64087: हुश्नुवोः सार्वधातुके

Padacheda: हु-श्नुवोः | S | 6 | 2 |

सार्वधातुके | S | 7 | 1 |

Sutrartha

अनेकाच्-अङ्गस्य ‘हु’ तथा ‘श्नु’ एतयोः असंयोगपूर्वस्य उवर्णस्य अजादि-सार्वधातुके प्रत्यये परे यणादेशः भवति ।

‘हु’ (दानादनयोः) इति जुहोत्यादिगणस्य धातुः । ‘श्नु’ इति स्वादिगणस्य विकरणम् । एतयोः द्वयोः उवर्णयोः अनेन सूत्रेण अजादि-सार्वधातुके प्रत्यये परे यणादेशः विधीयते । कदा? यदा अयमुवर्णः असंयोगपूर्वः अस्ति, अनेकाच्-अङ्गस्य च अन्ते अस्ति, तदा । कानिचन उदाहरणानि पश्यामः - 1. ‘हु’ धातोः लट्-लकारस्य प्रथमपुरुषबहुवचनस्य रूपम् एतादृशं सिद्ध्यति - हु + लट् [वर्तमाने लट् (3.2.123) इति लट्] → हु + झि [तिप्तस्.. (3.4.78) इति प्रथमपुरुषबहुवचनस्य प्रत्ययः ‘झि’] → हु + शप् + झि [कर्तरि शप् (3.1.68) इति शप्] → हु + हु + झि [जुहोत्यादिभ्यः श्लुः (2.4.75) इति श्लुः । ‘श्लौ’ (6.1.10) इति द्वित्वम्] → झु + हु + झि [कुहोश्चुः (7.4.62) इति अभ्यासस्य हकारस्य जवर्गादेशः । संवार-नाद-घोष-महाप्राण-हकारस्य तादृशः एव झकारः] → झु + हु + अति [अदभ्यस्तात् (7.1.4) इति झकारस्य अत्-आदेशः] → झु + ह्वति [सार्वधातुकार्धधातुकयोः (7.3.84) इत्यनेन गुणे प्राप्ते सार्वधातुकमपित् (1.2.4) इत्यनेन ‘अति’ इत्यस्य अपित्-गुणधर्मे प्राप्ते क्ङिति च (1.1.5) इति गुणनिषेधः । तदा अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (6.4.77) इत्यनेन उवङ्-आदेशे प्राप्ते हुश्नुवोः सार्वधातुके (6.4.87) इत्यनेन तस्य निषेधं कृत्वा यणादेशः विधीयते ] → जुह्वति [अभ्यासे चर्च्च (8.4.54) इति झकारस्य जश्त्वे जकारः] 2. ‘चिञ्’ (चयने) इति स्वादिगणस्य धातुः । अस्य धातोः लट्-लकारस्य प्रथमपुरुषबहुवचनस्य रूपम् एतादृशं सिद्ध्यति - चि + लट् [वर्तमाने लट् (3.2.123) इति लट्] → चि + झि [तिप्तस्.. (3.4.78) इति प्रथमपुरुषबहुवचनस्य प्रत्ययः ‘झि’] → चि + श्नु + झि [स्वादिभ्यः श्नुः (3.1.73) इति श्नु ] → चि + नु + अन्ति [झोऽन्तः (7.1.3) इति अन्तादेशः] → चिन्वन्ति [सार्वधातुकार्धधातुकयोः (7.3.84) इत्यनेन गुणे प्राप्ते सार्वधातुकमपित् (1.2.4) इत्यनेन ‘अन्ति’ इत्यस्य अपित्-गुणधर्मे प्राप्ते क्ङिति च (1.1.5) इति गुणनिषेधः । तदा अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (6.4.77) इत्यनेन उवङ्-आदेशे प्राप्ते हुश्नुवोः सार्वधातुके (6.4.87) इत्यनेन तस्य निषेधं कृत्वा यणादेशः विधीयते ] 3. यदि अङ्गस्य अन्ते विद्यमानः उकारः संयोगपूर्वः अस्ति, तर्हि अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा, स्वादिगणस्य ‘आप्ऌ’ (व्याप्तौ) अस्य धातोः लट्-लकारस्य प्रथमपुरुषबहुवचनस्य रूपम् एतादृशं सिद्ध्यति - आप् + लट् [वर्तमाने लट् (3.2.123) इति लट्] → आप्+ झि [तिप्तस्.. (3.4.78) इति प्रथमपुरुषबहुवचनस्य प्रत्ययः ‘झि’] → आप् + श्नु + झि [स्वादिभ्यः श्नुः (3.1.73) इति श्नु ] → आप् + नु + अन्ति [झोऽन्तः (7.1.3) इति अन्तादेशः] → आप्नुवन्ति [सार्वधातुकार्धधातुकयोः (7.3.84) इत्यनेन गुणे प्राप्ते सार्वधातुकमपित् (1.2.4) इत्यनेन ‘अन्ति’ इत्यस्य ङित्-गुणधर्मे प्राप्ते क्ङिति च (1.1.5) इति गुणनिषेधः । तदा अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (6.4.77) इत्यनेन उवङ्-आदेशः भवति । अत्र उकारः संयोगपूर्वः अस्ति (प् + न् + उ), अतः अत्र हुश्नुवोः सार्वधातुके (6.4.87) इत्यस्य प्रसक्तिः एव नास्ति । ] 4. यदि अङ्गात् परः अजादि-आर्धधातुकप्रत्ययः अस्ति, तर्हि अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा, हु-धातोः लिट्-लकारस्य प्रथमपुरुष-द्विवचनस्य रूपम् एतादृशं सिद्ध्यति - हु + लिट् [परोक्षे लिट् (3.2.115) इति लिट्] → हु + हु + ल् [लिटि धातोरनभ्यासस्य (6.1.8) इति अङ्गस्य द्वित्वम्] → झु + हु + ल् [कुहोश्चुः (7.4.62) इति संवार-नाद-घोष-महाप्राण-हकारस्य तादृशः एव चवर्गीयः झकारः] → झु + हु + तस् [तिप्तस्.. (3.4.78) इति तस्] → झु + हु + अतुस् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः (3.4.82) इति तस्-इत्यस्य अतुस्-आदेशः] → झु + ह् + उवङ् + अतुस् [सार्वधातुकार्धधातुकयोः (7.3.84) इत्यनेन गुणे प्राप्ते असंयोगाल्लिट् कित् (1.2.5) इत्यनेन असंयोगात् परस्य अतुस्-प्रत्ययस्य कित्-गुणधर्मे प्राप्ते क्ङिति च (1.1.5) इति गुणनिषेधः । तदा अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (6.4.77) इत्यनेन उवङ्-आदेशः भवति । अत्र आर्धधातुकः प्रत्यय अस्ति, अतः अत्र हुश्नुवोः सार्वधातुके (6.4.87) इत्यस्य प्रसक्तिः एव नास्ति ।]

Sutrartha (English)

The उवर्ण of an अनेकाच्-अङ्ग of ‘हु’ तथा ‘श्नु’ undergoes a यणादेश, provided that this उवर्ण does not follow a संयोग.

Vasu English Summary

The semi-vowel व् is substituted for the उ of हु and for that of नु (the characteristic of स्वादिगणः (5th Conjugation), before a सार्वधातुक affix – तिङ्शित्सार्वधातुकम् (3.4.113), beginning with a vowel when the अङ्ग (stem) consists of more than one syllable and the उ is not preceded by a conjunct consonant.

Vasu English Translation

The semi-vowel व् is substituted for the उ of हु and for that of नु (the characteristic of स्वादिगणः (5th Conjugation), before a सार्वधातुक affix – तिङ्शित्सार्वधातुकम् (3.4.113), beginning with a vowel when the अङ्ग (stem) consists of more than one syllable and the उ is not preceded by a conjunct consonant. Thus हु — जुह्वति, जुह्वतु; अजुह्वन्, so also with सु — as सुन्वन्ति, सुन्वन्तु, असुन्वन् ॥ Why do we say “of हु and श्नु formed stems”? Observe योयुवति, रोरुवति, from Intensive bases, by the elision of the यङ् affix, The यङ् is elided in the secular literature also, by the implication (jnapaka) of this aphorism, for no counter-example can be formed of a root consisting of more than one syllable and ending in उ, not preceded by a conjunct consonant and followed by a Sarvadhatuka affix, unless the intensive roots with the elision of यङ् be taken. Nor can we get examples from the Chhandas, for the preceding rule applies only to ardhadhatuka affixes. Why do we say before a Sarvadhatuka? Observe जुहुवतुः, जुहुवुः (6.4.77). So also not in आप्नुवन्ति and राध्नुवन्ति as the उ is preceded by a conjunct consonant.

Bhashya

हुश्नुवोः सार्वधातुके (3085) (6571 हुश्नुग्रहणप्रत्याख्यानवार्तिकम् ॥ 1 ॥) - हुश्नुग्रहणानर्थक्यमन्यस्याभावात् - हुश्नुग्रहणमनर्थकम् । किं कारणम् ? अन्यस्याभावात् । न ह्यन्यत्सार्वधातुकेऽस्ति, यस्य यणादेशः स्यात् ॥ ननु चायमस्ति - याति, वातीति । क्ङितीत्यनुवर्तते ॥ इदं तर्हि - यातः, वात इति । अचीति वर्तते ॥ इह तर्हि - यान्ति, वान्तीति । य्वोरिति वर्तते ॥ एवमपि - धियन्ति, पियन्ति - अत्र प्राप्नोति । ओरिति वर्तते ॥ एवमपि - सुवन्ति, रुवन्ति - इत्यत्र प्राप्नोति । अनेकाजिति वर्तते ॥ एवमपि - अयुवन्, अरुवन् - इत्यत्रापि प्राप्नोति । एतदप्यटोऽसिद्धत्वादेकाज्भवति ॥ एवमपि - प्रोर्णुवन्ति - इत्यत्रापि प्राप्नोति । असंयोगपूर्वस्येत्यनुवर्तते ॥ यङ्लुगर्थं तर्हि हुश्नुग्रहणं कर्तव्यम् । यङ्लुगन्तमनेकाजसंयोगपूर्वमुवर्णान्तमस्ति, तदर्थमिदम् । युवं योयुवतीनां वृषभम् । भवतु रोरुवतीनाम् ॥ यङ्लुगर्थमिति चेत्, तन्न । किं कारणम् ? आर्धधातुकत्वात्सिद्धम् । कथमार्धधातुकत्वम् ? उभयथा छन्दसीति वचनात् । अन्येऽपि हि धातुप्रत्ययाश्छन्दस्युभयथा दृश्यन्त इति ॥ (हुश्नुग्रहणज्ञापनभाष्यम्) एवं तर्हि सिद्धे सति यत् हुश्नुग्रहणं करोति तज्ज्ञापयत्याचार्यः - भाषायामपि यङ्लुग्भवतीति । किमेतस्य ज्ञापने प्रयोजनम् ? बेभिदीति, चेच्छिदीति - इत्येतत्सिद्धं भवति भाषायामपि - इति ॥

Kashika

हु इत्येतस्याङ्गस्य श्नुप्रत्ययान्तस्य चानेकाचोऽसंयोगपूर्वस्याजादौ सार्वधातुके परतो यणादेशो भवति। जुह्वति। जुह्वतु। जुह्वत्। सुन्वन्ति। सुन्वन्तु। असुन्वन्। हुश्नुवोरिति किम्? योयुवति। रोरुवति। इदमेव हुश्नुग्रहणं ज्ञापकं भाषायामपि यङ्लुगस्तीति। छन्दसि छन्दस्युभयथा (३.४.११७) इत्यार्धधातुकत्वादेव यणादेशस्याप्रसङ्गः। न च यङ्लुगन्तादन्यत् प्रत्युदाहरणमुवर्णान्तमनेकाजसंयोगपूर्वं सार्वधातुके विद्यते। सार्वधातुक इति किम्? जुहुवतुः जुहुवुः। असंयोगपूर्वस्येत्येव — आप्नुवन्ति। राध्नुवन्ति॥

Siddhanta Kaumudi

जुहोतेः श्नुप्रत्ययान्तस्यानेकाचोऽङ्गस्य चासंयोगपूर्वोवर्णस्य यण् स्यादजादौ सार्वधातुके । उवङोऽपवादः । शृण्वन्ति । शृणोमि । शृण्वः । शृणुवः । शृण्मः । शृणुमः । शुश्रोथ । शुश्रुव । शृणु । शृणवानि । शृणुयात् । श्रूयात् । अश्रौषीत् ।{$ {!943 ध्रु!} स्थैर्ये$} । ध्रवति । अयं कुटादौ गत्यर्थोऽपि ।{$ {!944 दु!} {!945 द्रु!} गतौ$} । दुदोथ । दुदविथ । दुदविव । दुद्रोथ । दुद्रुव । णिश्रि - (SK2312) इति चङ् । अदुद्रुवत् ।{$ {!946 जि!} {!947 ज्रि!} अभिभवे$} । अभिभवो न्यूनीकरणं न्यूनीभवनं च । आद्ये सकर्मकः । शत्रून् जयति । द्वितीये त्वकर्मकः । अध्ययनात्पराजयते । अध्येतुं ग्लायतीत्यर्थः । विपराभ्यां जे-(SK2685) इति तङ् । पराजेरसोढः (SK589) इत्यपादानत्वम् ॥ अथ डीङन्ता ङितः ॥{$ {!948 ष्मिङ्!} ईषद्धसने$} । स्मयते । सिष्मिये । सिष्मियिढ्वे । सिष्मियिध्वे ।{$ {!949 गुङ्!} अव्यक्ते शब्दे$} । गवते । जुगुवे ।{$ {!950 गाङ्!} गतौ$} । गाते । गाते । गाते । इट एत्वे कृते वृद्धिः । गै । लङ इटि । अगे । गेत । गेयाताम् । गेरन् । गासीष्ट । गाङ्कुटादिभ्यः - (SK2461) इति सूत्रे इङादेशस्यैव गाङो ग्रहणं न त्वस्य । तेनाङित्त्वात् घुमास्था - (SK2462) इतात्वं न । अगास्त । आदादिकोऽयमिति हरदत्तादयः । फले तु न भेदाः ।{$ {!951 कुङ्!} {!952 घुङ्!} {!953 उङ्!} {!954 ङुङ्!} शब्दे$} । अन्ये तु उङ् कुङ् खुङ् गुङ् घुङ् ङुङ् इत्याहुः । कवते । चुकुवे । घवते । अवते । उवे । [(परिभाषा - ) वार्णादाङ्गं बलीयम्] इत्युवङ् । ततः सवर्णदीर्घः । ओता । ओष्यते । ओषीष्ट । औष्ट । ङवते । ञुङुवे । ङोता ।{$ {!955 च्युङ्!} {!956 ज्युङ्!} {!957 प्रुङ्!} {!958 प्लुङ्!} गतौ $} । क्लुङ् इत्येके ।{$ {!959 रुङ्!} गतिरेषणयोः $}। रेषणं हिंसा । रुरुवे । रवितासे ।{$ {!960 धृङ्!} अवबन्धने$} । धरते । दध्रे ।{$ {!961 मेङ्!} प्रणिदाने$} । प्रणिदानं विनिमयः प्रत्यर्पणं च । प्रणिमयते । नेर्गद - (SK2285) इति णत्वम् । तत्र घुप्रकृतिमाङिति पठित्वा ङितो माप्कृतैरपि ग्रहणस्येष्टत्वात् ।{$ {!962 देङ्!} रक्षणे$} । दयते ॥

Laghu Siddhanta Kaumudi

हुश्नुवोरनेकाचोऽसंयोगपूर्वस्योवर्णस्य यण् स्यादचि सार्वधातुके। शृण्वन्ति। शृणोषि। शृणुथः। शृणुथ। शृणोमि॥

Balamanorama

हुश्नुवोः सार्वधातुके - शृणु-अन्तीति स्थिते अन्तेर्ङित्त्वात् श्नोर्गुणनिषेधे सति उवङि प्राप्ते — हुश्नुवोः । श्नोः प्रत्ययत्वात्तदन्तग्रहणम् ।इणो यणि॑त्यतो यणित्यनुवर्तते, ‘अचि श्नु’ इत्यतोऽचीति । तस्य सार्वधातुकविशेषणत्वात्तदादिविधिः । ‘एरनेकाचः’ इतिसूत्रमेरितिवर्जमनुवर्तते ।ओः सुपी॑त्यत ओरिति च षष्ठन्तम् । तदाह — जुहोतेरित्यादिना । असंयोगपूर्वस्येति तु उकारस्य विशेषणं न तु श्नुविशेषणम्, तेन आप्नुवन्तीत्यत्र यण् न । हुश्नुश्वोः किम् । योयुवति । अत्र युधातोर्यङ्लुकि ‘अदभ्यस्ता’ दिति झेरदादेशे योयु-अतीति स्थिते अनेकाजङ्गावयवस्य असंयोगपूर्वस्य उकारस्य यण् न भवति । अत्र भाष्ये ‘बहुलं छन्दसी’ इत्यनुवृत्तौ यङोऽचि चे॑ति विहितस्य यङ्लुकश्छान्दसत्वात्छन्दस्युभयथे॑त्यार्धधातुकत्वाश्रयणादेव योयुवतीत्यत्र यणभावसिद्धेर्हुश्नुग्रहणं भाषायमपि क्वचिद्यङ्लुकं ज्ञापयतीत्युक्तम् । तथा च भाषायामपि अनेकाचोऽसंयोगपूर्वकोकारान्ताद्योयुवतीत्यादौ यङ्लुक्सिद्धेस्तत्र यङाभाअवार्थं हुश्नुग्रहणमिति फलति । ज्ञापकस्य सामान्यपेक्षत्वादुदाहृतोवर्णान्तादन्यत्रापि यङ्लुक् सिध्यति । एतदेवाभिप्रेत्य भाष्ये — हुशनुग्रहणं ज्ञापयति — ॒भाषायामपि यङ्लुक् भवती॑ ,किमेतस्य ज्ञापने प्रयोजनं, बेभिदीति चेच्छिदीतीत्येतत्सिद्धं भवती॑त्युक्तम् । अत्र भिदिच्छिद्योरेव ग्रहणादुदाहृतोकारान्तादन्यत्र भवन् यङ्लुक् आभ्यामेव भवति, न त्वन्यत्रेत्याहुः । भिदिच्छिद्योग्र्रहणं प्रदर्शनमात्रमित्यन्ये । शृण्वन्तीति । शृणुथः । शृणुतेत्यपि ज्ञेयम् ।लोपश्चाऽस्यान्यतरस्यां म्वो॑रित्यभिप्रेत्याह — शृण्व इत्यादि.शुश्राव शुश्रुवतुः शुश्रुवुः । थलि वमयोश्च क्रादित्वान्नित्यमिण्निषेधः । तदाह — शुश्रोथ । शुश्रुवेति । शुश्रुवेति । शुश्रुमेत्यपि ज्ञेयम् । श्रोता । श्रोष्यति । शृणोतु — शृणुतात् शृणुताम् । शृण्वन्तु ।उतश्च प्रत्ययादसंयोगपूर्वा॑दिति हेर्लुकं मत्वा आह — शृण्विति । शृणुतात् शृणुतम् शृणुत । शृणवानीति । आटः पित्त्वेन ङित्त्वाऽभावाद्गुण इति भावः । ध्रु स्थैर्ये इति । अनिट् । ध्रवति । दुध्राव दुध्रुवतुः दुध्रुवुः । भारद्वाजनियमात्थल वेट् । दुध्रविथ — दुध्रोथ दुध्रुवथुः धुध्रुव । दुध्राव-दुध्रव दुध्रुविव दुध्रुविम । क्रादिनियमादिट् । ध्रोता । ध्रोष्यति । ध्रवतु । अध्रवत् । ध्रवेत् । ध्रूयात् । अध्रौषीत् । अध्रोष्यत् । दु द्रु गताविति । अनिटौ । दवति । द्रवति । दुदाव दुदुवतुः दुदुवुः । द#उद्राव दुद्रुवतुः दुद्रुवुः । अस्य भारद्वाजनियमात्थलि वेडित्याह — दुदोध दुदविथेति । दुदुवथुः दुदुव । दुदाव — दुदव । वमयोः क्रादिनियमादिडित्याह — दुदुविवेति । द्वितीयस्य क्रादित्वात्थलि नित्यं नेट् । तदाह — दुद्रोथेति । दुद्रुवथुः दुद्रुव । दुद्राव- दुद्रव । वमयोः क्रादित्वानेट् । तदाह — दुद्रुवेति । दोता । द्रोता । दोष्यति । द्रोष्यति । दवतु । द्रवतु । अदवत् । अद्रवत् । दवेत् । द्रवेत् । दूयात् । द्रूयात् । अदौषीत् । चङिति । द्रुधातोरिति भावः । न्यूनीकरणमिति । नीचीकरणमित्यर्थः । न्यूनीभवनमिति । क्षीणबलीभवनमित्यर्थः । शत्रूञ्जयतीति । नीचीकरोतीत्यर्थः । ननु जिधातोः परस्मैपदित्वात्पराजयत इतिकथमात्मनेपदमित्यत आह — विपराभ्यामिति । ननु पराजयस्य अध्ययनेन संश्लेषविश्लेषयोरभावात्कथं पराजयं प्रत्ध्ययनस्याऽपादानत्वमित्यत आह — पराजेरिति । जयति । लिटिसँल्लिटोर्जे॑रिति कुत्वम् । जिगाय जिग्यतुः । जिग्युः । भारद्वाजनियमात्थलि वेट् । जिगयिथ-जिगेथ जिग्यथुः । जिग्य । जिगाय-जिगय । वमयोः क्रादिनियमादिट् । जिग्यिव जिग्यिम । जेता । जेष्यति । जयतु । अजयत् । जयेत् । जीयात् । अजैषीत् । अजैष्टामजैषुः । अजैषीः अजैष्टमजैष्ट । अजैषमजैष्व अजैष्म । अजेष्यत् । इति धेडादयोऽजन्ताः परस्मैपदिनः । अथ डीङन्ता ङित इति । ‘डीङ् विहायसा गतौ’ इत्येतत्पर्यन्ता ङित्त्वादात्मनेपदिन इत्यर्थः ।ष्मिङ् ईषद्धसने॑ । षोपदेशोऽयम् । स्मयते इति ।धात्वादे॑रिति षश्य सः । सिष्मिये इति । कित्त्वाद्गुणाऽभावे इयङ् । आदेशसकारत्वादुत्तरखण्डे सस्य षः । सिष्मियातेसिष्मियिरे । क्रादिनियमादिट् । सिष्मियिषे । सिष्मियाथे । ‘विभाषेटः’ इति मत्वा आह — सिष्मियिढ्वे सिष्मियिध्वे इति । स्मेता । स्मेष्यते । स्मयताम् । अस्मयत । स्मयेत । स्मेषीष्ट । अस्मेष्ट । अस्मेष्यत । गुङ्धातुरनिट् । गुण ओकारः, अवादेश इति विशेषः । गाङ्धातुरनिट् । गाते इति । लटस्तादेशे शपि सवर्णदीर्घे टेरेत्त्वमिति भावः । आतामि तथैव रूपमाह — गाते इति । गा-अ-आतामिति स्थिते परत्वात्सवर्णदीर्घे अतः परस्य दीर्घाऽकारस्याऽभावात् ‘आतो ङितः’ इति इय् न भवति । झावपि तथैव रूपमाह — गाते इति । शपा सह आकारस्य सवर्णदीर्घे ‘आत्मनेपदेष्वनतः’ इतिझेरदादेशे टेरेत्वमिति भावः । गासे गाथे गाध्वे । लट उत्तमपुरुषैकवचने विशेषमाह — इट इति । गा अ इ इति स्थिते सवर्णदीर्घे सति इट एत्वे कृतेवृद्धिरेची॑ति वृद्धौ ‘गै’ इति रूपमित्यर्थः । गावहे गामहे । लिटि अजादौ आल्लोपः । जगे जगाते जगिरे । क्रादिनियमादिट् । जगिषे जगाथे जगिध्वे । जगे जगिवहे जगिमहे । गाता । गास्यते । गाताम् गाताम् । गाताम् । गास्व गाथाम् गाध्वम् । गै गावहै गामहै । अगात अगातामगात । अगाथाः आगाथामगाध्वम् । लङ इटीति । अ गा अ इ इति स्थिते टिदादेशत्वाऽभावादेत्त्वाऽभावे सवर्णदीर्घे आद्गुणे ‘अगे’ इति रूपमित्यर्थः । अगावहि अगामहि । गेतेति । लिङस्तादेशे शपि गा अ त इति स्थिते सवर्णदीर्घे सीयुटि सलोपे यलोपे आद्गुण इति भावः । गेयातामिति । गा अ आतामिति स्थिते सवर्णदीर्घे सीयुटि सलोपे आद्गुण इतिभावः । गेरन्निति । झस्य रन्भावे गा अ रन्निति स्थिते सवर्णदीर्घे सीयुटि सलोपे आद्गुण इतिभावः । गेथाः गेयाथाम् गेध्वम्, गेय गेवहि गेमहि । आशीर्लिङि आह — गासिष्टेति । गासीयास्तात् गासीरन् । गासीष्ठाः गासीयास्थाम् गासीध्वम् । गासीय गासीवहि गासीमहि । ननु गासीष्टेत्यादौगाङ्कुटादिभ्योऽञ्णिन्ङिदि॑ति ञ्णिद्भिन्नप्रत्ययस्य ङित्त्वविधानेन सीयुडागमविशिष्टप्रत्ययस्य ङित्त्वात्घुमास्थागापाजहातिसां हली॑ति हलादौ क्ङिति विहितमीत्त्वं स्यादित्यत आह — गाङ्कुटादिभ्य इति सूत्रे इति । ‘इङ’ इत्यनुवृत्तौगाङ्लिटी॑ति विहितस्य गाङादेशस्यैव गाङ्कुटादिसूत्रे ग्रहणं, न तवस्य गाधातोरित्यर्थः । एतच्च अगासातामगासत् । अगास्थाः अगासाथामगाध्वम् । अगासि अगास्वहि । अगास्महि । अगास्यत । आदादिकोऽयमिति । ततश्चअदिप्रभृतिभ्यः शपः॑ इति शपो लुगिति भावः । फले तु न भेद इति । शपो लुकि सति गाते इत्याद्येव रूपम्, तस्मिन्नसत्यपि गा अते इत्यादौ सवर्णदीर्घे सति तदेव रूपमिति न रूपभेद इत्यर्थः । कुङ् घुङ् उङ् ङुङ् शब्दे इति । चत्वारोऽपि ङितः । आद्यद्वितीचतुर्थाः कवर्गप्रथमचतुर्थपञ्चमाद्याः । तृतीयस्तु केवल उवर्णः । अन्ये त्विति । आद्यः केवलोवर्णो ङित् । इतरे तु पञ्च क्रमेण कवर्गाद्याः । तत्र कुङ्धातोरुदाहरति — कवते इति । लिटि अजादौ कित्त्वाद्गुणाऽभावे उवङ् । तदाह — चुकुवे इति । चुकुवाते चुकुविरे क्रादिनियमादिट् । चुकुविषे चुकुवाथे चुकुविध्वे । चुकुवे चुकुविवहे चुकुविमहे । कोता । कोष्यते । कवताम् । अकवत । कवेत । कोषीष्ट । अकोष्ट । अकोष्यत । एवं खवते इत्यादि । उङ्धातोराह — अवते इति । ऊवे इति । उ उ ए इति स्थिते द्वितीयस्य उवर्णसुवङि कृते सवर्णदीर्घे इति भावः । ननु उवङो बहिर्भूतप्रत्ययाऽपेक्षतया बहिरङ्गत्वादन्तरङ्गे सवर्णदीर्घे कृते ऊ ए इति स्थिते उवङि उवे इत्येवोचितमित्यत आह — वार्णादिति । ऊबाते ऊविरे ।क्रादनियमादिट्- ऊविषे ऊवाथे ऊविध्वे । ऊवे ऊविवहे ऊविमहे । रूपमुक्तम् । संप्रति लिटि रूपमाह — ञुङुवे इति ।कुहोश्चु॑रिति ङकारस्य स्थानिनश्चर्भवन् स्थानसाम्यस्य पञ्चस्वभावादाभ्यान्तरप्रत्यत्नसाम्यस्य पञ्चस्वप्यविशिष्टत्वादल्पप्राणामनुनासिक्यसाम्याञ्ञकारः । प्रथमतृतीयौ तु न भवतः, आनुनासिक्याऽभावात् । च्युङादयोऽप्युवर्णान्ता अनिटः कुङ्धातुवज्ज्ञेयाः । रुङ् गतीति । सेट्कोऽयम् ।ऊद्द्टदन्तैर्यौतिरुक्ष्णु॑ इत्यनिट्सु पर्युदासात् । तदाह — रवितासे इति । धृङ्धातुरनिट् । दध्रे इति । कित्त्वाद्गुणनिषेधे ऋकारस्य यण् । दध्राते दध्रिरे । क्रादिनियमादिट् । दध्रिषे दध्राथे दध्रिध्वे । दध्रे दध्रिवहे दध्रिमहे । धर्ता । लृटि स्येऋदनो॑रिति इटि — धरिष्यते । धरताम् ।अधरत । धरेत । आशीर्लिङि सीयुटिउश्चे॑ति कित्त्वान्न गुणः । धृषीष्ट ।ह्रस्वादङ्गा॑दिति सिचो लुक् । अधृत अधृषातामधृषत । अधरिष्यत । मेङ् प्रणिदाने णत्वमिति । प्रणिदानशब्दे, ‘प्रणिमयते’ इत्यत्र चनेर्गदे॑ति णत्वमित्यर्थः । ननु ‘प्रणिमयते’ इत्यत्र णत्वमिदं न संभवति, शिद्विषये आत्वाऽभावेन मारूपाऽभावात् । तथा प्रणिमानशब्देऽपि णत्वं न संभवति, ततर्मेङः कृतात्वस्य लाक्षणिकमारूपत्वात् ।गामादाग्रहणेष्वविशेषः॑ इत्याश्रित्य मेङोऽपि कृतात्वस्य णत्वविधौ ग्रहणे तु मीनातिमनोत्योरात्त्वे प्रनिमाता प्रनिमास्ति इत्यत्रापि नेर्णत्वापत्तिरित्यत आह — तत्रेति । तत्र =नेर्गदे॑ति णत्वविधौ ।घुमे॑त्यस्य स्थानेघुप्रकृतिमा॑ङिति पठित्वा तत्र प्रकृतशब्दस्य घुमाङप्रकृतिपरत्वमाश्रित्य घौ, माङ्धातौ, घुमाप्रकृतौ च परत इति पर्यवसानमाश्रित्य माप्रकृतेर्ङितो मेङ्धातोः कृतात्वस्यापि ग्रहणस्य भाष्यकृताऽभ्युपगतत्वादित्यर्थः । एवं च ‘प्रणिमयते’ इत्यत्र नाऽव्याप्तिः, मेङः कृतात्वमाप्रकृतित्वे सति ङित्त्वात् । नापि मीनातमिनोत्योरात्त्वे प्रनिमाता प्रनिमास्यतीत्यत्र अतिव्याप्तिः, मारूपस्य ङित्त्वाऽभावादिति भावः । एतच्च घुसंज्ञासूत्रे भाष्ये स्थितम् । ममे ममाते ममिरे । क्रादिनियमादिट् । ममिषे ममाथे ममिध्वे । ममे ममिवहे ममिमहे । माता । मास्यते । मयताम् । अमयत । मयेत । मासीष्ट । अमास्त । अमास्यत । देङ्धातुमेङ्वत् ।

Tattvabodhini

हुश्नुवोः सार्वधातुके - हुश्नुवोः । जुह्वति । सुन्वति । हुश्नुवोः किम् । योयुवति । नोनुवति । सार्वधातुके किम । जुहुवतुः । जुहुवुः । असंयोगपूर्वेति किम् । अक्ष्णुवन्ति । असंयोगपूर्वघणमोर्विशेषणं न श्नुप्रत्ययस्य । तेन आप्नुवन्तीत्यत्रापि यण्निषेधः सिध्यति । प्रत्ययविशेषणत्वे तु अक्ष्णुवन्तीत्यत्रैव निषेधः स्यादिति भावः । स्यादेतत् — यङ्लुकश्छान्दसत्वाद्योयुवतीत्यादौ प्रत्ययस्यछन्दस्युभयथे॑त्यनेनाद्र्धकत्वाश्रयणे यणादेशो न भवेदिति किमनेन हुश्नुग्रहणेन । न च युवन्ति नुवन्तीत्यत्रातिप्रसङ्गवारणार्थं तद्ग्रहणमिति वाच्यम्, अनेकाच॑ इत्यस्यानुवर्तनेनोक्तदोषाऽभावादिति चेत् । अत्राहुः — दाधर्तिदर्धर्तिदर्धर्षिबोभूतु॑ इति च्छन्दसि निपातनाद्भाषायां यङ्लुकि बोभवी#ईत्यादौभूसुवो॑रिति गुणनिषेधो न प्रवर्तते, अत एव भाषायामपि यङ्लुक् सिद्ध इति वक्ष्यमाणत्वात् — योयुवतीत्यादावतिप्रसङ्गवारणाय हुश्नुग्रहणं कर्तव्यमेवेति । हुश्नुग्रहणाज्ज्ञापकाद्भाषायामपि क्वचिद्यङ्लुग्भवतीति भाष्यकाराः । एवं च सार्वधातुकपरयोर्हुश्नुवोरनेकाच्त्वाऽवयभिचारादनेकाच इत्यस्यानुवृत्तिरिह किमर्थेत्याशङ्काया निरवकाश एव । तदनुवृत्त्यभावे हुश्नुग्रहणस्य ज्ञापकत्वाऽसंभवादिति दिक् । दुदविथेति । भारद्वाजनियमादिट् । दुद्रोथ । दुद्रुवेति । क्रादित्वा ल्लिटि नेट् । गाङ् गतौ । गाते गाते गाते इति । पूर्वं शपा सह सवर्णदीर्घे कृतेआतो ङितः॑ इति न प्रवर्तते,आत्मनेपदेष्वनतः॑ इति तु प्रवर्तते इति ताऽऽतांझेषु तुल्यं रूपमिति भावः । गै । गावहे । गामहे । जगे । जगाते । गाताम् गाताम् गाताम् । गास्व । उत्तमे तु — गै । गावहै । गामहै । अगात् । अगाताम् । न त्वस्येति ।गाते॑ इत्यादौ तङं प्रवर्त्त्य ङकारस्य चरितार्थत्वात् । आदेशङकारस्तु न चरितार्थः, स्थानिवद्भावेन ङित्त्वादेव तङः सिद्धत्वादिति भावः । आदादिकोऽयमिति । एवंच गाते गाथे इत्यादावातामाथामोः परतःआतो ङितः॑ इत्यस्य प्रवृत्तिशङ्कैव नास्तीति भावः । फलेतु न भेद इति । न च गाते गाथे इत्यादौ शपा सह सवर्णदीर्घे कृतेऽपि पूर्वस्मात्परस्य विधौ कर्तव्ये स्थानिवत्त्वादतः परत्वेन ङितामाकारस्य इय् स्यादिति शङ्क्यम्, पञ्चमीसमासपक्षस्याऽनित्यत्वाभ्युपगमादिति भावः । ञुङुवे इति ।कुङोश्चु॑रिति ङस्य ञः । च्युङिति । अस्मात्पचाद्यचि विक्लवः । वबयोरभेदाद्विक्लब इत्यन्ये । मेङ् । प्रणिमयत इति । ननुनेर्गदे॑ति कथमिह णत्वं स्यात्, शिद्विषये आत्वाऽभाव#एन मारूपाऽभावात्, अशिद्विषये कृतात्वेऽप्यस्मिन् णत्वं दुर्लभमेव, प्रतिपदोक्तस्यैव माधातोग्र्रहणौचित्यान्न त्वस्य लाक्षणिकस्य ।गामादाग्रहणेष्वविशेषः॑ इत्यभ्युपगमे तु मीनातिमिनोत्योरात्वे कृते प्रनिमाता प्रनिमास्यतीत्यादावतिप्रसङ्गः स्यादित्यत आह — तत्रेति । इष्टत्वादिति । अयं भावः — घुसंज्ञासूत्रे प्रणिदयते प्रणिधयतीत्यादौ णत्वसिद्धये भाष्यकारैरित्थं सिद्धान्तितम्,नेर्गदनदे॑ति णत्वविधौघुमे॑त्यस्य स्थानेघुप्रकृतिमाङि॑ति पठनीयम् । घुश्च प्रकृतिश्च माङ् चेति द्वन्द्वः । प्रकृतिश्च कस्येत्याकाङ्क्षायां संनिधानात्पूर्वोत्तरयोरेव । तेन न क्वाप्यव्याप्तिः । नापिमा माने॑ इत्यत्र, मीनातिमिनोत्योश्चाऽतिव्याप्तिः, माङिति ङकारानुबन्धकस्यैव पठितत्वादिति ।

Padamanjari

अनेकाचः, असंयोगपूर्वस्य, ओरिति चानुवर्तते । यद्यपि हुश्नुवोरुवर्णान्तत्वमब्यभिचारि, तथाप्यसंयोगपूर्वग्रहणमोविशेषणं यथा स्यात्, हुश्नुवोर्मा भूदित्येवमर्थमनुवर्त्यमोरित्येतत् । हुश्नुवोर्विशेषणे हि तक्ष्णुवन्तीत्यादावेव प्रतिषेधादाप्नुवन्तीत्यादौ न स्यात्, तत्र श्नुप्रत्ययान्तस्यसंयोगापूर्वस्योति व्यधिकरणे षष्ठयौ । स्नुप्रत्ययान्तस्याङ्गस्यावयोवोऽसंयोगपूर्वो य उकारस्तस्वत्यर्थः । अनेकाचः इति त्वङ्गेन समानाधिकरणेमेव, सार्वधातुकग्रहणं जुहोत्यर्थम्, न शन्वर्थमव्यभिचारात् । जुह्वतीति । अदभ्यस्तात् । जुह्वदिति । नाभ्यस्ताच्छतुः इति नुम्प्रतिषेधः । योयुवति, रोरुवतीति । यु रु - इत्येताभ्यां यङ्लुगन्ताभ्यां लटि पूर्वत् झेरद्भावः । इदमेवेत्यादि । एतच्च यङेऽचि च चित्यत्र च्छन्दोऽनुवृत्तिमाश्रित्योक्तम् । अयादित्यस्तु तत्र च्छन्दोऽनवृत्तिं नाशिश्रियत् । कथं पुनरेतज्ज्ञापकम् इत्याह - च्छन्दसि हीति । च्छन्दसि यङ्लुगन्तनिवृतथ हुश्नुगर्हणं न भवति ततः परस्य तिङ् आर्धधातुकत्वात् । यणादेशस्याप्रसङ्गादित्यर्थः । तथा चात्र वार्तिकम् - यङ्लुगर्थमिति चेदार्घघातुकत्वात्सिद्धम् इति । स्यादेतत् - यङ्लुगन्तादन्यव्द्यावर्त्य भविष्यति, अतो न ज्ञापकं हुश्नुगर्हणमिति अत आह - न चेति । असंयोगपूर्वमिति । असंयोगपूर्वोवर्णान्तमित्यर्थः । अत्र ओस्त्यिनुवृतेः - मिमते इत्यादौ न भविष्यति, अनेकाचः इत्यनुवृतेर्थुवन्तीत्यादौ । अयुवन्, थारुवन्नित्यत्राप्यटोऽसिद्धत्वादेकाच्त्वमेव । असंयोगपूर्वस्येत्यनुवृतेः प्रोर्णुवन्तील्यत्र न भविष्यति । तन्वन्तीत्यादौ च भवितिव्यमेव यणा । तस्माद्यङ्लुगन्तादन्यद् व्यावर्त्यं न सम्भवति । आह च - हुश्नुग्रहणमनर्थकमन्यस्याभावादिति ॥

Nyaas

यण् (6.4.81) इति, अनेकाचोऽसंयोगपूर्वस्य (6.4.82) , ओः (6.4.83) इति चानुवर्तेते। ननु च हुरित्येतत्? श्नुप्रत्ययान्तञ्चाङ्गमुकारान्ततां न व्यभिचरत्येव, तत्? किमर्थम्? `ओः इतीहानुवर्तते? असंयोगपूर्वग्रहणमुकारस्य विशेषणं यथा स्यादित्येवमर्थम्; अन्यथा हुश्नुवोरेवैतद्विशेषणं विज्ञायेत। ततश्च `तक्ष्णुवन्ति इत्यादावेव प्रतिषेधो विज्ञायेत। राध्नुवन्ति इत्यादौ तु यणादेशः स्यादेव। जुहोतेरपि - जुह्वति इत्यत्र संयोगपूर्वत्वाद्यणादेशो न स्यात्। ननु च धातुग्रहणमनुवर्तते, तत्रैवं विज्ञास्यते - धात्ववयवः संयोगः पूर्वः क्विबन्ता धातुत्वं न जहति (व्या।प।132) इति कृत्वा। अन्यथाप्यवयववचनं पूर्वशब्दमाश्रित्यैवं विज्ञायते - धात्ववयवः संयोगो यस्य पूर्वो न भवतीति? एवमपि राध्नुवन्तीत्यत्र यणादेशः स्यात्, न ह्यत्र श्नुप्रत्ययस्य धात्ववयवः संयोगपूर्वः। तस्मात्? इत्येतदनुवर्तनीयम्, तद्विशेषणे हुश्नुवौ। तत्रासंयोगपूर्वग्रहणं श्नुप्रत्ययस्याववस्योकारस्य विशेषणं वेदितव्यम्, जुहोत्यवयवस्य; तस्याव्यभिचारात्। श्नुप्रत्ययान्तस्यासंयोगपूर्वस्य इति। व्यधिकरणे षष्ठ्यौ। श्नुप्रत्ययान्तस्याङ्गस्य योऽवयवोऽसंयोगपूर्व उकारः, तस्येत्यर्थः। अनेकाचः इत्येतज्जुहोतेः श्नुप्रत्ययान्तस्य समान्धिकरणं विशेषणं वेदितव्यम्। सार्वधातुके इति जुहोत्यर्थम्, न श्नुप्रत्ययान्तार्थम्; अव्यभिचारात्। जुह्वति इति। अदभ्यस्तात् (7.1.4) इत्यदादेशः। योयुवति, रोरुवति इति। यु रु इत्येताभ्यां यङ, तस्य यङोऽचि च (2.4.74) इति लुक्, गुणो यङ्लुकोः (7.4.82) इत्यभ्यासस्य गुणः, पूर्ववज्झेरवादेशः। इदमेव इत्यादि। कथं पुनरिदं ज्ञापकम्? इत्याह - छन्दसि` इत्यादि। यदि च्छन्दस्येव यङ्लुक्? स्यात्, तदा चन्दस्युभयथा (6.4.86) इत्यार्धधातुकत्वादेव योयुवति, रोरुवतीत्यत्र न भविष्यतीत्यनर्थकमेव हुश्नुग्रहणं स्यात्। यदा तु भाषायामपि यङ्लुगस्ति, तदार्धधातुकत्वाभावादसति हुश्नुग्रहणे योयुवतीत्यदौ प्राप्नोतीति तन्निवृत्त्यर्थमुपपद्यते हुश्नुग्रहणम्। तस्मादेतदेव ज्ञापयति - भाषायमपि यङ्लुङस्तीति। तेन बेभिदीति, चेच्छिदीतीत्यादि भाषायामप्युपपन्नं भवति। स्यादेतत् - यङ्लुगान्तादन्यत्? यदुवर्णान्तमनेकाच्? संयोगपूर्वं तन्निवृत्त्यर्थमेतद्भविष्यतीति? नेदं ज्ञापकमित्यत आह - न च इत्यादि। ननु चेदं विद्यते - युवन्? अरुवन्निति? नैतदस्ति; यद्यप्येतदसंयोगपूर्वम्, अनेकाज्न भवति; अटोऽसिद्धत्वात्॥

Prakriyasarvasvam

हुश्नुवोरनेकाचोरसंयोगपूर्वस्योवर्णस्याजादौ सार्वधातुके परे यण् स्यात् । सुन्वन् यजमानः । यज्ञसंयोगाभावे सुनोत्यौषधमित्येव । संयोगोक्तेर्ऋत्विक्त्वेऽपि न । अध्वर्युः सुनोति ॥

Sutra Prayogas

  • दुन्वन्तम-त्रपम् (भट्टिकाव्यम्): हु-क्षुवोः सार्वधातुके इति यणादेशे रूपम्।