64020: ज्वरत्वरस्रिव्यविमवामुपधायाश्च ===================================== **Padacheda:** ज्वर-त्वर-स्रिवि-अवि-मवाम् | S | 6 | 3 | उपधायाः | S | 6 | 1 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- In 1. ज्वर 2. त्वर् 3. श्रिव् 4. अव and 5. मव् before the above mentioned affixes (क्वि and झलादि ङित् and कित् affixes -- अनुनासिकस्य क्विझलोः क्ङिति (6.4.15)) there is the single substitution of ऊठ् for the and the vowel preceding the final consonant. Vasu English Translation ------------------------ In 1. ज्वर 2. त्वर् 3. श्रिव् 4. अव and 5. मव् before the above mentioned affixes (क्वि and झलादि ङित् and कित् affixes -- अनुनासिकस्य क्विझलोः क्ङिति (6.4.15)) there is the single substitution of ऊठ् for the and the vowel preceding the final consonant. Thus जूः, जूरौ, जूरः, जूर्त्तिः ॥ त्वरः — तूः, तूरौ, तूरः, तूर्त्तिः ॥ श्विविः — श्रूः, श्रुवौ, श्रुवः, श्रूतः, श्रूतवान्, श्रूतिः ॥ अव् :- ऊः, उवौ, उवः, ऊतिः ॥ मवः — मूः, मुवौ, मुवः, मूतः, मूतवान्, मूतिः ॥ ज्वरत्वरोरुपधा वकारात् परा, श्रिव्य वमवां पूर्वा ॥ In ज्वर् and त्वर् the ऊ replaces व् as well as the अ which follows व्; and in श्रिव्, अव् and मव् it replaces the व् and the vowel इ and अ which precede व् ॥ Another reading is स्रिव् ॥ Kashika ------- ज्वर त्वर स्रिवि अव मव इत्येतेषामङ्गानां वकारस्य उपधायाश्च स्थान ऊडित्ययमादेशो भवति क्वौ परतोऽनुनासिके झलादौ च क्ङिति। जूः, जूरौ, जूरः। जूर्तिः। त्वर — तूः, तूरौ, तूरः। तूर्तिः। स्रिवि — स्रूः, स्रुवौ, स्रुवः। स्रूतः। स्रूतवान्। स्रूतिः। अव — ऊः, उवौ, उवः। ऊतिः। मव — मूः, मुवौ, मुवः। मूतिः। ज्वरत्वरोरुपधा वकारात् परा, स्रिव्यवमवां पूर्वा॥ Siddhanta Kaumudi ----------------- ज्वरादीनामुपधावकारयोरूठ् स्यात् क्वौ झलादावनुनासिकादौ च प्रत्यये । अत्र क्ङितीति नानुवर्तते । अवतेस्तुनि कृते ओतुरिति दर्शनात् । अनुनासिकग्रहणं चानुवर्तेते । अवतेर्मन्प्रत्यये तस्य टिलोपे ओमिति दर्शनात् । ईडभावे ऊठि पिति गुणः । मामोति । मामवीति । मामूतः । मामवति । मामोषि । मामोमि । मामावः । मामूमः । मामूहि । मामवानि । अमामोत् । अमामोः । अमामवम् । अमामाव । अमामूम । तुर्वी हिंसायाम् । तोतूर्वीति ॥ Laghu Siddhanta Kaumudi ----------------------- एषामुपधावकारयोरूठ् अनुनासिके क्वौ झलादौ क्ङिति॥ अतः क्विप्। जूः। तूः। स्रूः। ऊः। मूः॥ Tattvabodhini ------------- **ज्वरत्वरश्रिव्यविमवामुपधायाश्च** - ज्वर रोगे । ञित्वरा संभ्रमे । अत्र वृत्तौझलादौ क्ङिती॑त्युक्तं तत्र क्ङितीत्येतद्रभयसकृतमेवेत्याह — क्ङितीति नानुवर्तत इति । अवतेस्तुनीति ।ज्वरत्वरे॑त्युपधावकारयोरूठि गुणे च कृते मन्प्रत्ययस्य टिलोपे चोमिति सिध्यतीत्यर्थः । ज्वरादेरुदाहरणं क्विपि जूः । जुरौ । जुरः । झलादौ तु — जूर्तिः । जूर्णः । जूर्णवान् । त्वर — तूः । तुरौ । तुरः । तूर्तिः । तूर्णः । तूर्णवान् । रिउआवि- स्रूः । रुआउवौ । रुआउवः । रुआऊतिः । अवि — ऊः । उवौ । उवः ।ऊतिः । मव — मूः । मुवौ । मूतः । मूतिः । मामोषीत्यादि । ईट्पक्षे मामवीषि । मामवीमि । मामवीतु । अमामवीत् । अमामवीरिति बोध्यम् । राल्लोपः ।च्छ्वोः शू॑डित्तश्च्छ्वोरित्यनुवर्तते । क्वावुदाहरणं — तूः । तुरौ तुरः । धुर्वी — धूः । धुरौ । धुरः । मुच्र्छा — मूः । मुरौ । मुरः । Padamanjari ----------- ज्वर रोगे, ञित्वरा सम्भ्रमे, स्त्रिवु गतिशोषणयोः, अव रक्षणे, मव बन्धने । ज्वरत्वरेत्यादि । वस्तुकथनम् ॥ Nyaas ----- रिउआव्यविमवां वकारसय पूर्णेणैव सिद्धम्। उपधायास्तु न सिध्यतीति तदर्थमेषां ग्रहणम्। ज्वरत्वरयोस्तु वकारस्यापि पूर्वेण न सिध्यति; अनयोरकाररेफाभ्यां झलादेः क्विपश्च व्यवधानात्। तस्मात्? तयोर्वकारार्थमुपधार्थञ्च ग्रहणम्। `जूः, जुरौ, जुरः` इति। `ज्वर रोगे` (धातुपाठः-776) वकारस्योपधायाश्चोठि कृते **सम्प्रसारणाच्च** (6.1.108) इति पूर्वरूपत्वम्। `जर्त्तिः` इति। क्तिन्। `तूः` इति। `ञि त्वरा सम्भ्रमे` (धातुपाठः-775) `तूर्णः`[`तूर्त्तिः -काशिका-`तूर्णः` इति नास्ति] इति। `रदाब्यां निष्ठातो नः` (8.2.42) इति नत्वम्। `स्रूः इति। `रिउआवुगतिशोषणयोः` (धातुपाठः-1109)। सवरणदीर्घः। `रुआउवौ, रुआउवः` इति। `अचि श्नुधातु` (6.4.77) इत्यादिनोवङ। `ऊः` इति। `अव रक्षणे` [रक्षण कान्तिप्रीतितृपत्यवगमप्रवेशश्रवणस्वणस्वम्यर्थयाचनक्रियेच्छादीप्त्यवापत्यालिङ्गनहिंसादानभागवृद्धिषु -धा।पा] (धातुपाठः-600)। `मूः` इति। `मव बन्धने` (धातुपाठः-599)।इह ज्वरादिसम्बन्धिन्या उपदाया ऊङ्विधीयते, उपधा चालोऽन्त्यात्पूर्वो वर्णः, अन्त्यत्वञ्चापेक्षितम्; तत्र यथा -श्रेयान्, श्रेयांसावित्यत्र सकारात्? पूर्वे ये वर्णास्तेषामन्त्यो यो नकारस्तस्मात्? पूर्वो वर्ण उपदा, तथा ज्वरादीनामपि यो पूर्वौ वर्णौ तयोर्योऽन्त्यो वर्णस्तस्मात्? पूर्व उपधा, सा च ज्वरादीनां सम्बन्धिनी; तदवयवत्वात्, ततश्च तस्या अप्युपदाया ऊठा भवितव्यमिति कस्याचित्? भ्रान्तिः स्यात्। अतस्तां निराकर्तुं यस्या उपदाया ऊठा भवितव्यं तां दर्शयितुमाह -`ज्वरत्वरयोरुपधा वकारात्परा` इत्यादि। यस्या उपधाया ऊठा भवितव्यम्, सोहोपधाशब्देन विवक्षिता। किं पुनः कारणस्या वृत्तिकारोपदर्शिताया उपधाया ऊङ्भवति, नान्यस्याः? क्वझल्भ्यां क्ङिता चोपधाविशेषणात्। अत्र क्विप्प्रत्ययेन झलादिना क्ङिता चोपधा विशिष्यते -ज्वरादीनां योपधा क्वौ झलादौ च परतस्तस्या उपधाया ऊङ्भवतीति। अत्र `येन नाव्यवधानं तेन व्यवहितेऽपि` (व्या।प।46) इत्यादिना यत्रैकेन वर्णेन व्यवधानं वृत्तिकारेणोक्ताया उपदायाः सम्भवति, तस्या एवोङ्भवति, Prakriyasarvasvam ----------------- एषां क्वचादौ परे वकारस्योपधाया अप्यूठौ स्तः । द्वयोरूठोः सवर्णदीर्घः । जूः जूरौ । तूः तूरौ । स्रिवु गतिशोषणयोः । स्रूः । ऊः । मव बन्धने । मूः । जनानवतीति जन ऊ । 'एत्येधत्यूठ्सु' (६-१-८९) इति वृद्धिः । जनौः । जनावौ । Sutra Prayogas -------------- * **तूर्णम्** (भट्टिकाव्यम्): `ज्वरत्वर...` इति वकारोपधयोरूट् ।