64086: छन्दस्युभयथा

Padacheda: छन्दसि | S | 7 | 1 |

उभयथा | S | 0 | 0 |

Sutrartha

वेदेषु - भूशब्दस्य तथा सुधी-शब्दस्य अजादि-सुप्-प्रत्यये परे यणादेशः कृतः अपि दृश्यते, न कृतः अपि दृश्यते ।

भूशब्दस्य तथा सुधीशब्दस्य अजादि सुप्-प्रत्यये परे ओः सुपि (6.4.83) इत्यनेन प्राप्तः यणादेशः न भूसुधियोः (6.4.85) इत्यनेन निषिध्यते । परन्तु वेदेषु एतयोः शब्दयोः यणादेशं कृत्वा / यणादेशं विना - उभयथा रूपाणि दृश्यन्ते । यथा 1. ‘चित्रं विभ्वं विशेविशे’ - ऋग्वेदः (4.7.1) - अत्र ‘विभू’ शब्दस्य द्वितीयैकवचनस्य रूपम् कर्तुम् यणादेशः कृतः दृश्यते । 2. ‘चित्रं विभुवं विशेविशे’ - तैत्तिरीयसंहिता (1.5.5) - अत्र ‘विभू’ शब्दस्य द्वितीयैकवचनस्य रूपम् कर्तुम् यणादेशं निषिध्य उवङ्-आदेशः कृतः दृश्यते । 3. ‘यदी वाजाय सुध्यो वहन्ति’ - ऋग्वेदः (4.21.8) - अत्र ‘सुधी’ शब्दस्य प्रथमाबहुवचनस्य रूपम् कर्तुम् यणादेशः कृतः दृश्यते ।

Sutrartha (English)

In वेदाः, the words भू and सुधी might or might not undergo a यणादेश when followed by an अजादि सुप् प्रत्यय.

Vasu English Summary

In the छन्दस् (Vedas), in the case of a अङ्ग (stem) in भू or the word सुधी , are found sometimes the इवङ् and उवङ् and sometimes the semi-vowel substitution.

Vasu English Translation

In the छन्दस् (Vedas), in the case of a अङ्ग (stem) in भू or the word सुधी , are found sometimes the इवङ् and उवङ् and sometimes the semi-vowel substitution. As विभ्वम्, विभुवम्, सुध्यः and सुधियः; वनेषु चित्रं विभ्वं विशे, विशे विभुवम्, सुध्यो हव्यमग्ने, सुधियो हव्यमग्ने ॥

Kashika

छन्दसि विषये भू सुधी इत्येतयोरुभयथा दृश्यते। वने॑षु चि॒त्रं वि॒भ्वं॑ वि॒शे (ऋ० ४.७.१)। वि॒भुवं॑ वि॒शे (तै०सं० १.५.५.१)। सु॒ध्यो॒३॒॑नव्य॑मग्ने (ऋ० ६.१.७)। सु॒धियो॒ नव्य॑मग्ने (तै० ब्रा० ३.६.१०.३)॥

Siddhanta Kaumudi

भूसुधियोर्यण् स्यादियङुवङौ च । वनेषु चित्रं विभ्य (वने(स्ल)षु चि॒त्रं वि॒भ्य॑) । विभुवं वा । सुध्यो3 नव्य मग्ने (सु॒ध्यो॒3॒॑ नव्य॑ मग्ने) । सुधियो वा ।<!तन्वादीनां छन्दसि बहुलम् !> (वार्तिकम्) ॥ तन्वं पुषेम (त॒न्वं॑ पुषेम) । तनुवं वा । त्र्य॑म्बकम् (त्र्य॑म्बकम्) । त्रियम्बकम् ॥

Prakriyasarvasvam

भूसुधियोर्यण् चेयङुवङौ चेत्युभयथा स्यात् ॥ वनेषु चित्रं विभ्वम् सुध्यो हव्यमग्ने । विभुवं सुधिय्रमिंति चान्यत्र ।