64063: दीङो युडचि क्ङिति¶
Padacheda: दीङः | S | 5 | 1 |
युट् | S | 1 | 1 |
अचि | S | 7 | 1 |
क्ङिति | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
युट् is the augment of दीङ् of an आर्धधातुक affix beginning with a vowel and having an indicatory क् or ङ्।
Vasu English Translation¶
युट् is the augment of दीङ् of an आर्धधातुक affix beginning with a vowel and having an indicatory क् or ङ्। Thus उपदिदीये, उपदिदीयाते and उपदिदीयिरे ॥ The Personal ending is कित् by (1.2.5). दीङः being in the Ablative case, the augment is applied to the affix. This augment, however, is not to be considered as asiddha (6.4.22) for the purposes of semi-vowel substitution under (6.4.82). If that substitution were allowed, the augment would become useless. Why before an affix having क् or ङ् ? Observe उपदानम् ॥
Kashika¶
दीङो युडागमो भवत्यजादौ क्ङिति प्रत्यये परतः। उपदिदीये, उपदिदीयाते, उपदिदीयिरे। दीङ इति पञ्चमीनिर्देशादजादेर्युडागमो भवति। विधानसामर्थ्यात् च एरनेकाचः० (६.४.८२) इति यणादेशे कर्तव्ये तस्यासिद्धत्वं न भवति। अचीति किम्? उपदेदीयते। क्ङितीति किम्? उपदानम्॥
Siddhanta Kaumudi¶
दीङः परस्याजादेः क्ङित आर्धधातुकस्य युट् स्यात् ।<!वुग्युटावुवङ्यणोः सिद्धौ वक्तव्यौ !> (वार्तिकम्) ॥ दिदीये ॥
Laghu Siddhanta Kaumudi¶
दीङः परस्याजादेः क्ङित आर्धधातुकस्य युट्। वुग्युटावुवङ्यणोः सिद्धौ वक्तव्यौ (वार्त्तिकम्)। दिदीये॥
Balamanorama¶
दीङो युडचि क्ङिति - दीङो युडचि । ‘आर्धधातुके’ इत्यधिकृतमचा विशेष्यते । तदादिविधिः । ‘दीङ’ इति पञ्चमी । सप्तमी षष्ठर्थे ।तदाह — दीङः परस्येत्यादिना । दिदी ए इति स्थिते परत्वात् ‘एरनेकाचः’ इति यणि प्राप्ते नित्यत्वाद्युट् । टकार इत् । उकार उच्चारणार्थः । टित्त्वादाद्यवयवः । दिदीये इति रूपमिति भावः । ननु युटि कृतेऽपि तस्याऽसिद्धत्वाद्यण्दुर्वारः । तथाच दिद्य्ये इति स्यात् । इकारो न श्रूयेत, यकारद्वयं श्रूयेतेत्यत आह -वुग्युटाविति ।
Tattvabodhini¶
दीङो युडचि क्ङिति - दीङो । पञ्चमीत्यभिप्रायेण व्याचष्टे — परस्येति । अजादेरिति ।डऋ सी॑त्यत्रेवउभयनिर्देशे पञ्चमीनिर्देशो बलीया॑निति सप्तम्याः षष्ठीकल्पनम् । अचि किम् । देदीयते । क्ङितीति किम् । उपादानम् । आभीयत्वेनाऽसिद्धत्वमाशङ्क्याह — वुग्युटाविति ।*वुग्युटावुवडणोः सिद्धौ वक्तव्यौ । दिदीये इति । परमपि यणं बाधित्वा नित्यत्वादादौ युट् । सति तु यणि ईकारस्य श्रवणं न स्यादिति युटः सिद्धत्वमुक्तम् ।
Padamanjari¶
दीङ् इति पञ्चमीनिर्देशादिति । षष्ठ।लं त्वास्यां दीङ् एवादितो युट् स्यात्, पञ्चम्यां तूभयनिर्देशे पञ्चमीनिर्देशो बलीयानिति अचीति सप्यम्याः षष्ठ।लं प्रकल्पितायामजादेर्युड् भवति । सप्तमीनिर्देशस्तूतरार्थः, तदादिविध्यर्थश्च । विधानसामर्थ्याच्चेति । यदि युटोऽसिद्धत्वेन यणादेशः स्यात्, युड्विधानमनर्थकं स्यात् उपदिय्य इति रुपे विशेषाभावात् । न च यकारद्वयश्रवणाद्विशेषः, हलो यमां यमि लोपः, थैति पक्षे यलोपविधानात् । न च पक्षे श्रुतिभदः, यणो मयो द्वे इति द्विर्वचनविधानादेव सिद्धत्वात् । श्रुतिभेदोऽपि व्यञ्जनात्परस्यैकस्यानेकस्य वा यकारस्य कीदृश इति चिन्त्यम् । उपदानमिति । मीनातिमिनोतिदीङं ल्यपि च त्यात्विम्, दीङ्ः इत्यनुबन्धनिर्द्देशो यङ्लुकि मा भूदिति ॥
Nyaas¶
उपदिदीये इति। दीङ क्षये (धातुपाठः-1134), असंयोगाल्लिट्? कित् (1.2.5) इति कित्त्वम्, लिटस्तझयोरेशिरेचौ। दीङः इति षष्टीयं वा स्यात्, पञ्चमी वेति द्वौ पक्षौ। तत्र यद्याद्यः पक्ष आश्रीयेत, तदा आद्यन्तौ टकितौ (1.1.46) इत्यादौ युटि कृते धातोरनिष्टं रूपमापद्यते; अत इदं षष्ठीपक्षे दूषणमालक्ष्य पञ्चमीपक्षं पुरस्कृत्याह -दीङ इति पञ्चमीनिर्देशात् इत्यादि। पञ्चमीनिर्देशे हि सति उभयनिर्देश पञ्चमनिर्देशो बलीयान् (शाक।प।97) इति दीङः इति पञ्चम्याः अचि इति सम्पम्याः षष्ठीत्वे प्रकल्पते तस्मादित्युत्तरस्य (1.1.67) इत्यजादेरादिर्युडागमो भवति। अचि इति सप्तमीनिर्देशस्तूत्तरार्थः। ननु चात्र एरनेकाचः (6.4.82) इति यणादेशे कर्तव्ये युडसिद्ध इति यणादेशेन भवितव्यम्, ततश्चोपदिदीय इति न सिद्ध्येत्, उपदिद्ये इत्यनिष्टं रूपं प्राप्नोति, अत आह -विधानसामर्थ्यात् इत्यादि। यदि यणादेशे कर्तव्ये युटोऽसिद्धत्वं स्यात्, तदा युटो विधानमनर्थकं स्यात्; विशेषाभावात्। कथं पुनर्विशेषाभावः, यावताऽसति हि युटएकस्य यकारस्य श्रवणं भवति, सति तु द्वयोः? नैषोऽस्ति विशेषः; न हि व्यञ्जनपरस्यैकस्यानेकस्य वा हलः श्रवणं प्रति विशेषोऽस्ति। ये तु विशेषमिच्छन्ति, तन्मतेनास्माभिः पूर्वमेव यणादेशे युटः सिद्धत्वमन्यथा प्रतिपादितम्। उपदेदीयते इति। दीङ क्षये (धातुपाठः-1134), असंयोगाल्लिट्? कित् (1.2.5) इति कित्त्वम्, लिटस्तझयोरेशिरेचो।दीङः इति षष्टीयं वा स्यात्, पञ्चमी वेति द्वौ पक्षौ। तत्र यद्याद्यः पक्ष आश्रीयेत, तदा आद्यन्तौ टकितौ (1.1.46) इत्यादौ युटि कृते धातोरनिष्टं रूपमापद्येत; अत इदं षष्ठीपक्षे दूषणमालक्ष्य पञ्चमीपक्षं पुरस्कृत्याह -दीङ इति पञ्चमीनिर्देशात् इत्यादि। पञ्चमीनिर्देशे हि सति उभयनिर्देश पञ्चमीनिर्देशो बलीयान् (शाक।प।97) इति दीङः इति पञ्चम्याः अचि इति सप्तम्याः षष्ठीत्वे प्रकल्पिते तस्मादित्युत्तरस्य (1.1.67) इत्यजादेरादिर्युडागमो भवति। अचि इति। सप्तमीनिर्देशस्तूत्तरार्थः। ननु चात्र एरनेकाचः (6.4.82) इति यणादेशे कर्तव्ये युडसिद्ध इति यणादेशेन भवितव्यम्, ततश्चोपदिदीय इति न सिद्ध्येत्, उपदिद्ये इत्यनिष्टं रूपं प्राप्नोति। अत आह -विधानसामर्थ्यात् इत्यादि। यदि यणादेशे कर्तव्ये पुटोऽसिद्धत्वं स्यात्, तदा युटो विधानमनर्थकं स्यात्; विशेषाभावात्। कथं पुनर्विशेषाभावः, यावताऽसति हि युटएकस्य यकारस्य श्रवणं भवति, सति तु द्वयोः? नैषोऽस्ति विशेषः; न हि व्यञ्जनपरस्यैकस्यानेकस्य का हला श्रवणं प्रति विशेषोऽस्ति। ये तु विशेषमिच्छन्ति, तन्मतेनास्माभिः पूर्वमेव यणादेशे युटः सिद्धत्वमन्यथा प्रतिपादितम्। उपदेदीयते इति। यङः। उपदानम् इति। ल्युट्, मीनातिमिनोतिदीङां ल्यपि च (6.1.50) इत्यात्त्वम्। दीङ इत्यनुबन्धनिर्देशो यङलुकि मा भूदित्येवमर्थः -देद्यतु, देद्युरिति। ननु चात्र कास्प्रत्ययादाममन्त्रे (3.1.35) इत्यामा भवितव्यम्, तेनाक्ङित्वादेव न भविष्यति? सत्यमेतत्; अमन्त्रे न भविष्यति, मन्त्रे तु स्यादेव; तत्रामोऽभावात्। अथ यङ्लुगन्तस्य मन्त्रे प्रयोगो न दृश्यते, तदा विस्पष्टार्थम्॥
Prakriyasarvasvam¶
दीङः परस्याजादेः क्ङित आर्धधातुकस्य युट् स्यात् । दिदीये । दिदीयाते । दिदीयिषे । ‘विभाषेटः’ इति ढत्वविकल्पोऽत्र नेति केचित् । अस्तीत्यन्ये । दिदीयिढ्वे, दिदीयिध्वे । दिदीये । दिदीयिवहे । आशीरादौ दासीष्ट । दाता । दास्यते । दीङ् आत्वे स्थाध्वोरित्त्वं विनान्यत् घुकार्यं स्यादिति केचित् । तेन ‘नेर्गद–’ इति णः । प्रणिदास्यते । मतान्तरे प्रनिदास्यते । पद गतौ । पद्यते । लुङि,