64012: इन्हन्पूषार्यम्णां शौ¶
Padacheda: इन्-हन्-पूष-अर्यम्णाम् | S | 6 | 3 |
शौ | S | 7 | 1 |
Sutrartha¶
इन्नतशब्दाः, हन्-शब्दः, पूषन्-शब्दः, तथा अर्यमन्-शब्दः एतेषां अङ्गस्य केवलं शि-प्रत्यये परे एव उपधादीर्घः भवति, अन्येषु सर्वनामस्थानेषु परेषु न ।
हन् (= हन्ति सः), पूषन् (= सूर्यः), अर्यमन् (= सहचरः) एतेषां शब्दानाम्, तथा ‘इन्’ येषामन्ते अस्ति तादृशानाम् शब्दानाम् सर्वनामस्थाने चासम्बुद्धौ (6.4.8) इत्यनेन सम्बुद्धिं विहाय अन्येषु सर्वेषु सर्वनामस्थानपरेषु अङ्गस्य दीर्घे प्राप्ते वर्तमानसूत्रेण केवलं शि-प्रत्यये परे एव उपधादीर्घः नियम्यते । इत्युक्ते, शि-प्रत्ययं विहाय अन्येषु सर्वनामस्थानप्रत्ययेषु परेषु अङ्गस्य उपधादीर्घः न भवति । यथा - हन्-शब्दस्य प्रथमा-द्विवचनस्य रूपम् ‘हनौ’ इति भवति, न हि ‘हानौ’ । तथैव, पूषन् शब्दस्य प्रथमाबहुवचनस्य रूपम् ‘पूषणः’ इति भवति, न हि पूषाणः । एतेषु रूपेषु ‘शि’-प्रत्ययः नास्ति, अतः अत्र सर्वत्र अनेन सूत्रेण उपधादीर्घः निषिध्यते । शि-प्रत्ययस्य उदाहरणद्वयम् इदम् - 1. ‘दण्डिन्’ (इन्नन्त-नपुंसकलिङ्गशब्दः) इत्यस्य प्रथमाबहुवचनस्य रूपम् भवति ‘दण्डीनि’ । अत्र प्रथमाबहुवचनस्य जस्-प्रत्ययस्य जश्शसोः शिः (7.1.20) इत्यनेन शि-आदेशः विधीयते, अतः अत्र अनेन सूत्रेण उपधादीर्घः अपि भवति । 2. ‘पूषन्’ इत्यस्य प्रथमाबहुवचनस्य रूपम् भवति ‘पूषाणि’ । अत्र प्रथमाबहुवचनस्य जस्-प्रत्ययस्य जश्शसोः शिः (7.1.20) इत्यनेन शि-आदेशः विधीयते, अतः अत्र अनेन सूत्रेण उपधादीर्घः अपि भवति । अत्र एकः विशेषः स्मर्तव्यः । पदाङ्गाधिकारे तस्य च तदन्तस्य च अनया परिभाषया अस्मिन् सूत्रे विद्यमानाः ‘हन्’, ‘पूषन्’, ‘अर्यमन्’ एते शब्दाः तदन्तस्य अपि ग्रहणं कुर्वन्ति । अतः ‘बहुपूषन्’, ‘भ्रूणहन्’, ‘बहुवृत्रहन्’, ‘बहुभ्रूणहन्’, ‘बह्वर्यमन्
एतेषां विषये अपि अनेन सूत्रेण शि-प्रत्यये परे उपधादीर्घः भवति । यथा - बहुपूषन् + जस् → बहुपूषाणि ।
ज्ञातव्यम् - 1. अत्र निर्दिष्टः ‘हन्’ शब्दः प्रातिपदिकमस्ति, धातुः न । ‘हन्’ धातो’ क्विप्’ प्रत्ययं कृत्वा ‘हन्’ इति प्रातिपदिकं जायते । 2. सिद्धे सति आरम्भः नियमार्थः इति कश्चन सिद्धान्तः अस्ति । यत्र पूर्वसूत्रेणैव सिद्धः विधिः परसूत्रेण पुनः प्रतिपाद्यते, तत्र सः विधिः परसूत्रेण ‘नियम्यते’ इति ज्ञातव्यम् । यथा - इन्नतशब्दानामङ्गस्य उपधावर्णस्य शि-प्रत्यये परे दीर्घः तु सर्वनामस्थाने चासम्बुद्धौ (6.4.8) इत्यनेनैव विधीयते । वर्तमानसूत्रेण तस्यैव पुनःप्रतिपादनं कृतमस्ति । अतः वर्तमानसूत्रेण ‘नियमः’ प्रोक्तः अस्ति, इति कथ्यते । इत्युक्ते, इन्नतशब्दानामङ्गस्य उपधावर्णस्य शि-प्रत्यये परे ‘एव’ दीर्घः भवति, न अन्यत्र, इति अस्य अर्थः ।
Sutrartha (English)¶
For the words हन्, पूषन् and अर्यमन्, and for also the words that end in ‘इन्’, the उपधादीर्घ happens only in case of the ‘शि’ प्रत्यय, and not in case of other सर्वनामस्थानप्रत्ययाः.
Vasu English Summary¶
The penultimate vowel is lengthened before the affix शि (Nominative 1st-Case and Accusative -2nd case plural) when the अङ्ग (stem) ends in इन् or हन् or पूषन् or अर्यमन्।
Vasu English Translation¶
The penultimate vowel is lengthened before the affix शि (Nominative 1st-Case and Accusative -2nd case plural) when the अङ्ग (stem) ends in इन् or हन् or पूषन् or अर्यमन्। According to the maxim (See (6.4.14) also) that “अन्, इन्, अस्, मन ग्रहणान्यर्थवता चानर्थकेन च तदन्त विधिं प्रयोजयन्ति”, the employment of इन् in this sutra includes and means “words ending in the syllable इन्” ॥ As regards the rest (हन् &c.), the affix शि (Neuter Plural) is never added to them alone, but when they are parts of a compound. Thus हन् is a noun formed by the addition of the affix क्विप् to the root हन्; and the affix Kvip is added to it only then, when it is preceded by another word like “Brahma” &c. See (3.2.87). Similarly the words पूषन् and अर्यमन् are masculine and cannot take the Neuter plural affix शि in their original state. They must be parts of a neuter compound, to admit this affix. Hence we have used words “when the stem ends in इन् &c.”
Thus बहुदण्डीनि and बहुच्छत्रीणि । बहुवृत्रहाणि । बहुभ्रूणहाणि । बहुपूषाणि । बह्वर्यमाणि ॥ सिद्धे सत्यारम्भो नियमार्थः । इन्हन्पूषार्यम्णामुपधायाः शावेव दीर्घो भवति नान्यत्र । दण्डिनौ ॥ छत्रिणौ । वृत्रहणौ । पूषणौ । अर्यमणौ ॥
Though this result could have been obtained by (6.4.8), the special mention of these words shows that except in Accusative and Nominative Plural the lengthening does not take place in other strong cases. As दण्डिनौ, छत्रिणौ, वृत्रहणौ, पूषणौ, अर्यमणौ ॥
Karika :- Regarding the rule of lengthening taught about इन् &c here, let the wise reader, after making a restrictive rule with regard to सुट् (sarvanamasthana) affixes in general, make again another rule regarding the affix शि in particular, (i. e., make a yoga-vibhaga) By so doing, the form भ्रूणहनि (Locative singular) of the Acharya, will not be found fault with.
(But if yoga-vibhaga be not made) then I rule that the anuvritti of सुट् being dropped, let the rule be made with regard to शि affix in general (without regarding it as a Sarvanamasthana affix). And as the rule of lengthening applies to penultimates, there would arise no fault, if the vowel of हन् is lengthened before the demonstrative affix य (in words like वृत्रहायते = वृत्रहा इव आचरति, This refers to (7.4.25)).
Or if the anuvritti of सुट् (Sarvanamasthana) be taken into this Sutra, because of the context, then the mention of शि in this Sutra, (would be redundant, because the word Sarvanamasthana includes it, so far as the strong cases are concerned) but it would find scope and utility in preventing the lengthening in those cases to which the context of Sarvanamasthana does not apply. That is, the Sarvanamasthana will be restricted with regard to इन् &c to the affix शि and not to सुट् affixes generally.
Note :- शि is the affix of the Nominative and Accusative Plural in Neuter (7.1.20). It is a Sarvanamasthana by (1.1.42). But the word Sarvanamasthana may be read into this sutra from the preceding (6.4.8). What is then the necessity of employing शि in this? The above karika answers this.
In the case of हन् ending words, the subsequent rule (6.4.15), which required the lengthening of the penultimate vowel before an affix having an indicatory क् or ङ्, is however debarred by the present restrictive rule. Thus the Locative Singular (ङि) is वृत्रहनि, and भ्रूणहनि ॥ How do you make this? By splitting up the present sutra into two parts, the first part being इन् हन् पूषार्यम्णाम्, and the second being शौ ॥ It would then mean :- (1) The penultimate vowel is lengthened, in strong cases only and no where else, when the stem ends in इन् or हन् or in पूषन् or अर्यमम् ॥ (2) So also it is lengthened before the strong case शि and no where else. These two restrictive rules therefore, would debar all other rules of penultimate lengthening which would otherwise have been applicable. But a rule which does not relate to penultimate vowel, is not debarred by this restriction, but does take effect. Thus वृत्रहायते, भ्रूणहायते denominative verbs in क्यङ् ॥
Or even though the Sarvanamasthana may be read into the sutra by anuvritti, yet this may be considered a Restrictive Rule in general, and not only with regard to शि considered a Sarvanamasthana or a Neuter affix शि is the Sarvanamasthana affix of the Neuter : which has no other Sarvanamasthana, therefore, it is a general Niyama and not only a Sarvanamasthana or a Neuter niyama. Therefore in this niyama the word “नपुंसकस्य” - “of the Neuter” - is not to be taken.
For if it be taken, then the Sutra would mean, the neuter stems in इन् &c are lengthened in शि only and no where else. The result would be that in examples like भ्रूणहनि ब्राह्मणकुले (locative singular), there would be no lengthening at all (i.e. we shall never have the form भ्रूणहानि in locative singular by force of (6.4.15); moreover, by so doing, there would arise this anomaly also, that words other than Neuter would also not be lengthened.
The force of the definition of Sarvanamasthana applies to Neuter also in certain cases, therefore, any rule (niyama) made with regard to Sarvanamasthana would apply to Neuter also.
Bhashya¶
इन्हन्पूषार्यम्णां शौ (3010)
Kashika¶
इन् हन् पूषन् अर्यमन् इत्येवमन्तानामङ्गानां शौ परत उपधाया दीर्घो भवति। बहुदण्डीनि। बहुच्छत्रीणि। बहुवृत्रहाणि। बहुभ्रूणहानि। बहुपूषाणि। बह्वर्यमाणि। सिद्धे सत्यारम्भो नियमार्थः — इन्हन्पूषार्यम्णामुपधायाः शावेव दीर्घो भवति नान्यत्र। दण्डिनौ। छत्रिणौ। वृत्रहणौ। पूषणौ। अर्यमणौ।
दीर्घविधिर्य इहेन्प्रभृतीनां तं विनियम्य सुटीति सुविद्वान्।
शौ नियमं पुनरेव विदध्याद् भ्रूणहनीति तथास्य न दुष्येत्॥
शास्मि निवर्त्य सुटीत्यविशेषे शौ नियमं कुरु वाप्यसमीक्ष्य।
दीर्घविधेरुपधानियमान्मे हन्त यि दीर्घविधौ च न दोषः॥
सुट्यपि वा प्रकृतेऽनवकाशः शौ नियमोऽप्रकृतप्रतिषेधे।
यस्य हि शौ नियमः सुटि नैतत्तेन न तत्र भवेद्विनियम्यम्॥
हन्तेः अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) इति दीर्घत्वं यत्, तदपि नियमेन बाध्यते — वृत्रहणि, भ्रूणहनीति। कथम्? योगविभागः क्रियते। इन्हन्पूषार्यम्णां सर्वनामस्थान एव दीर्घो भवति, नान्यत्रेति। ततः शाविति द्वितीयो नियमः। शावेव सर्वनामस्थाने दीर्घो भवति, नान्यत्रेति। सर्वस्योपधालक्षणस्य दीर्घस्य नियमेन निवृत्तिः क्रियते। यस्तु न उपधालक्षणः स भवत्येव। वृत्रहायते। भ्रूणहायते। अथ वानुवर्तमानेऽपि सर्वनामस्थानग्रहणे सामर्थ्यादयमविशेषेण नियमः। शिशब्दो हि सर्वनामस्थानं नपुंसकस्य, न च तस्यान्यत् सर्वनामस्थानमस्तीत्यविशेषेण नियमः। तत्र तु नपुंसकस्येत्येतद् नाश्रीयते तेनानपुंसकस्यापि दीर्घो न भवति। सर्वनामस्थानसंज्ञाविधाने तु नपुंसकस्य व्यापारोऽस्तीति तत्र नियमः क्रियमाणो नपुंसकस्य स्यात्॥
Siddhanta Kaumudi¶
एषां शावेवोपधाया दीर्घो नान्यत्र । इति निषेधे प्राप्ते ॥
Laghu Siddhanta Kaumudi¶
एषां शावेवोपधाया दीर्घो नान्यत्र। इति निषेधे प्राप्ते -
Balamanorama¶
इन्हन्पूषार्यम्णां शौ - सौ विशेषमाह — इन्हन् । ‘ढ्रलोपे’ इत्यतो ‘दीर्घ’ इत्यनुवर्तते । ‘नोपधायाः’ इत्यत ‘उपधाया’ इति । तदाह — एषामिति । इन् हन् पूषन् अर्यमन्नित्यन्तानामित्यर्थः । अङ्गविशेषणत्वेन तदन्तविधिः ।सर्वनामस्थाने चे॑ति सिद्धे नियमार्थमित्याह — शावेवेति । नान्यत्रेति । शेरन्यत्रेत्यर्थः । इति निषेधे प्राप्त इति । वृत्रहन्शब्दे हन् इत्यस्यापि शावेव दीर्घ इति नियमात्सौ परतः ‘सर्वनामस्थाने’ इति दीर्घेऽप्राप्ते सतीत्यर्थः ।
Tattvabodhini¶
इन्हन्पूषार्यम्णां शौ - इन्हन् ।सर्वनामस्थाने चासंबुद्धा॑वित्यनेनैव सिद्धे नियमार्थमिदं, तदाह -शावेवोपधाया इति । उपधादीर्घमात्रस्यायं नियमः । तेनवृत्रहायते॑इत्यत्रअकृत्सार्वधातुकयो॑रिति दीर्घो भवत्येव ।वृत्रहणी॑इत्यत्रअनुनासिकस्य क्विझलो रिति यो दीर्घः सोऽपि नियमेन व्यावर्त्त्यते । उपधादीर्घमात्रपेक्षया नियमविज्ञानादिति तु मनोरमायां स्थितम् । शावेवेति नियमाद्दीर्घस्याऽप्राप्तावाह-
Padamanjari¶
अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधिं प्रयोजयन्तीति इन्ग्रहणेन तदन्तं गृह्यते । इतरेभ्योऽपि केवलेभ्यः शिर्न सम्भवति, कथम् इन्निति हन्तेः क्विबन्तस्य ग्रहणम्, ब्रहणम्, ब्रह्मद्यौपदाच्च हन्तेः क्विब्विहितः, इतरौ च पुंल्लिङ्गौ, तस्मात्सवैरेव तदन्तविधिविंज्ञायते, इत्याह - इन्हन्पूषन्नर्यमन्नित्येवमन्तानामिति । बहुदण्डीनीति । बैषम्यपरिहारार्थमाद्ययोर्बहुपूर्वयोः । उपन्यासो बहुत्वं च पूषादौ कालभेदतः ॥ इति । इह दण्डीनि ब्राह्मणकुलानि, ब्रह्महाणि ब्राह्मणकुलानि - इत्यन्तरेणापि बहुशब्दभाद्ययोरिन्हन्नित्येतयोरुदाहरणत्वेनोपन्यासः सम्भावतीति चोद्यम्, वैषम्यपरिहारार्थं तु बहुपूर्वयोरुपन्यास इत्युतरम् । वृत्रहा इन्द्रः, स एकः , एवं पूषार्यमणौ, तेषां कथं बहुत्वं विषेषणमिति चोद्यम्, मन्वन्तरादिकालभदेनेन्द्रादयो भिद्यन्ते इत्युत्रम् । यद्वा - बहुषु यज्ञेष्वाहूता इन्द्रादयो यैर्ब्राह्मणकुलैस्तानि तथोच्यन्ते । ननु च सर्वनामस्थाने चासम्बुद्धौ इति दीर्घत्वं सिद्धम्, तत्किमर्थोऽयमारम्भः इत्याह - सिद्धे सत्यारम्भ इति । इन्नादीनामुपधायाः शावेवेति । विपरीतस्तु नियमो न भवति - इन्नादीनामेव शाविति सर्वनामानि तायेकवचनद्विवचनबहुवचनान्येकशः इति निर्देशात् । वृत्रहणाविति । नन्वत्रास्तु सर्वनामस्थाने चासम्बुद्धौ थैति प्राप्तो दीर्घः कस्मान्न भवति, न ह्यसौ तस्य नियमः अप्रकृतत्वादसंशब्दितत्वाच्च सत्यम् नियमविधानसामर्थ्यातु तस्याप्यनेन निवृत्तिः । अस्त्वेवं सर्वनामस्थाने, विभक्त्यन्तरे तु सर्वत्रानुनासिकललक्षणो दीर्घः प्राप्नोति अत आह - दीर्घविधिरिति । य इह शास्त्रे इन्नादीनां दीर्घविधिस्तं विनियम्य - तस्य नियमं कृत्वा, क्व सुटि सर्वनामस्थाने । उपलक्षणमेतत् । तेन शसादेशोऽपि शिर्गृह्यते । इतिशब्दो हेतौ, स च भिन्नक्रमः श्लोकन्ते द्रष्टव्यः । एततः किं कुर्यात् शौ नियमं पुनविंदध्यात् । एवकारो भिन्नक्रमो नेत्यस्यानन्तरं द्रष्टव्यः । एकस्मन्योगे नियमद्वयस्य कर्तुमशक्यात्वाद्योगविभागः कर्तव्य इत्यर्थादुक्तं भवति । इन्हन्पूषार्यम्णाम् इत्येको योगः, सर्वनामस्थाने इति च वर्तते, इन्नादीनां च सर्वनामस्थान एव दीर्घो भवतीत्यर्थः । अत्र हन्व्यतिरिक्तानां ग्रहणमुतरार्थम् । ततः शौ इति द्वितीयो योगः, सर्वनामस्थानेऽपि शावेव न सर्वत्र । ततः सौ चेति सूत्रं एविध्यर्थम् । एवं च योगद्वयं क्रियमाणे च सति यदिष्ट्ंअ सम्पद्यते तद्दर्शयति - भ्रूणहनीति तथास्य न दुष्येदिति । तथेति योगाद्वये सतीत्यर्थः । अस्येति आचार्यस्य । भ्रूणहनीति सप्तम्येकवचने विभाषा ङिश्योः इत्यिल्लोपाभावक्षेऽनुनासिकलक्षणो दीर्घो न भवतीत्यर्थः । सप्तम्येकवचनमुपलक्षणम् सर्वत्र दीर्घप्रसङ्गस्योक्तत्वात् । एवं योगविभागेन चोद्यं परिहृत्यैकस्मिन्योगे परिहर्तुमाह - शास्मीति । शास्मि - उपदिशामि तं प्रकारम्, येनैकयोगेऽपि दोषाभावः । अत्रापि सुडिति सर्वनामस्थानं लक्ष्यते सर्वनामस्थानग्रहणं निवर्त्य अनाश्रितसर्वनामस्थानत्वविशेषे प्रत्ययत्वमात्राश्रयेण । शौ नियमं कुरु वा । एवं वा कुरु, पूर्वोक्तं वा प्रकारमित्यर्थः । एवं च विशेषमनपेक्ष्य शौ नियमः क्रियमाणः प्रत्ययत्वेन तुल्यजातीये सर्वत्र प्रत्ययान्तरे निवृत्तिं करोति । यद्येवम्, वृत्रहेवाचरति वृत्रहायते इति क्यैङ् अकृत्सार्वधातुकयोः इत्यपि दीर्घो न स्यात् अत आह - दीर्घविधेरिति । निर्द्धारणे एषा षष्ठी, जातावेकवचनम् । उपधाशब्देन उपधालक्षणं दीर्घत्वमुच्यते । दीर्घविधानमध्ये उपधालक्षणस्य दीर्घस्य नियमादित्यर्थः । एतच्चोपधाग्रहणानुवृतेर्लक्ष्यते । हन्तेर्यो हन्तियः, तस्मिन्यो दीर्घविधिस्तत्र न दोष इत्यर्थः । क्वचितु - हन्तेति निपातोऽभिमुखीकरणार्थः पठ।ल्ते । अत्रापि यिग्रहणमुपलक्षणम्, दण्डीभूतैत्यत्र च्वौ च इत्यपि दीर्घो भवत्येव । इदानीमसत्यपि योगविभागे सर्वनामस्थानापेक्षायां सत्यामपि न दोष इत्याह - सुट।ल्पीति । अपिशब्दः अप्रकृतिप्रतिषेधे इत्यनेन सम्बन्धनीयः । वाशब्दः पक्षान्तरं द्योतयति । अत्रापि सुडिति सर्वनामस्थानोपलक्षणम्, तदयमर्थः - अथ वा - सुटि सर्वनामस्थाने प्रकृते प्रकरणादपेक्ष्यमाणे । एतेन लौकिकमधिकारमभ्युपगच्छति, शास्त्रीयस्तु नैवाभ्युपगम्यते । अनवकाश इति । हेतुगर्भमिदं विशेषणम् । यतोऽनवकाशः शौ नियमोऽतोऽप्रकृतस्याप्यनुनासिकदीर्घस्य प्रतिषेधे व्यावृतौ कर्तव्यायामपि प्रवर्तते । कथमनवकाशत्वमत आह - यस्य हीति । द्विविधं सर्वनामस्थानम् - शिः सुट् च, तत्र शिर्नपुंसकस्य सम्बन्धी, तत एतस्य विधानात्, सुट् तु स्त्रीपुंसयोः सुडनंपुसकस्य इति वचनात् । ततश्च यस्य नपुंसकस्य सम्बन्धिनि शौ नियमः क्रियते सुटि सर्वनामस्थानसंज्ञके नैतन्नपुंसके सम्भवति अनपुंसकस्येति वचनात् । हिशब्दो हेतौ, यस्मादेवं तेन कारणेन तत्र सर्वनामस्थाने सुटि नियन्तव्यं व्यावर्त्य दीर्घत्वं सम्भवतीति सामर्थ्यादविशेषेण नियम आश्रीयते । एतदुक्तं भवति - यदि प्रकारणाप्राप्तं सर्वनामस्थानत्वं शेराश्रीयते, तदा नपुंसकसम्बन्धित्वमप्याश्रयणीयम् । उभयथाश्रयणे वायमर्थो भवति - इन्नादीनां नपुंसकानां शावेव सर्वनाम स्थाने दीर्घत्वमिति । एवंविधस्य नियमस्य किं तुल्यजातीयं व्यावतेनीयम् नपुंसकानामेवैषां सर्वनामस्थानान्तरं न च तदस्तीति नियमविधानसामर्थ्यात्प्रकरणप्राप्तं सर्वनामस्थानत्वं सामर्थ्यप्राप्तं च नपुंसकत्वमुभयमप्यविशेषात्परित्यज्य प्रत्ययमात्रे स्त्रीपुंससम्बन्धिनि दीर्घत्वं व्यावर्त्यत इति । विनियम्यम् - साधु नियम्यम् । हन्तेरनुनासिकस्येत्यादिना प्रथमश्लोकं व्याचष्टे । सर्वनामस्थान इत्यादिना द्वितीयस्य पूर्वार्द्धम् यस्त्वित्यादिना पश्चार्द्धम् । अथ वेत्यादिना तृतीयश्लोकम् । अनुवर्तमानेऽपीति । लौकक्यत्रानुवृत्तिर्विवक्षिता, न शास्त्रीया स्वरितत्वनिबन्धना । तथा हि सति सामर्थ्यप्राप्तस्य नपुंकत्वस्यैव परित्यागः स्यात्, न वचननप्राप्तस्य सर्वनास्थानत्वस्य । सामर्थ्यप्राप्तस्य नंपुकत्वस्येव परित्यागः स्यात्, न वचनप्राप्तस्य सर्वनास्थानत्वस्य । समार्थ्यादित्युक्तम्, तदेव दर्शयति - शिशब्दो हीति । अविशेषेणोति । नंपुसकत्वं सर्वनामस्थानत्वं च विशेषमनाश्रित्येत्यर्थः । पूर्व नपुंसकत्वाप्रसञ्जनेन केवलसर्वनामस्थानत्वाश्रयेण नियमो दोषप्रसङ्गातथा नाश्रीयत इत्याद्ययोः श्लोकयोरुक्तम् । वृत्तिकारस्तु सर्वनामस्थानत्वपरित्यागेन केवलनपुंसकत्वाश्रयणमपि दोषप्रसङ्गादेव सर्वथा न कार्यमित्याह - तत्र त्विति । तुशब्दोऽपिशब्दोऽपिशब्दस्यार्थे भिन्नक्रमश्चैतत् इत्यस्यानन्तरं द्रष्टव्यः । तत्रैतस्मिन्नियमे क्रियमाणे नपुंसकस्येत्येतदपि विशेषणं नाश्रीयत इत्यर्थः । किमेवं सति सिद्धं भवति तद्दर्शयति ए- तेनेति । तदाश्रयणे ह्ययमर्थः स्यात् - इन्नादीनां नपुंसकानां शावेव दीर्घत्वमिति, ततश्च भ्रूणहनि ब्राह्मणकुले इत्यादावेव दीर्घत्वं न स्यात्, न लिङ्गान्तरे । तस्मान्नपुंसकत्वमपि विशेषणं नाश्रयणीयमिति भावः । कथं पुनरप्रकृतस्यासंशब्दितस्य नपुंसकत्वस्याश्रयणप्रसङ्गः इत्यह सर्वनामस्थानविधाने त्विति । सर्वनामस्थानमिति तटस्थमुपलक्षणम्, यदिदं सर्वनामस्थानं शिशब्दस्तस्य यद्विधानं जश्शयोरित्येतत्, तत्रेत्यर्थः । सर्वनामस्थानसंज्ञाविधाने त्विति पाठे योऽयं सर्वनामस्थानसंज्ञः पाठः, न तत्र समीचीनमर्थः पश्यामः । तथा हि - शि सर्वनामस्थानम् इत्येतत्संज्ञाविधानम्, तत्र नपुंसकग्रहणमस्ति । अथ शिशब्दस्य नपुंसकत्वाव्यभिचारादार्थान्नपुंसकस्याश्रयणम् तदत्रैव सूत्रे शक्यते वक्तुम्, किमुच्यते - संज्ञाविज्ञाने त्विति । अथावश्यमयमेव पाठो योज्यस्तदाडः प्रश्लेषः स च धात्वर्थानुवादी, सर्वनामस्थानसंज्ञस्याविधानं सर्वनामस्थानसंज्ञाविधानम्, तत्रेति, स एवार्थो यं पूर्वमवोचाम। तुशब्दो हेतौ, अपि स्यादिति सम्भावनायाम् । यस्मान्नपुंसकादेव शेर्विधानं तस्मातत्र शिशब्दे क्रियमाणस्य नियमस्य नपुंसकविषयता सम्भाव्यते इत्यर्थः ॥ अत्वसन्तस्य चाधातोः ॥ अत्रेत्यदि । ननु च परत्वान्नित्यत्वाच्च नुमेव पूर्व प्राप्नोति तत्राह - यदि हीति । इह दीर्घश्रुत्याचः स्थानित्वम्, तच्च न स्वरुपेण, किं तर्हि उपधायाः इत्यनुवृतेरुपधात्वनिबन्धनम्, अत एवाजन्तस्य दीर्घाभावः । तस्मात्सथानिन्येवात्र निमितशब्दः प्रयुक्तः । पिण्डग्रश्चर्मव इति । ग्रसु ग्लसु अदने, वस आच्छादने क्विप् । ननु चानर्थकत्वादेवात्र न भविष्यति, मूलोदाहरणेषु त्वसुन्प्रत्ययस्यार्थवत्वात्सिद्धमत आह - अनर्थकोऽपीति । अत्रैव हेतुमाह - अनिनस्मिन्ग्रहणानीति । अयमेव धातुप्रतिषेधो ज्ञापयति - अस्तीयं परिभाषेति । नैतदस्ति ज्ञापकम्, अस्यर्थमेतत्स्यात् - शत्रनस्यात्, शत्रूनस्यतीति शत्रूव इति, तस्माद्वचनमेवेदम् । अतुग्रहणे त्वर्थवतोऽतुशब्दस्याभावादेवानर्थकस्य ग्रहणम् । अन्तग्रहणमनर्थकम्, केवलयोरत्वसोरभावादेव सिद्धमत आह अन्तग्रहणमित्यादि । अपदेशः - लक्षणवाक्यानि गणपाठश्च, प्रयुज्यत इति प्रयोगः, उपदेशे प्रयोग उपदेशप्रयोगः । उपदेशे यत्प्रयुज्यते शब्दंरुपं तदेकदेशस्याप्यत्वसन्तस्य परिग्रहार्थमित्यर्थः । असति पुनरन्तग्रहणे कस्य ग्रहणं न स्यात् इत्यत आह - इतरथा हीति । मतुब्ग्रहणमुपलत्रणम् । कुमुदनडवेतसेभ्यो डमतुप् इत्यस्यापि ग्रहणं न स्यात् । किं कारणमित्यत आह - उपदेश इति । रुपनिर्ग्रहः - रुपनिश्चयः । स यद्यपि लौकिते प्रयेगे भवति, अनुबन्धयुक्तं तु रुपमुपदेश एव निश्चीयत इत्युपदेश इत्युक्तम् । नायमत्वन्त इति । यद्यपि तावतोऽवधेरतुरन्तः, तथापि न तत्पर उपदेशः, यत्परश्चोपदेशो न सोऽत्वन्तः, पकारान्तत्वात् । ततश्च तस्य ग्रहणं न स्यात्, अन्तग्रहणसामर्थ्यातु तावतोऽप्यवधेरत्वन्तस्य ग्रहणम् ॥
Nyaas¶
अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधिं प्रयोजयन्ति (व्या।प।129) इतीन्ग्रहणेन तदन्तं गृह्रते। इतरेभ्योऽपि केवलेभ्यः शिनं भवतीति। तथा हि -हन्निति हन्तेः क्यिबन्तस्येदं ग्रहणम्, न च केवलस्य हन्तेः क्विब्दृश्यते। इतरौ तु पुंल्लिङ्गौ। नपुंसकादुत्तरयोः जस्शसोः शिर्विधीयते। तस्मात्? तैरपि सामर्थात्तदन्तविधिर्विज्ञायत इत्याह -इन्, हन्, पूषन्, अर्यमन्? इत्येवमन्तानामङ्गानाम् इति। बहुदण्डीनि इति। दण्ड एषामस्तीति मत्वर्थीय इनिः, बहवो दण्डिनः एषां सन्तीति बहुव्रीहिः, ततो जश्शसौ, तयोश्च पूर्ववच्छिभावः, अनेन दीर्घत्वम्। ननु चेन्नितिप्रत्ययग्रहणम्, तत्र प्रत्ययग्रहणे यस्मात्? स विहितस्तदादेसतदन्तस्य च ग्रहणं भवति (भो।प।सू।7) इति दण्डिनीत्यत्रैव दीर्घत्वेन भवितव्यम्, न तु बहुदण्डीनीत्यत्र? नेतदस्ति; यत्र हि प्रत्ययस्यैव ग्रहणं तत्रैवेयं परिभाषा, नेदं प्रत्ययस्यैव ग्रहणम्, अपि तु प्रस्ययाप्रत्यययोः; अन्यथा वाच एषां सन्तीति वाचो ग्मिनिः (5.2.124) वाग्मीनि, रुआज एषां सन्तीति अस्मायामेधास्रजो विनिः (5.2.121) रुआग्विणीत्येवमादौ न स्यात्। तस्मान्नात्रासौ परिभाषोपतिष्ठते। `बहुबृत्रहाणि इति। बृत्रं हतवन्तः ब्राहमभ्रुणवृत्रेषु क्विप् (3.2.87) बहवो वृत्रहणो येषु तानि बहुवृत्रहाणि। प्रातपदिकान्तनुम्विभाक्तिषु च (8.4.11) इति णत्वम्। बहवः पूषणो येषु तानिबहुपूषाणि। बहवोऽर्यमणो येषु तानि बह्वर्यमाणि। ननु **सर्वनामस्थाने चासम्बुद्धौ** (6.4.8) इत्यनेन दीर्घत्वं सिद्धम्, तत्? किमर्थोऽयमारम्भः? इत्यत आह -`सिद्धे सत्यारम्भः इत्यादि। युक्तोऽसय नियमार्थः आरम्भः, किन्त्वारभ्यमाणेऽप्येतस्मिन्? नियमर्थे भ्रूणहनीत्यत्र अनुनासिकस्य क्विझलोः क्ङिति (6.4.15) इति दीर्घत्वं प्राप्नोत्येव, तथा ह्रयं शौ सर्वनामस्थाने नियम आरभ्यते। अत्र यथा विशिष्टायाः प्रकृतेर्नियम आरभ्यमाणः प्रकृत्यन्तरस्य न भवति -प्रतामौ, प्रताम इति, तथा सर्वनामसंज्ञाविशिष्टे शित्प्रत्यय आरभ्यमाणः सर्वनामस्थान एव स्यात्, अन्यत्र न स्यात्; तुल्यजातीयापेक्षत्वान्नियमस्य। ततश्चासरवनामस्थाने नियमाभावाद्दीर्घत्वं स्यादेवेत्यत आह -दीर्घविधिः इत्यादि श्लोकम्। य इह शास्त्र इन्नन्तादीनां दीर्घत्विवधानं तं विनियम्य तस्य नियमं कृत्वा। कव विनियम्य? सुटि। सर्वनामस्थानोपलक्षणमेतत्? सङ्ग्रहणम्। सर्वनामस्थान इत्यर्थः। ततः किं कुर्यात्? इत्यत आह -शौ नियमम् इत्यादि। सर्वनामस्थाने नियमं कृत्वा पुनः शौ नियमं कुर्यात्। एवकारोऽवधारणार्थः, स तु भिन्नक्रमः, विदध्यादित्यस्यानन्तरं द्रष्टव्यः सुविद्धान्=सुपण्डितः। कथं पुनरेकेन योगेन द्वौ नियमौ शक्येते कर्त्तुम्? एवं मन्यते -इमं योगं विभज्य द्वौ योगौ कर्तव्याविति। इन्हन्पूषार्यम्णाम् इत्येको योगः, ततः शौ इति द्वितीयः। सर्वनामग्रहणं चात्रानुवर्तते। तत्र पूर्वयोगः -दर्घविधिर्य इहेन्प्रभृतीनां तं विधिं विनियम्य सुटीत्यनेन दर्शितः। द्वितीयस्तु शौ नियमं पुनरेव विदध्यात् इत्यनेन। तत्र पूर्वेण योगेन दीर्घत्वं भवेत्। सर्वनामस्थाने चासम्बुद्धौ (6.4.8) इत्यनेन अनुनासिकस्य क्विझलोः क्ङिति (6.4.15) इत्यनेन वा दीर्घत्वं विनियम्यते -इन्प्रभृतीनां सर्वनामस्थान एव दीर्घत्वम्, नान्यत्र। तेन सप्तम्यां दीर्घो न भवति -वृत्रहणि, भ्रूणहनीत्यत्र। द्वितीयेन तु शौ नियम्यते, तत्रापि सर्वनामस्थाने शावेव दीर्घो भवति, नान्यत्रेति। तेन बहुवृत्रहाणीत्यत्र भवति, वृत्रहण इत्यत्र न भवति। एवं योगद्वयेन नियमद्वये क्रियमाणे सति योऽर्थः सम्पद्यते तं दर्शयितुमाह -भ्रूणहनि इति। तथास्य न दुष्येत् इति। तथैवं योगद्वये कृतेऽस्य पाणिनेः भ्रूणहनीत्येतच्छब्दरूपं नैव दुष्येन्नासिद्धत्वदोषवद्भववतीत्यर्थः। इतिकरणो हेतौ। यस्मादेवं योगद्वयेन नियमद्वये क्रियमाणे भ्रूणहनीत्येतन्न दुष्येत; तस्माद्दीर्घविधिर्य इहेन्प्रभृतीनां तं विनियम्य सुटि शौ नियमं सुविद्धान्? पुनर्विदध्यात्। द्वितीयस्त्वितिकरणो भ्रूणहनीत्येतस्य स्वरूपपदार्थकतां द्योतयति। एवं योगद्वयेन भ्रूणहनीत्यत्र दीर्घत्वं परिह्मत्यैकस्मिन्? योगे परिहर्त्तुमाह -शास्मि इत्यादि। शास्मि=उपदशामि तमपरमुपायम्, येनैकस्मिन्? योगे सति भ्रूणहनौ, भ्रूणहन इति न दुष्यति। नापि भ्रूणहनीत्येतत्। कः पुनरसावुपायः? इत्याह -निवर्त्त्य इत्यादि। सुटीत्येकयोगेन सर्वनामस्थानं लक्ष्यते। सर्वनामस्थाने इति यदेतत्प्रकृतं तं निवर्त्त्य। अविशेषे इति। नास्य विशेषो विद्यत इत्यविशेषः; तस्मिन्नविशेषे=अनाश्रितविशेषे प्रत्ययमात्रे शौ इत्येवं तं नियमं कुरु। एवं वा नियमं कुर्वित्यर्थः। वाशब्दः पक्षान्तरत्वमस्य परीहारस्य द्योतयति। अपिशब्दो भ्रूणहनीत्यत्रापि पक्षान्तर आश्रीयमाणे न दुष्यति? शावेव दीर्घत्वस्य नियतत्वात्। इन्प्रभृतोनां यदि दीर्घत्वं भवति तदा शावेव प्रत्यये, नान्यत्रेति। निवर्त्त्य सुटीत्यनेन शास्त्रीयस्याधिकारस्य निवृत्तिर्दर्शिता। निवृत्ते तु तस्मिन्? यदि लौकिकोऽधिकारोऽपेक्षालक्षण आश्रीयते तदा पूर्ववत्? भ्रूणहनीत्यत्र स्यादेव दीर्घत्वम्। अतो लौकिकाधारनिरासायाह -असमीक्ष्य इति। सुटीत्यनेनास्य सम्बन्ध-। सर्वनामस्थानमपेक्ष्येत्यरेथः। एवं सर्वनामस्थानग्रहणनिवृत्तेऽनपेक्षिते च प्रत्ययमात्रापेक्षया शावित्ययं नियमः प्रत्ययमात्रं नियमयति, न तु तुल्यजातीयं सर्वनामस्थानमेव। तेन न केवलमन्यत्र सर्वनामस्थाने दीर्घो न भवति, अपि तु भ्रूणहनीत्यत्रापि। यदि तर्हि प्रत्ययमाश्रित्य सर्वनामस्थानविषयमनपेक्ष्य शौ नियमः, एवं हि सति दीर्घत्वस्य शावेव नियतत्वाद्यथा भ्रूणहनीत्यत्र न भवतिष तथाचारे क्यङ्यपि अकृत्सार्वधातुकयोर्दीर्घः (7.4.25) इति दीर्घत्वं न स्यात्, ततश्च भ्रूणहेवाचरतीति कर्त्तुः क्यङ्? सलोपश्च (3.1.11) इति क्यङि विहिते भ्रूणहयत इत्यनिष्टं रूपमापद्येतेत्यत आह -दीर्घविधेः इत्यादि। नोपधायाः (6.4.7) इत्यत उपधाग्रहणमनुवर्तते, तेन न सर्वस्य दीर्घविधेरयं नियमः, अपि तूपधादीर्घविधेः। न च अकृत्सार्वधातुकयोः (7.4.25) इत्युपधादीर्घविधिः, किं तर्हि? अजन्तदीर्घविधिः। तस्मादयमत्र प्रवर्तत एव। हन्त! यि दीर्घविधौ च न दोषः इति। यकारादौ प्रत्यये क्पङि दोषो न भवतीत्यर्थः। हन्तेति निपातो वचनारम्भेऽभिमुखीकरणे वा वर्तते। अन्ये तु हन्तयि दीर्घविधौ च न दोषः इति पठन्ति। त एवं व्याचक्षते -हन्तर्यो हन्तियः, पञ्चमी (2.1.36) इति योगविभागात्समासः, तस्मिन्? हन्तियि। सप्तम्येकवचनमेतत्। हन्तेर्धातोर्यकारादिर्यः प्रत्य इति। तत्र दीर्घविधौ न दोषः। चकारः पूर्वत्र परीहारे वक्ष्यमाणे च। अत एवोपधानियमाद्धन्तेर्यकारादौ प्रत्यये न दोष इत्यस्यार्थस्य द्योतनाय। सम्प्रति सर्वनामस्थानग्रहणेऽनुवर्तमाने, असति च योगविभागे भ्रूणहनीत्यत्र यथा दीर्घत्वं न भवति तथा तद्दर्शयितुमाह -सुटपि वा इत्यादि। वाशब्दोऽत्र पक्षान्तरं द्योतयति। अपिशब्दो भिन्नक्रमः अप्रकृतप्रतिषेधे इत्यस्यानन्तरं द्रष्टव्यः। अत्रापि सुटीत्येतत्? सर्वनामस्थानोपलक्षणार्थं वेदितव्यम्। नास्य विद्यतेऽवकाशः। व्यावृत्तिविषयो व्यवच्छेद्य इत्यनवकाशः। प्रकृतात्? सर्वनामस्थानदन्यदप्रकृतम्। सर्वनासस्थानव्यतिरिक्तं प्रत्ययान्तरमप्रकृतम्, तत्र दीर्घत्वस्य प्रतिषेधोऽप्रकृतप्रतिषेधः। अप्रकृते प्रतिषेधोऽप्रकृतप्रतिषेधः। सप्तमी (2.1.39) इति योगविभागात्समासः। अप्रकृतप्रतिषेधे इति। विषयसप्तमीयम्। अयं तादत्? पूर्वार्धस्यावयवार्थः। समुदायार्थस्तूच्यते -अथ वाऽनुवर्तमानेऽपि सर्वनामस्थानग्रहणे तत्र शावित्यस्य नियमस्य किञ्चिद्व्यावत्त्यमस्तीत्यनवकाशः सन्? सामर्थ्याद कृतप्रतिषेधेऽपि कर्तव्यता विषयभूते प्रवर्तते=व्याप्रियते। अपिशब्दादन्यत्रापि सर्वनामस्थाने। कथं पुनरवकाशः? इत्याह -यस्य हि इत्यादि। यस्येति शावित्यपेक्षया षष्ठी। हिशब्दो यस्मादर्थे। द्विविधं हि सर्वनामस्थानम् -स#उट्, शिश्च। तयोः पूर्वं स्त्रीपुंसयोः सम्बन्धि, न नपुंसकस्य; सुडनपुंसकस्य (1.1.43) इति वचनात्। इतरत्? पुनर्नपुंसकस्य; तत एव तस्य विधानात्। तत्र यत्सम्बन्धिनि शौ सर्वनामस्थाने शावित्ययं नियमः क्रियते, सुटि नैतत्। सुटि सर्वनामस्थाने परतस्तन्नपुंसकं न भवतीत्यर्थः। अनेन सुटः सर्वनामस्थानस्यानपुंसकसम्बन्धित्वमाख्यातम्। तेन न तत्र भवेद्विनियम्यम्। यस्मादेव सुट्? सर्वनामस्थानं नपुंसकस्य सम्बन्धि न भवति, तेन कारणेन तत्रानपुंसकसम्बन्धिनि सर्वनामस्थाने शावित्यस्य नियमस्य विनियम्यं व्यावत्त्यं नास्तीति नपुंसकसम्बन्धिनि हि क्रियमाणो नियमो युक्तः। अनपुंसकसम्बन्धिन्येवास्मिन्? सर्वनामस्थाने तुल्यजातीये निवृतिंत कुर्यात्। न च शिव्यतिरिक्तं नपुंसकसम्बन्धि सर्वनामस्थानमस्ति, ततो नास्ति तुल्यजातीये व्यावर्त्त्यम्। शौ नियमस्येति तस्यानवकाशत्वम्। तस्मादप्रकृतप्रतिषेधेऽपि व्याप्रियते। हन्तेरनुनासिकस्य इत्यादिना कारिकात्रयस्यापि यथाप्रधानमर्थमाचष्टे। तत्र हन्तेरनुनासिकस्येत्यादिना भ्रूणहनीति तथास्य न दुष्येत् इत्यस्यार्थ आख्यातः। योगविभागः इत्यादिना दीर्घविधिर्य इहेन्प्रभृतीनां तं विनियम्य सुटि इत्यस्य। ततः इत्यादिना शौ नियमं पुनरेव विदध्यात् इत्यस्य। सर्वनामस्थान इत्यादिना द्वितीयश्लोकपूर्वार्धस्य। यस्तु इत्यादिनोत्तरार्धस्य। अथ वा इत्यादिना सुटपि वा प्रकृतेरनवकाशः इत्यस्य। सामर्थ्यात् इति। सामर्थ्याम्नवकाशत्वम्। अविशेषेण नियमः इत्यनेन शौ नियमोऽप्रकृतप्रतिषेधे इत्यस्य। अविशेषेणेति सामान्येन, न प्रकृत एव, अपि तु प्रत्ययमात्र इत्यर्थः। यस्त्वप्रकृतपरतिषेधारथतामेवास्य नियमस्य व्याचष्टे तस्यैव तद्वचनमविशेषेणेत्यनेन वृत्तिकारवचनेन विरुध्यते। एवं ह्रविशेषेण नियमो भवति यदि सर्वत्र प्रकृते चाप्रकृते च प्रत्ययमात्रे भवति। अथ तु प्रकृतं परितयज्याप्रकृत एव स्यात्? ततो विशेषेणैव स्यात्, नाविशेषेण। अविशेषेण वास्मिन्नियमे सत्यनेनैव सर्वत्र दीर्घत्वस्य निवर्त्तितत्वात्? सौ च (6.4.13) इत्ययं योगो विध्यर्थो वेदितव्यः। सामर्थ्यादविशेषेण नियम इत्युक्तम्। अतस्तत्सामर्थ्यं दर्शयन्? शिशब्दे हि इत्यादिना यस्य हि शौ नियमः इत्यस्यार्थमाचष्टे। यत्र शिशब्दे नियमः क्रियते स यस्मान्नपुंसकस्य सर्वनामस्थानं न स्त्रीपुंसयोः; नपुंसकादुत्तरयोर्जश्शसोः व्यादेशस्य विधानात्। न च तस्यान्यत्? सर्वनामस्थानमस्ति इति। अनेन सुटः सर्वनामस्थानस्य नपुंसकसम्बन्धित्वं दर्शयति। इतिकरणो हेतौ। यत एवं नियमो विधीयते नपुंसकसम्बन्ध#इनि शौ सर्वनामस्थाने तज्जातीयमन्यत्? सर्वनामस्थानं हि नास्ति। तस्मात्? तुल्यजातीयव्यवचछेद्यस्यासम्भवादविशेषेम नियमः। तत्र तु इत्यादि। तुशब्दोऽवधारणार्थो भिन्नक्रमश्च नेत्यस्यानन्तरं द्रष्टव्यः। तत्रैतस्मिन्नियमे क्रियमाण इन्नादीनां नपुंसकस्येत्येतद्विशेषणं नैवाश्रीयते। अनाश्रीयमाणे च तस्मिन्नेषोऽर्थः सम्पद्यते -इन्नादीनां शावेव दीर्घो भवति, नान्यत्रेति। तेनानपुंसकस्यापि भ्रूणहनीत्यत्र नियमेन व्यावर्त्तितत्वाद्दीर्घो न भवति। यदि नपुंसकस्येत्येतद्विशेषमं तेषामाश्रीयते, ततोऽयमर्थः स्यात् -इन्प्रभृतीनां नपुंसकानां शावेव दीर्घो भवति, नान्यत्रेति। ततश्च नपुंसक एव नियमः स्यात्। तत्र को दोषः? भ्रूणहनि ब्राआहृणकुले इत्यत्रैव दीर्घनिवृत्तिः स्यात्, भ्रूणहनि ब्राआहृणे इत्यत्र न स्यात्। तस्मात्? तद्दोषपरिजिहीर्षया नपुंसकस्येत्येतद्विशेषणं नाश्रीयते। यद्येवम्, यदुक्तम् -अनवकाशः शौ नियमः इति, तन्नोपपद्यते, अनाश्रिते ह्रेतस्मिन्? विशेषणे तेषामनाश्रितविशेषणानां नपुंसकानामनपुंसकाताञ्च सम्बन्धिनि शौ सर्वनामस्थाने नियमः स्यात्, तथाभूतानाञ्च तेषामन्यदपि सुट्सर्वनामस्थानमस्त्येव, ततश्च तुल्यजातीयवयवच्छेदविषये सति कुतो नियमस्यानवकाशत्वम्? नैतदस्ति; नियमविधानवेलायां तेषां नपुंसकत्वं विशेषणं यद्यपि नाश्रीयत#ए, तथापि तेषां नपुंसकादेव शेर्विधानान्नपुंसकस्य निमित्तभावः, शेस्तु निमित्तिभाव इति निमित्तनिमित्तिभावलक्षणेन सम्बन्धेन शेः सर्वनामस्थानस्य नपुंसकसम्बन्धित्वं विद्यत एव। न चान्यन्नपुंसकसम्बन्धि सरवनामस्थानं विद्यत इत्युपपन्नमेतत् -अनवकाशः शौ नियम इति। ननु चात्र नपुंसकस्येति न प्रकृतम्, नाप्युपात्तम्, ततश्च तदाश्रयणशङ्का नास्त्येवेति तन्निवृत्तये न युक्तमिदम्, तत्र तु नपुंसकस्य इत्येतन्नाश्रीयते? इत्यत आह -सर्वनामस्थानसंज्ञाविधाने तु इत्यादि। तुशब्दो हेतौ। यतो नपुंसकेनोत्पादितस्य विशब्दस्य शि सर्वनामस्थानम् (1.1.42) इति सर्वनामस्थानसंज्ञा विधीयते, तस्मात्? सर्वनामस्थानसंज्ञाविधानं प्रति नपुंसकमिति निमित्तभावमापद्यते। तदेवं निमित्तभावोपयमनं नपुंसकस्य सर्वनामस्थानसंज्ञाविधाने व्यापारः। तस्माद्यत्र शिशब्दः सर्वनामस्थानसंज्ञकस्तत्रावश्यं नपुंसकेनोपस्थातव्यम्। इह तु सर्वनामस्थानग्रहणानुवृत्तेः सर्वनामस्थानसंज्ञकस्य शिशब्दस्य ग्रहणम्। ततो नपुंसकं सामर्थ्यात्? सन्निहितम्। तेन सम्भाव्यते तदाश्रयणमित्यभिप्रायः॥
Praudhamanorama¶
उपधाया इति। उपधादीर्घस्यैवायं नियमः। तेन ‘वृत्रहायते’ इत्यत्र ‘अकृत्सार्वधातुकयोः’ इति दीर्घो भवत्येव। तथा ‘वृत्रहणी’ इत्यत्र ‘अनुनासिकस्य क्विझलोः’ इति यो दीर्घः सोऽपि नियमेन व्यावर्त्यते, उपधादीर्घमात्रापेक्षया नियमविज्ञानादिति भावः। ‘हन्तेरत्पूर्वस्य’ इति सूत्रं योगविभागेन व्याचष्टे—‘हन्तेः’। प्रसङ्गादस्योदाहरणमाह—प्रहण्यादिति। प्रकृतोपयुक्तमंशमाह-
Sudha¶
इन्हन्निति । ढ्रलोपे पूर्वस्य दीर्घोऽणः**(6.3.111) इत्यतो दीर्घ इत्यनुवर्तते । **नोपधायाः**(6.4.7) इत्यत ‘उपधाया’ इति । तदाह - **एषामिति । अङ्गविशेषणत्वेन तदन्तविधिः । **सर्वनामस्थाने चासम्बुद्धौ**(6.4.8) इति सिद्धे नियमार्थमित्याह - नान्यत्रेति । शेरन्यत्रेत्यर्थः । इति निषेधे प्राप्त इति । वृत्रहन्शब्दे हन् इत्यस्यापि शावेव दीर्घ इति नियमात् सौ परतः **सर्वनामस्थाने चासम्बुद्धौ**(6.4.8) इति दीर्घे अप्राप्ते सतीत्यर्थः ।
Sutra Prayogas¶
अभ्रमयद् (भट्टिकाव्यम्): मितां ह्रस्वः इति मान्तत्वान्मित्त्वम्।
समाधत्ता (भट्टिकाव्यम्): श्नाभ्यस्तयोरातः इत्याकारलोपः।