64063: दीङो युडचि क्ङिति ======================== **Padacheda:** दीङः | S | 5 | 1 | युट् | S | 1 | 1 | अचि | S | 7 | 1 | क्ङिति | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- युट् is the augment of दीङ् of an आर्धधातुक affix beginning with a vowel and having an indicatory क् or ङ्। Vasu English Translation ------------------------ युट् is the augment of दीङ् of an आर्धधातुक affix beginning with a vowel and having an indicatory क् or ङ्। Thus उपदिदीये, उपदिदीयाते and उपदिदीयिरे ॥ The Personal ending is कित् by (1.2.5). दीङः being in the Ablative case, the augment is applied to the affix. This augment, however, is not to be considered as *asiddha* (6.4.22) for the purposes of semi-vowel substitution under (6.4.82). If that substitution were allowed, the augment would become useless. Why before an affix having क् or ङ् ? Observe उपदानम् ॥ Kashika ------- दीङो युडागमो भवत्यजादौ क्ङिति प्रत्यये परतः। उपदिदीये, उपदिदीयाते, उपदिदीयिरे। दीङ इति पञ्चमीनिर्देशादजादेर्युडागमो भवति। विधानसामर्थ्यात् च **एरनेकाचः०** (६.४.८२) इति यणादेशे कर्तव्ये तस्यासिद्धत्वं न भवति। अचीति किम्? उपदेदीयते। क्ङितीति किम्? उपदानम्॥ Siddhanta Kaumudi ----------------- दीङः परस्याजादेः क्ङित आर्धधातुकस्य युट् स्यात् । (वार्तिकम्) ॥ दिदीये ॥ Laghu Siddhanta Kaumudi ----------------------- दीङः परस्याजादेः क्ङित आर्धधातुकस्य युट्। **वुग्युटावुवङ्यणोः सिद्धौ वक्तव्यौ** (वार्त्तिकम्)। दिदीये॥ Balamanorama ------------ **दीङो युडचि क्ङिति** - दीङो युडचि । 'आर्धधातुके' इत्यधिकृतमचा विशेष्यते । तदादिविधिः । 'दीङ' इति पञ्चमी । सप्तमी षष्ठर्थे ।तदाह — दीङः परस्येत्यादिना । दिदी ए इति स्थिते परत्वात् 'एरनेकाचः' इति यणि प्राप्ते नित्यत्वाद्युट् । टकार इत् । उकार उच्चारणार्थः । टित्त्वादाद्यवयवः । दिदीये इति रूपमिति भावः । ननु युटि कृतेऽपि तस्याऽसिद्धत्वाद्यण्दुर्वारः । तथाच दिद्य्ये इति स्यात् । इकारो न श्रूयेत, यकारद्वयं श्रूयेतेत्यत आह -वुग्युटाविति । Tattvabodhini ------------- **दीङो युडचि क्ङिति** - दीङो । पञ्चमीत्यभिप्रायेण व्याचष्टे — परस्येति । अजादेरिति ।डऋ सी॑त्यत्रेवउभयनिर्देशे पञ्चमीनिर्देशो बलीया॑निति सप्तम्याः षष्ठीकल्पनम् । अचि किम् । देदीयते । क्ङितीति किम् । उपादानम् । आभीयत्वेनाऽसिद्धत्वमाशङ्क्याह — वुग्युटाविति ।*वुग्युटावुवडणोः सिद्धौ वक्तव्यौ । दिदीये इति । परमपि यणं बाधित्वा नित्यत्वादादौ युट् । सति तु यणि ईकारस्य श्रवणं न स्यादिति युटः सिद्धत्वमुक्तम् । Padamanjari ----------- दीङ् इति पञ्चमीनिर्देशादिति । षष्ठ।लं त्वास्यां दीङ् एवादितो युट् स्यात्, पञ्चम्यां तूभयनिर्देशे पञ्चमीनिर्देशो बलीयानिति अचीति सप्यम्याः षष्ठ।लं प्रकल्पितायामजादेर्युड् भवति । सप्तमीनिर्देशस्तूतरार्थः, तदादिविध्यर्थश्च । विधानसामर्थ्याच्चेति । यदि युटोऽसिद्धत्वेन यणादेशः स्यात्, युड्विधानमनर्थकं स्यात् उपदिय्य इति रुपे विशेषाभावात् । न च यकारद्वयश्रवणाद्विशेषः, हलो यमां यमि लोपः, थैति पक्षे यलोपविधानात् । न च पक्षे श्रुतिभदः, यणो मयो द्वे इति द्विर्वचनविधानादेव सिद्धत्वात् । श्रुतिभेदोऽपि व्यञ्जनात्परस्यैकस्यानेकस्य वा यकारस्य कीदृश इति चिन्त्यम् । उपदानमिति । मीनातिमिनोतिदीङं ल्यपि च त्यात्विम्, दीङ्ः इत्यनुबन्धनिर्द्देशो यङ्लुकि मा भूदिति ॥ Nyaas ----- `उपदिदीये` इति। `दीङ क्षये` (धातुपाठः-1134), `असंयोगाल्लिट्? कित्` (1.2.5) इति कित्त्वम्, लिटस्तझयोरेशिरेचौ। `दीङः` इति षष्टीयं वा स्यात्, पञ्चमी वेति द्वौ पक्षौ। तत्र यद्याद्यः पक्ष आश्रीयेत, तदा **आद्यन्तौ टकितौ** (1.1.46) इत्यादौ युटि कृते धातोरनिष्टं रूपमापद्यते; अत इदं षष्ठीपक्षे दूषणमालक्ष्य पञ्चमीपक्षं पुरस्कृत्याह -`दीङ इति पञ्चमीनिर्देशात्` इत्यादि। पञ्चमीनिर्देशे हि सति `उभयनिर्देश पञ्चमनिर्देशो बलीयान्` (शाक।प।97) इति `दीङः` इति पञ्चम्याः `अचि` इति सम्पम्याः षष्ठीत्वे प्रकल्पते **तस्मादित्युत्तरस्य** (1.1.67) इत्यजादेरादिर्युडागमो भवति। `अचि` इति सप्तमीनिर्देशस्तूत्तरार्थः। ननु चात्र `एरनेकाचः` (6.4.82) इति यणादेशे कर्तव्ये युडसिद्ध इति यणादेशेन भवितव्यम्, ततश्चोपदिदीय इति न सिद्ध्येत्, `उपदिद्ये` इत्यनिष्टं रूपं प्राप्नोति, अत आह -`विधानसामर्थ्यात्` इत्यादि। यदि यणादेशे कर्तव्ये युटोऽसिद्धत्वं स्यात्, तदा युटो विधानमनर्थकं स्यात्; विशेषाभावात्। कथं पुनर्विशेषाभावः, यावताऽसति हि युटएकस्य यकारस्य श्रवणं भवति, सति तु द्वयोः? नैषोऽस्ति विशेषः; न हि व्यञ्जनपरस्यैकस्यानेकस्य वा हलः श्रवणं प्रति विशेषोऽस्ति। ये तु विशेषमिच्छन्ति, तन्मतेनास्माभिः पूर्वमेव यणादेशे युटः सिद्धत्वमन्यथा प्रतिपादितम्। `उपदेदीयते` इति। `दीङ क्षये` (धातुपाठः-1134), `असंयोगाल्लिट्? कित्` (1.2.5) इति कित्त्वम्, लिटस्तझयोरेशिरेचो।`दीङः` इति षष्टीयं वा स्यात्, पञ्चमी वेति द्वौ पक्षौ। तत्र यद्याद्यः पक्ष आश्रीयेत, तदा **आद्यन्तौ टकितौ** (1.1.46) इत्यादौ युटि कृते धातोरनिष्टं रूपमापद्येत; अत इदं षष्ठीपक्षे दूषणमालक्ष्य पञ्चमीपक्षं पुरस्कृत्याह -`दीङ इति पञ्चमीनिर्देशात्` इत्यादि। पञ्चमीनिर्देशे हि सति `उभयनिर्देश पञ्चमीनिर्देशो बलीयान्` (शाक।प।97) इति `दीङः` इति पञ्चम्याः `अचि` इति सप्तम्याः षष्ठीत्वे प्रकल्पिते **तस्मादित्युत्तरस्य** (1.1.67) इत्यजादेरादिर्युडागमो भवति। `अचि` इति। सप्तमीनिर्देशस्तूत्तरार्थः। ननु चात्र `एरनेकाचः` (6.4.82) इति यणादेशे कर्तव्ये युडसिद्ध इति यणादेशेन भवितव्यम्, ततश्चोपदिदीय इति न सिद्ध्येत्, `उपदिद्ये` इत्यनिष्टं रूपं प्राप्नोति। अत आह -`विधानसामर्थ्यात्` इत्यादि। यदि यणादेशे कर्तव्ये पुटोऽसिद्धत्वं स्यात्, तदा युटो विधानमनर्थकं स्यात्; विशेषाभावात्। कथं पुनर्विशेषाभावः, यावताऽसति हि युटएकस्य यकारस्य श्रवणं भवति, सति तु द्वयोः? नैषोऽस्ति विशेषः; न हि व्यञ्जनपरस्यैकस्यानेकस्य का हला श्रवणं प्रति विशेषोऽस्ति। ये तु विशेषमिच्छन्ति, तन्मतेनास्माभिः पूर्वमेव यणादेशे युटः सिद्धत्वमन्यथा प्रतिपादितम्। `उपदेदीयते` इति। यङः। `उपदानम्` इति। ल्युट्, **मीनातिमिनोतिदीङां ल्यपि च** (6.1.50) इत्यात्त्वम्। `दीङ` इत्यनुबन्धनिर्देशो यङलुकि मा भूदित्येवमर्थः -देद्यतु, देद्युरिति। ननु चात्र `कास्प्रत्ययादाममन्त्रे` (3.1.35) इत्यामा भवितव्यम्, तेनाक्ङित्वादेव न भविष्यति? सत्यमेतत्; अमन्त्रे न भविष्यति, मन्त्रे तु स्यादेव; तत्रामोऽभावात्। अथ यङ्लुगन्तस्य मन्त्रे प्रयोगो न दृश्यते, तदा विस्पष्टार्थम्॥ Prakriyasarvasvam ----------------- दीङः परस्याजादेः क्ङित आर्धधातुकस्य युट् स्यात् । दिदीये । दिदीयाते । दिदीयिषे । 'विभाषेटः' इति ढत्वविकल्पोऽत्र नेति केचित् । अस्तीत्यन्ये । दिदीयिढ्वे, दिदीयिध्वे । दिदीये । दिदीयिवहे । आशीरादौ दासीष्ट । दाता । दास्यते । दीङ् आत्वे स्थाध्वोरित्त्वं विनान्यत् घुकार्यं स्यादिति केचित् । तेन 'नेर्गद–' इति णः । प्रणिदास्यते । मतान्तरे प्रनिदास्यते । पद गतौ । पद्यते । लुङि,