64020: ज्वरत्वरस्रिव्यविमवामुपधायाश्च¶
Padacheda: ज्वर-त्वर-स्रिवि-अवि-मवाम् | S | 6 | 3 |
उपधायाः | S | 6 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
In 1. ज्वर 2. त्वर् 3. श्रिव् 4. अव and 5. मव् before the above mentioned affixes (क्वि and झलादि ङित् and कित् affixes – अनुनासिकस्य क्विझलोः क्ङिति (6.4.15)) there is the single substitution of ऊठ् for the and the vowel preceding the final consonant.
Vasu English Translation¶
In 1. ज्वर 2. त्वर् 3. श्रिव् 4. अव and 5. मव् before the above mentioned affixes (क्वि and झलादि ङित् and कित् affixes – अनुनासिकस्य क्विझलोः क्ङिति (6.4.15)) there is the single substitution of ऊठ् for the and the vowel preceding the final consonant. Thus जूः, जूरौ, जूरः, जूर्त्तिः ॥ त्वरः — तूः, तूरौ, तूरः, तूर्त्तिः ॥ श्विविः — श्रूः, श्रुवौ, श्रुवः, श्रूतः, श्रूतवान्, श्रूतिः ॥ अव् :- ऊः, उवौ, उवः, ऊतिः ॥ मवः — मूः, मुवौ, मुवः, मूतः, मूतवान्, मूतिः ॥ ज्वरत्वरोरुपधा वकारात् परा, श्रिव्य वमवां पूर्वा ॥
In ज्वर् and त्वर् the ऊ replaces व् as well as the अ which follows व्; and in श्रिव्, अव् and मव् it replaces the व् and the vowel इ and अ which precede व् ॥ Another reading is स्रिव् ॥
Kashika¶
ज्वर त्वर स्रिवि अव मव इत्येतेषामङ्गानां वकारस्य उपधायाश्च स्थान ऊडित्ययमादेशो भवति क्वौ परतोऽनुनासिके झलादौ च क्ङिति। जूः, जूरौ, जूरः। जूर्तिः। त्वर — तूः, तूरौ, तूरः। तूर्तिः। स्रिवि — स्रूः, स्रुवौ, स्रुवः। स्रूतः। स्रूतवान्। स्रूतिः। अव — ऊः, उवौ, उवः। ऊतिः। मव — मूः, मुवौ, मुवः। मूतिः। ज्वरत्वरोरुपधा वकारात् परा, स्रिव्यवमवां पूर्वा॥
Siddhanta Kaumudi¶
ज्वरादीनामुपधावकारयोरूठ् स्यात् क्वौ झलादावनुनासिकादौ च प्रत्यये । अत्र क्ङितीति नानुवर्तते । अवतेस्तुनि कृते ओतुरिति दर्शनात् । अनुनासिकग्रहणं चानुवर्तेते । अवतेर्मन्प्रत्यये तस्य टिलोपे ओमिति दर्शनात् । ईडभावे ऊठि पिति गुणः । मामोति । मामवीति । मामूतः । मामवति । मामोषि । मामोमि । मामावः । मामूमः । मामूहि । मामवानि । अमामोत् । अमामोः । अमामवम् । अमामाव । अमामूम । तुर्वी हिंसायाम् । तोतूर्वीति ॥
Laghu Siddhanta Kaumudi¶
एषामुपधावकारयोरूठ् अनुनासिके क्वौ झलादौ क्ङिति॥ अतः क्विप्। जूः। तूः। स्रूः। ऊः। मूः॥
Tattvabodhini¶
ज्वरत्वरश्रिव्यविमवामुपधायाश्च - ज्वर रोगे । ञित्वरा संभ्रमे । अत्र वृत्तौझलादौ क्ङिती॑त्युक्तं तत्र क्ङितीत्येतद्रभयसकृतमेवेत्याह — क्ङितीति नानुवर्तत इति । अवतेस्तुनीति ।ज्वरत्वरे॑त्युपधावकारयोरूठि गुणे च कृते मन्प्रत्ययस्य टिलोपे चोमिति सिध्यतीत्यर्थः । ज्वरादेरुदाहरणं क्विपि जूः । जुरौ । जुरः । झलादौ तु — जूर्तिः । जूर्णः । जूर्णवान् । त्वर — तूः । तुरौ । तुरः । तूर्तिः । तूर्णः । तूर्णवान् । रिउआवि- स्रूः । रुआउवौ । रुआउवः । रुआऊतिः । अवि — ऊः । उवौ । उवः ।ऊतिः । मव — मूः । मुवौ । मूतः । मूतिः । मामोषीत्यादि । ईट्पक्षे मामवीषि । मामवीमि । मामवीतु । अमामवीत् । अमामवीरिति बोध्यम् । राल्लोपः ।च्छ्वोः शू॑डित्तश्च्छ्वोरित्यनुवर्तते । क्वावुदाहरणं — तूः । तुरौ तुरः । धुर्वी — धूः । धुरौ । धुरः । मुच्र्छा — मूः । मुरौ । मुरः ।
Padamanjari¶
ज्वर रोगे, ञित्वरा सम्भ्रमे, स्त्रिवु गतिशोषणयोः, अव रक्षणे, मव बन्धने । ज्वरत्वरेत्यादि । वस्तुकथनम् ॥
Nyaas¶
रिउआव्यविमवां वकारसय पूर्णेणैव सिद्धम्। उपधायास्तु न सिध्यतीति तदर्थमेषां ग्रहणम्। ज्वरत्वरयोस्तु वकारस्यापि पूर्वेण न सिध्यति; अनयोरकाररेफाभ्यां झलादेः क्विपश्च व्यवधानात्। तस्मात्? तयोर्वकारार्थमुपधार्थञ्च ग्रहणम्। जूः, जुरौ, जुरः इति। ज्वर रोगे (धातुपाठः-776) वकारस्योपधायाश्चोठि कृते सम्प्रसारणाच्च (6.1.108) इति पूर्वरूपत्वम्। जर्त्तिः इति। क्तिन्। तूः इति। ञि त्वरा सम्भ्रमे (धातुपाठः-775) तूर्णः`[`तूर्त्तिः -काशिका-`तूर्णः इति नास्ति] इति। रदाब्यां निष्ठातो नः (8.2.42) इति नत्वम्। स्रूः इति। `रिउआवुगतिशोषणयोः (धातुपाठः-1109)। सवरणदीर्घः। रुआउवौ, रुआउवः इति। अचि श्नुधातु (6.4.77) इत्यादिनोवङ। ऊः इति। अव रक्षणे [रक्षण कान्तिप्रीतितृपत्यवगमप्रवेशश्रवणस्वणस्वम्यर्थयाचनक्रियेच्छादीप्त्यवापत्यालिङ्गनहिंसादानभागवृद्धिषु -धा।पा] (धातुपाठः-600)। मूः इति। मव बन्धने (धातुपाठः-599)।इह ज्वरादिसम्बन्धिन्या उपदाया ऊङ्विधीयते, उपधा चालोऽन्त्यात्पूर्वो वर्णः, अन्त्यत्वञ्चापेक्षितम्; तत्र यथा -श्रेयान्, श्रेयांसावित्यत्र सकारात्? पूर्वे ये वर्णास्तेषामन्त्यो यो नकारस्तस्मात्? पूर्वो वर्ण उपदा, तथा ज्वरादीनामपि यो पूर्वौ वर्णौ तयोर्योऽन्त्यो वर्णस्तस्मात्? पूर्व उपधा, सा च ज्वरादीनां सम्बन्धिनी; तदवयवत्वात्, ततश्च तस्या अप्युपदाया ऊठा भवितव्यमिति कस्याचित्? भ्रान्तिः स्यात्। अतस्तां निराकर्तुं यस्या उपदाया ऊठा भवितव्यं तां दर्शयितुमाह -ज्वरत्वरयोरुपधा वकारात्परा इत्यादि। यस्या उपधाया ऊठा भवितव्यम्, सोहोपधाशब्देन विवक्षिता। किं पुनः कारणस्या वृत्तिकारोपदर्शिताया उपधाया ऊङ्भवति, नान्यस्याः? क्वझल्भ्यां क्ङिता चोपधाविशेषणात्। अत्र क्विप्प्रत्ययेन झलादिना क्ङिता चोपधा विशिष्यते -ज्वरादीनां योपधा क्वौ झलादौ च परतस्तस्या उपधाया ऊङ्भवतीति। अत्र येन नाव्यवधानं तेन व्यवहितेऽपि (व्या।प।46) इत्यादिना यत्रैकेन वर्णेन व्यवधानं वृत्तिकारेणोक्ताया उपदायाः सम्भवति, तस्या एवोङ्भवति,
Prakriyasarvasvam¶
एषां क्वचादौ परे वकारस्योपधाया अप्यूठौ स्तः । द्वयोरूठोः सवर्णदीर्घः । जूः जूरौ । तूः तूरौ । स्रिवु गतिशोषणयोः । स्रूः । ऊः । मव बन्धने । मूः । जनानवतीति जन ऊ । ‘एत्येधत्यूठ्सु’ (६-१-८९) इति वृद्धिः । जनौः । जनावौ ।
Sutra Prayogas¶
तूर्णम् (भट्टिकाव्यम्): ज्वरत्वर… इति वकारोपधयोरूट् ।