64092: मितां ह्रस्वः ==================== **Padacheda:** मिताम् | S | 6 | 3 | ह्रस्वः | S | 1 | 1 | Sutrartha --------- **मित्संज्ञकस्य अङ्गस्य उपधावर्णस्य णिच्-प्रत्यये परे ह्रस्वादेशः भवति ।** यः धातुः मित्संज्ञकः अस्ति, तस्य धातोः उपधायाः णिच्-प्रत्यये परे ह्रस्वादेशः भवति । किम् नाम मित्संज्ञकः? वस्तुतः 'मकारः यस्मिन् धातौ इत्संज्ञकः, सः धातुः मित्संज्ञकः' - इति अर्थः भवेत्, परन्तु कस्मिन्नपि धातौ मकारः इत्संज्ञकः नास्ति । तर्हि कस्य धातोः मित्संज्ञा भवति? धातुपाठे विद्यमानैः भिन्नैः गणसूत्रैः अनेके धातवः 'मित्'संज्ञकाः उच्यन्ते । यथा, चुरादिगणे विद्यमानम् गणसूत्रम् **ज्ञपादयो मितः** इत्यनेन ज्ञपँ, यमँ, चहँ, रहँ, बलँ, चिञ् - एते षट्-धातवः मित्संज्ञकाः भवन्ति । तथैव, **घटादयो मितः** इत्यनेन घटाद्यन्तर्गणे विद्यमानाः धातवः मित्संज्ञकाः भवन्ति । एतादृशाः मित्-संज्ञकाः ये धातवः, तेषामुपधावर्णस्य णिच्-प्रत्यये परे अनेन सूत्रेण ह्रस्वादेशः भवति । यथा - 1. चुरादिगणे विद्यमानः ज्ञप् धातुः - ज्ञप् + णिच् [**सत्यापपाश..** (3.1.25) इति णिच्] → ज्ञप् + इ [इत्संज्ञालोपः] → ज्ञाप् + इ [**अतः उपधायाः** (7.2.116) इति वृद्धिः] → ज्ञप् + इ [**मितां ह्रस्वः** (6.4.92) इति ह्रस्वादेशः] → ज्ञपि [**सनाद्यन्ताः धातवः** (3.1.32) इति धातुसंज्ञा] अस्य रूपाणि अग्रे 'ज्ञपयति', 'ज्ञपयतः' आदीनि भवन्ति । 2. भ्वादिगणस्य घटाद्यन्तर्गणे विद्यमानः हेड्-धातुः- हेड् + णिच् [**हेतुमति च** (3.1.26) इति णिच्] → हेड् + इ [इत्संज्ञालोपः] → हिड् + इ [**मितां ह्रस्वः** (6.4.92) इति ह्रस्वादेशः । **एच इग्घ्रस्वादेशे** (1.1.48) इति एकारस्य ह्रस्वादेशः इकारः] → हिडि[**सनाद्यन्ताः धातवः** (3.1.32) इति धातुसंज्ञा] अस्य रूपाणि अग्रे 'हिडयति', 'हिडयतः' आदीनि भवन्ति । 3. चुरादिगणे विद्यमानः चिञ्-धातुः चि + णिच् [**सत्यापपाश..** (3.1.25) इति णिच्] → चि + इ [इत्संज्ञालोपः] → चै + इ [**अचो ञ्णिति** (7.2.115) इति वृद्धिः] → चाय् + इ [**एचोऽयवायावः** (6.1.78) इति आय्-आदेशः] → चय् + इ [**मितां ह्रस्वः** (6.4.92) इति ह्रस्वादेशः] → चयि [**सनाद्यन्ताः धातवः** (3.1.32) इति धातुसंज्ञा] अस्य रूपाणि अग्रे 'चययति', 'चययतः' आदीनि भवन्ति । ज्ञातव्यम् - एतत् सूत्रम् **अतः उपधायाः** (7.2.116) इत्यस्य अपवादः नास्ति, यतः अनेन सूत्रेण सर्वेषामुपधावर्णानाम् ह्रस्वादेशः उच्यते, केवलमकारस्य न । एतयोर्मध्ये विप्रतिषेधः अपि नास्ति, यतः उपधायामकारः अस्ति चेत् अस्य सूत्रस्य किमपि प्रयोजनमेव नास्ति । अतः णिच्-प्रत्यये परे आवश्यकं चेत् **अतः उपधायाः** (7.2.116) इत्यस्यापि प्रयोगः भवितुमर्हति, **मितां ह्रस्वः** (6.4.92) इत्यस्यापि च । एवमस्ति चेत् च णिच्-प्रत्ययविशिष्टानि कार्याणि ( यथा - गुणवृद्धी तथा तस्मात् जायमानाः अय्/अव्/आय्/आव् एते आदेशाः - एतानि सर्वाणि) आदौ कृत्वा तदनन्तरमेव च अनेन सूत्रेण ह्रस्वादेशः विधीयते । किमर्थम्? यतः आदौ एव अनेन सूत्रेण ह्रस्वादेशं कृत्वा अनन्तरम् णिच्-प्रत्ययविशिष्टानि कार्याणि कुर्मश्चेत् ह्रस्वादेशस्य प्रयोजनमेव विनश्येत् । Sutrartha (English) ------------------- The उपधा letter of a मित्संज्ञक अङ्ग becomes ह्रस्व when followed by the णिच् प्रत्यय. Vasu English Summary -------------------- The roots having an indicatory म् retain their penultimate short vowel before the causative णि। Vasu English Translation ------------------------ The roots having an indicatory म् retain their penultimate short vowel before the causative णि। The मित् roots are घटादि a subdivision of *Bhwadi* (800 to 873), and all other roots that end in अम् as शम् and तम् of *Divadi* class. Thus घटयति, व्यथयति, जनयति, रजयति, शमयति, ज्ञपयति ॥ Some read the *anuvritti* of the word 'optionally' from the last *sutra* into this. This will then be a limited option only (*vyavasthita*-*vibhasha*). The forms उत्क्रामयति and संक्रामयति are thus explained. Kashika ------- मितो धातवो **घटादयो मितः** इत्येवमादयो ये प्रतिपादिताः, तेषामुपधाया ह्रस्वो भवति णौ परतः। घटयति। व्यथयति। जनयति। रजयति। शमयति। ज्ञपयति। केचिदत्र वेत्यनुवर्तयन्ति। सा च व्यवस्थितविभाषा । तेन उत्क्रामयति, संक्रामयतीत्येवमादि सिद्धं भवति॥ Siddhanta Kaumudi ----------------- मितामुपधायाह्रस्वः स्याण्णौ परे । ज्ञपयति ।{$ {!1626 यम!} परिवेषणे$} । चान्मित् । पिरवेषणमिह वेष्टनम् । न तु भोजनानापि वेष्टना । यमयति चन्द्रम् । परिवेष्टत इत्यर्थः ।{$ {!1627 चह!} परिकल्कने$} । चहयति । अचीचहत् । कथादौ वक्ष्यमाणस्य तु अदन्तात्वेनाग्लोपित्वाद्दीर्घसन्वद्भावौ न । अचचहत् । चप इत्येके । चपयति ।{$ {!1628 रह!} त्यागे इत्येके$} । अरीरहत् । कथादेस्तु अररहत् ।{$ {!1629 बल!} प्राणने$} । बलयति ।{$ {!1630 चिञ्!} चयने$} ॥ Laghu Siddhanta Kaumudi ----------------------- घटादीनां ज्ञपादीनां चोपधाया ह्रस्वः स्याण्णौ । घटयति ॥ {$ {! 3 ज्ञप !} ज्ञाने ज्ञापने च $} (धातुपाठे (10.0118)) ॥ ज्ञपयति । अजिज्ञपत् ॥ इति ण्यन्तप्रक्रिया ॥ Balamanorama ------------ **मितां ह्रस्वः** - मितां ह्रस्वः । 'ऊदुपधाया गोहः' इत्यत उपधाया इति, 'दोषो णौ' इत्यतो णाविति चानुवर्तते । तदाह — मितामुपधाया इत्यादिना । ज्ञपयतीति । णिचि उपधावृद्धौ ह्रस्व इति भावः । यम च परिवेषणे । चान्मिदिति । 'इति अनुकृष्यते' इति शेषः । यमधातुः परिवेषणे णिचं लभते, मित्कार्यभाक्चेत्यर्थः । मित्संज्ञक इति वा । परिवेषणामिह वेष्टनमिति ।पिरवेषस्तु परिधि॑रिति कोशादिति भावः । न तु भोजनमिति । भुजेर्हेतुमण्ण्यन्तात्स्त्रियामित्यधिकारेण्यासश्रन्थो युच् । क्लीबत्वं लोकात् ।भोजने॑त्येव क्वचित्पाठः । भोक्तुः पात्रे भोज्यद्रव्योपकल्पनमिह न परिवेषणमित्यर्थः । भोजनायां यमेर्हुतमण्ण्यन्तस्य अमन्तत्वादेव मित्त्वसिद्धेरिति भावः । परिवेष्टत इत्यर्थ इति । अनेन इह परिविषेरण्यन्ताल्ल्युटि परिवेषणशब्द इति सूचितम् । नच वेष्टनेऽप्यर्थे यमेरमन्तत्वादेव सिद्धे मित्त्विधिव्र्यर्थ इति वाच्यं,न कम्यमिचमा॑मिति मित्तवप्रतिषेधप्रकरणस्थे 'यमोऽपरिवेषणे' इति घटाद्यन्तर्गणसूत्रेऽपरिवेषणे इति पर्युदासेन भोजनेतोऽन्यत्र वेष्टनेऽर्थे मित्तवनिषेधस्य प्राप्तौ मित्त्वप्रापणार्थत्वात् । 'यमोऽपरिवेषणे' इत्यत्र परिवेषण शब्देन भोजनाया एव विवक्षितत्वेन वेष्टने यमेर्मित्त्वनिषेधस्य प्रसङ्गात् । अत एवयमिर्भोजनातोऽन्यत्र न मि॑दिति व्याख्यातं मूलकृता । भोजनायां तु 'यमोऽपरिवेषणे' इति मित्त्वनिषेधविधौ भोजनायाः पर्युदासादेव तत्र मित्त्वनिषेधाऽभावादम्नतत्वादेव मित्त्वप्राप्तेरिह चुरादौ पिरवेषणशब्देन वेष्टनमेव विवक्षितं नतु भोजनेत्यास्तां तावत् । चह परिकल्पने इति । इत आरभ्य 'चिञ् चयने' इत्येतत्पर्यन्तं चेत्यनुवर्तते । अतस्तेषां मित्त्वण्णिचि ह्रस्वः । तदाह - चहयतीति । नन्वनेनैव सिद्धे अग्रे चुराद्यन्तर्गणे कथादावस्य पाठो व्यर्थ इत्यत आह — कथादाविति ।कथादयोऽदन्ता॑इति वक्ष्यते । तस्माण्णिचि अल्लोपे चहयतीत्यादौ अल्लोपस्य स्थानिवत्त्वाद्वृद्ध्यबावे मित्त्वाद्ध्रस्वे च न विशेषः । तथापि अदन्ताच्चङि णौ अल्लोपे सति अग्लोपितया सन्वत्त्वदीर्घयोरभावेअचचह॑दिति रूपमस्ति फलमित्यर्थः । चप इत्येके इति । 'चह परिकल्पने' इत्यस्य स्थानेचपे॑त्येके पठन्तीत्यर्थः । 'रह त्यागे इत्येके' इत्यपि तथैव व्याख्येयम् । एवं च ज्ञपादिषु पञ्चसु चहधातुश्चपधातुः रहधातुर्वा अन्यतमस्तृतीयः, बलधातुश्चतुर्थः, चिञ्धातुः पञ्चम इति कृत्वा ज्ञपादिपञ्चानां मतत्रयेऽपि पञ्चत्वाज्ज्ञपादिपञ्चकत्वस्य न विरोधः ।रह त्यागे॑इत्यस्यापि कथादिपाठफलमाह — कथादेस्तु अररहदिति । अदन्तत्वेन अग्लोपित्वान्न दीर्घसन्वत्त्वे इति भावः । बल प्राणने ।चे॑त्यनुवृत्त्या मित्त्वस्यानुकर्षणाद्ध्रस्वं मत्वाह — बलयतीति । Tattvabodhini ------------- **मितां ह्रस्वः** - वेष्टनमिति ।परिवेषस्तु परिधि॑रित्यमरः । न त्वित्यादि । अयं भावः — घटादौयमोऽपरिवेषणे॑ इति पठितं, तत्र हि परिवेषणमिति हेतुमण्ण्यन्तस्य रूपम् । हेतुमण्ण्यन्तस्य हि भोजना वेष्टना चाऽर्थः । तथा च अपरिवेषण इत्यनेन भोजनातो वेष्टनातश्चान्यत्र मित्त्वनिषेधेऽपि तयोरर्थयोस्त्वमन्तत्वादेव मित्त्वसिद्धेरिति । यद्यपि घटादौयच्छतिर्भोजनातोऽन्यत्र मिन्ने॑ति व्याख्यातं तथाप्यत्रत्यग्रन्थानुगुण्येनोपपलक्षणतया तद्व्याख्येयमित्याहुः । अत्रेदं बोध्यं — घटादौयमोऽपरिवेषणे॑ इत्यत्र परिपूर्वकस्य विषेर्णिजन्तस्य ल्युटि रूपम्,यम च परिवेषणे॑ इत्यत्र तु केवलस्यैव ल्युटि रूपं न तु णिजन्तस्य । तथा च भोजनावद्वेष्टनाया अपि परिवेषणशब्दार्थत्वादुभयत्राप्यमन्तत्वेनैव मित्त्वं सिध्यति । वेष्टने तु अपरिवेषण इत्यनेन अमन्तत्वप्रयुक्तमित्त्वस्य निषेधेऽपियम च परिवेषणे॑ इत्यनेन मित्त्वं सिध्यतीति दिक् । Padamanjari ----------- रजयतीति । रञ्जोर्णौ मृगरमण उपसङ्ख्यानम् इत्युपधालोपः ॥ Nyaas ----- `एवमादिना` इति। आदिशब्देन `जनीजृष्कनसुरञ्जोऽमन्ताश्च` (धातुपाठः-817) इत्येवमादिग्रहणम्। `घटयति` व्यथयति` जनयति` इति। `घट चेष्टायाम्` (धातुपाठः-763) `व्यथ भयचलनयोः (धातुपाठः-764) `जनौ प्रादुर्भावे` (धातुपाठः-1149)। ननु च जनेः **जनिवध्योश्च** (7.3.35) इति वृद्धिः प्रतिषिध्यते, तदयुक्तमिदमुदाहरणम्, मित्सज्ञाप्यापार्थिका? नैतदस्ति; चिण्कृतोर्हि स वृद्धिप्रतिषेधः, तत्र हि `आतो युक्? चिण्कृतोः` (7.3.33) #इत्यनुवर्तते। `रजयित` इति। `रञ्जेर्णौ मृगरमण उपसंख्यानम्` (वा।778)। इत्यनुनासिकलोपे कृते **अत उपधायाः** (7.2.116) इति वृद्धिः। तस्यानेन ह्रस्वः। `शमयति` इति। शमेरमन्तत्वान्मित्त्वम्। अस्यापि `नोदात्तोपदेश` (7.3.34) इत्यादिना वृद्धिप्रतिषेधश्चिण्कृतोरेव। `ज्ञापयति` इति। `ज्ञा अवबोधने` (धातुपाठः-1507) इत्यस्य क्र्यादिपरिपठितस्य `मारणतोषणनिशामनेषु (धातुपाठः-811) ज्ञा, मिच्च` इति मित्संज्ञा, `अर्तिह्यी` (7.3.36) इत्यादिना पुकि कृते ह्रस्वः। `केचिदत्र` इत्यादि। `क्रमु पादविक्षेपे` (धातुपाठः-437)इत्यस्यामन्तत्वान्मित्संज्ञा, तस्य च ह्रस्वत्वे संक्रामयति, उत्क्रामयतीति न सिद्ध्येत्। तस्मादेतत्सिद्धये **वा चित्तविरागे** (6.4.91) इत्यतो वाग्रहणमनुवर्तयन्ति। तस्मश्चानुवर्तमाने सर्वत्र विकल्पः प्रसज्येतेत्यतिप्रसङ्गपरिहारार्थं `सा च व्यवस्थितविभाषा` इति। व्याचक्षते। अथ `मितामत्` इत्येवं कस्मान्नोक्तम्, लघु ह्रेवं सूत्रं भवति? अशक्यमेवं वक्तुम्, `वेष्ट वेष्टने` (धातुपाठः-255) इति घटादौ पठते, तत्रैवमुच्यमाने तस्याप्कारः प्रसज्येत्, `ह्रस्वः` इत्युच्यमाने **एच इग्घ्रस्वादेशे** (1.1.48) इतीकारः सिद्धो भवति॥ Prakriyasarvasvam ----------------- मितां धातूनां णौ ह्रस्वः स्यात् । त्वरयति । अतत्वरत् । प्रथयति । अपप्रथत् । म्रदयति । अमम्रदत् । वेष्टयति । चेष्टयति । Sudha ----- **मितां ह्रस्व इति ।** **ऊदुपधाया गोहः** (6.4.89) इत्यत उपधाया इति । **दोषो णौ** (6.4.90) इत्यस्माद् णौ इति चानुवर्तते तदाह - **ह्रस्व इति** । के ते मित्संज्ञका इत्यत आह - **घटादीनां ज्ञपादीनां चेति** । "घटयति" । घट इत्यस्माण्णिचि **अत उपधाया** (7.2.116) इति उपधावृद्धौ घटादेर्मित्वात् **मितां ह्रस्वः** (7.4.92) इति ह्रस्वे धातुत्वाल्लटस्तिपि शपि गुणेऽयादेशे च तत्सिद्धिः । " शपयति" । ज्ञप धातोश्चुरादित्वाण्णिचि अनुबन्धलोपे **अत उपधायाः** (7.2.116) इति वृद्धौ 'ज्ञप मिच्च' इति मित्वात् **मितां ह्रस्वः** (6.4.92) इति उपधाया ह्रस्वत्वे **सनाद्यन्ता** (3.1.32) इति धातुत्वाल्लटस्तिपि शपि अनुबन्धलोपे उभयत्र सार्वधातुकसंज्ञायां गुणे अयादेशे च तत्सिद्धिः । "अजिज्ञपत ।" ज्ञप इत्यस्माण्णिचि उपधावृद्धौ हृस्वे "ज्ञपि" इति जाते धातुत्वाल्लुङस्तिप इकारलोपेऽटि च्लेश्चङि **णेरनिटि** (6.4.51) इति णिलोपे **चङि** (6.1.11) इति द्वित्वेऽभ्यासकार्ये **सन्वल्लघुनि चङ्परेऽनग्लोपे** (7.4.93) इति सन्वद्भावे **सन्यतः** (7.4.79) इति अभ्यासस्याकारस्येत्वे लघुत्वाभावात् **दीर्घो लघोः** (7.4.94) इति दीर्घाभावे "अजिज्ञपत्" इति रूपम् । इति ण्यन्तप्रक्रिया ॥ Sutra Prayogas -------------- * **विश्रामय** (रघुवंशम्): `मितां ह्रस्वः` इति सूत्रे व्यवस्थितविभाषाश्रयणत्वाद्ध्रस्वाभावः। * **संगमय्य** (रघुवंशम्): `मितां ह्रस्वः` इति ह्रस्वः। * **प्रविघाटयिता** (किरातार्जुनीयम्): `मितां ह्रस्वः` इति चौरादिकस्य ह्रस्वत्वं स्यात्। * **मदयति** (किरातार्जुनीयम्): `मितां ह्रस्वः` इति हस्वः। * **मदस्नपितैः** (किरातार्जुनीयम्): `मितां ह्रस्वः` इति ह्रस्वः। * **ज्वलयता** (किरातार्जुनीयम्): `मितां ह्रस्वः` इति ह्रस्वः। * **स्मरयति** (किरातार्जुनीयम्): `मितां ह्रस्वः` इति ह्रस्वः। * **नामितं** (किरातार्जुनीयम्): `मितां ह्रस्वः` इत्यत्र वाशब्दानुवृत्त्या व्यवस्थितविभाषाश्रयणान्न ह्रस्वः। * **स्नपितेव** (शिशुपालवधम्): `मितां ह्रस्वः` इति ह्रस्वः। * **निशाम्य** (शिशुपालवधम्): `मितां ह्रस्वः` इति सूत्रेण ह्रस्वाभावश्चिन्त्यः। * **निशमय्य** (शिशुपालवधम्): `मितां ह्रस्वः` इति ह्रस्वः।