादविक्षेपे (धातुपाठः-437)इत्यस्यामन्तत्वान्मित्संज्ञा, तस्य च ह्रस्वत्वे संक्रामयति, उत्क्रामयतीति न सिद्ध्येत्। तस्मादेतत्सिद्धये वा चित्तविरागे (6.4.91) इत्यतो वाग्रहणमनुवर्तयन्ति। तस्मश्चानुवर्तमाने सर्वत्र विकल्पः प्रसज्येतेत्यतिप्रसङ्गपरिहारार्थं सा च व्यवस्थितविभाषा इति। व्याचक्षते। अथ मितामत् इत्येवं कस्मान्नोक्तम्, लघु ह्रेवं सूत्रं भवति? अशक्यमेवं वक्तुम्, वेष्ट वेष्टने (धातुपाठः-255) इति घटादौ पठते, तत्रैवमुच्यमाने तस्याप्कारः प्रसज्येत्, ह्रस्वः इत्युच्यमाने एच इग्घ्रस्वादेशे (1.1.48) इतीकारः सिद्धो भवति॥

Prakriyasarvasvam

मितां धातूनां णौ ह्रस्वः स्यात् । त्वरयति । अतत्वरत् । प्रथयति । अपप्रथत् । म्रदयति । अमम्रदत् । वेष्टयति । चेष्टयति ।

Sudha

मितां ह्रस्व इति । ऊदुपधाया गोहः (6.4.89) इत्यत उपधाया इति । दोषो णौ (6.4.90) इत्यस्माद् णौ इति चानुवर्तते तदाह - ह्रस्व इति । के ते मित्संज्ञका इत्यत आह - घटादीनां ज्ञपादीनां चेति । “घटयति” । घट इत्यस्माण्णिचि अत उपधाया (7.2.116) इति उपधावृद्धौ घटादेर्मित्वात् मितां ह्रस्वः (7.4.92) इति ह्रस्वे धातुत्वाल्लटस्तिपि शपि गुणेऽयादेशे च तत्सिद्धिः । “ शपयति” । ज्ञप धातोश्चुरादित्वाण्णिचि अनुबन्धलोपे अत उपधायाः (7.2.116) इति वृद्धौ ‘ज्ञप मिच्च’ इति मित्वात् मितां ह्रस्वः (6.4.92) इति उपधाया ह्रस्वत्वे सनाद्यन्ता (3.1.32) इति धातुत्वाल्लटस्तिपि शपि अनुबन्धलोपे उभयत्र सार्वधातुकसंज्ञायां गुणे अयादेशे च तत्सिद्धिः । “अजिज्ञपत ।” ज्ञप इत्यस्माण्णिचि उपधावृद्धौ हृस्वे “ज्ञपि” इति जाते धातुत्वाल्लुङस्तिप इकारलोपेऽटि च्लेश्चङि णेरनिटि (6.4.51) इति णिलोपे चङि (6.1.11) इति द्वित्वेऽभ्यासकार्ये सन्वल्लघुनि चङ्परेऽनग्लोपे (7.4.93) इति सन्वद्भावे सन्यतः (7.4.79) इति अभ्यासस्याकारस्येत्वे लघुत्वाभावात् दीर्घो लघोः (7.4.94) इति दीर्घाभावे “अजिज्ञपत्” इति रूपम् । इति ण्यन्तप्रक्रिया ॥

Sutra Prayogas

  • विश्रामय (रघुवंशम्): मितां ह्रस्वः इति सूत्रे व्यवस्थितविभाषाश्रयणत्वाद्ध्रस्वाभावः।

  • संगमय्य (रघुवंशम्): मितां ह्रस्वः इति ह्रस्वः।

  • प्रविघाटयिता (किरातार्जुनीयम्): मितां ह्रस्वः इति चौरादिकस्य ह्रस्वत्वं स्यात्।

  • मदयति (किरातार्जुनीयम्): मितां ह्रस्वः इति हस्वः।

  • मदस्नपितैः (किरातार्जुनीयम्): मितां ह्रस्वः इति ह्रस्वः।

  • ज्वलयता (किरातार्जुनीयम्): मितां ह्रस्वः इति ह्रस्वः।

  • स्मरयति (किरातार्जुनीयम्): मितां ह्रस्वः इति ह्रस्वः।

  • नामितं (किरातार्जुनीयम्): मितां ह्रस्वः इत्यत्र वाशब्दानुवृत्त्या व्यवस्थितविभाषाश्रयणान्न ह्रस्वः।

  • स्नपितेव (शिशुपालवधम्): मितां ह्रस्वः इति ह्रस्वः।

  • निशाम्य (शिशुपालवधम्): मितां ह्रस्वः इति सूत्रेण ह्रस्वाभावश्चिन्त्यः।

  • निशमय्य (शिशुपालवधम्): मितां ह्रस्वः इति ह्रस्वः।